________________
दशवैकालिक-मूलसूत्र-१/-/१ सेणिमारेमि, देमित्ति अब्भुवगए आसणे ट्ठिओ पढई, न ठाई, राया भणई-किं न ठाई?, ताहेतं मायंगोभणइ-जहाअविनएणं पढसि, अहं भूमीए तुम आसने, नीयतरेउवविट्ठो, ठियातो सिद्धाओ यविज्जाओत्ति। कृतं प्रसङ्गेन। एवं तावल्लौकिकमाक्षिप्तं चरणकरणानुयोगं चाधिकृत्योक्ता द्रव्योपायादयः, साम्प्रतं द्रव्यानुयोगमधिकृत्य प्रदर्श्यन्त इति।
तत्राप्युपायदर्शनतो नित्यानित्यैकान्तवादयोः सुखादिव्यवहाराभावप्रसङ्गेन तथा प्रत्यक्षगोचरातिक्रान्तेश्च वस्तुत आत्माभाव एवेति मा भूच्छिष्यकाणां मतिविभ्रमोऽत उपायत एवात्मास्तित्वमभिधातुकाम आहनि.[६३] एवं तुइहं आया पच्चक्खं अनुवलब्भमाणोऽवि!
सुहदुक्खमाइएहिं गिज्झइ हेऊहिं अत्थिति। वृ.एवमेव यथा धातुवादादिभिर्द्रव्यादि इह' अस्मिँल्लोके 'आत्मा' जीवः 'प्रत्यक्ष' मिति तृतीयार्थे द्वितीया प्रत्यक्षेण अनुपलभ्यमानोऽपि' अदृश्यमानोऽपि 'सुखदुःखादिभिः' आदिशब्दात् संसारपरिग्रहो गृह्यते 'हेतुभिः' युक्तिभिः 'अस्ति' विद्यत इति-एवं गृह्यते, तथाहिसुखदुःखानां धर्मत्वाद्धर्मस्य चावश्यमनुरूपेण धर्मिणा भवितव्यं, न च भूतसमुदायमात्र एव देहोऽस्यानुरूपो धर्मी, तस्याचेतनत्वात् सुखादीनांच चेतनत्वादिति। नि.[६४] जह वऽस्साओ हत्थिं गामा नगरंतु पाउसा सरयं ।
ओदइयाउउवसमंसंकंति देवदत्तस्स।। व.यथा वे'त्ति प्रकारान्तरदर्शने 'अश्वात्' घोटकात् 'हस्तिनं' गजं ग्रामात् नगरंतु प्रावृषः शरदं प्रावृट्कालाच्छरत्कालमित्यर्थः, औदयिकाद्भावाद् ‘उपशम'मित्यौपशमिकं 'संक्रान्तिः' संक्रमणं संक्रान्तिः कस्य?-देवदत्तस्य, प्रत्यक्षेणेति शेषः॥ नि.[६५] एवं सउजीवस्सविदव्वाईसंकमं पडुच्चा उ
अत्थित्तं साहिज्जइ पच्चक्खेणं परोक्खंपि॥ वृ. एवं' यथा देवदत्तस्य तथा, किम्? - 'सत्तो' विद्यमानस्य जीवस्यापिद्रव्यादिषुसंक्रमः, आदिशब्दात् क्षेत्रकालभावपरिग्रह:, तं 'प्रतीत्य' आश्रित्य 'अस्तित्वं' विद्यमानत्वं 'साध्यते' अवस्थाप्यते। आहसतोऽस्तित्वसाधनयुक्तम्, न, अव्युत्पन्नविप्रतिपन्नविषयत्वात् साधनस्य, 'प्रत्यक्षेण' अश्वादिसंक्रमेण, सर्वथा साक्षात्परिच्छित्तिमङ्गीयकृत्य परोक्षमपि' अप्रत्यक्षमपि, अवग्रहादिस्वसंवेदनतो लेशतस्तु प्रत्यक्षमेवैतत्, एतदुक्तं भवति-यथा अश्वादिराङ्कार्तिन देवदत्ताख्यं धर्मिणमतिरिच्य वर्त्तते, एवमियमप्यौदारिकाद्वैक्रिये तिर्यरलोकादूर्ध्वलोके परिमितवर्षायुष्कपर्यापादपरिमितवर्षायुष्कपर्याये चारित्रभावादविरत-भावे च संक्रान्तिन जीवाख्यं धर्मिणमन्तरेणोपपद्यत इति वृद्धाव्याचक्षते। अन्ये तु द्वितीय-गाथापश्चाद्धं पाठान्तरतोऽन्यथा व्याचक्षते-तत्रायमभिसम्बन्धः,-'एवं तु इहं आये' त्यादि-गाथयोपायत एवात्मास्तित्वमभिधायाधुनोपायत एव सुखदुःखादिभावसङ्गतिनिमित्तं नित्यानित्यैकान्तपक्षव्यवच्छेदेनात्मानं परिणामिनमभिधित्सुराह-'जहवऽस्साओ' गाथाव्याख्या पूर्ववत्।। नि.[६६] एवं सउजीवस्सविदव्वाईसंकमं पडुच्चाउ।
परिणामो साहिज्जइ पच्चक्खेणं परोक्खेवि॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org