________________
३८
दशवैकालिक-मूलसूत्र-१/-/१ वृ.'द्रव्यादिभिः' द्रव्यक्षेत्रकालभावैः नारकत्वविशिष्टक्षेत्रवयोऽवस्थितत्वाप्रसन्नत्वादिभिः 'नित्यः' अविचलितस्वभावः 'एकान्तेनैव' सर्वथैव येषां' वादिनाम् 'आत्मा' जीवः तु शब्दादन्यच्च वस्तु भवतिसंजायते 'अभावः' असंभवः तेषां' वादिनां केषाम्?- 'सुखदुःखसंसार-मोक्षाणाम्' तबाह्लादानुभवरूपंक्षणं सुखम्, तापानुभवरूपंदुःखम्, तिर्यग्ननारकामरभवसंसरण-रूप: संसारः, अष्टप्रकारकर्मबन्धवियोगो मोक्षः, तत्र कथं पुनस्तेषां वादिनां सुखाद्यभावः?, आत्मनोऽप्रच्युतानुत्पन्नस्थिरैकखभावत्वाद्, अन्यथात्वापरिणतेः सदैव नारकत्वादिभावाद्, अपरित्यक्ताप्रसन्नत्वे पूर्वरूपस्य च प्रसन्नत्वेनाभवनाद्, एवं शेषेष्वपि भावनीयम् नि.[६०] सुहदुक्खसंपओगो नविज्जइ निच्चवायपक्खंमि।
एगंतुच्छेअंमि असुहदुक्खविगप्पणमजुत्तं ॥ वृ.सुखदुःखसंप्रयोगः, सम्यक् संगतो वा प्रयोग: संप्रयोग: अकल्पित इत्यर्थः न विद्यते' नास्ति न घटत इत्यर्थः, क्व?-'नित्यवादपक्षे' नित्यवादाभ्युपगमे संप्रयोगो न विद्यते, कल्पितस्तु भवत्येव, यथाऽऽहुनित्यवादिन:-"प्रकृत्युपधानतः पुरुषस्य सुखदुःखे स्तः, स्फटिके रक्ततादिव बुद्धिप्रतिबिम्बाद्वाऽन्ये" इति, कल्पितत्वं चास्य आत्मनस्तत्त्वत एव तथापरिणतिमन्तरेण सुखाद्यभावाद् उपधानसन्निधावप्यन्धोपले रक्ततादिवत्, तदभ्युपगमेचाभ्युपगमक्षतिः, बुद्धिप्रतिबिम्बपक्षेऽप्यविचलितस्यात्मनः सदैवेकस्वभावत्वात् सदैवैकरूपप्रतिबिम्बापत्तेः, स्वभावभेदाभ्युपगमे चानित्यत्वप्रसङ्ग इति । मा भूदनित्यैकान्तग्रह इत्यत आह- 'एकान्तेन' सर्वथा उत्-प्राबल्येन छेदो-विनाशः एकान्तोच्छेदः-निरन्वयो नाश इत्यर्थः, अस्मिश्च किम्? - सुखदुःखयोर्विकल्पनं सुखदुःखविकल्पनम्, 'अयुक्तम्' अघटमानकम्, अयमत्र भावार्थ:एकान्तोच्छेदेऽपि सुखाद्यनुभवितुस्तत्क्षण एवं सर्वथोच्छेदादहेतुकत्वात्तदुत्तरक्षणस्योत्पत्तिरपि नयुज्यते, कुतः पुनस्तद्विकल्पनमिति गाथार्थः ।। उक्तोऽपायः, साम्प्रतमुपाय उच्यते-तत्रोपसामीप्येन (आयः) विवक्षतिवस्तुनोऽविकललामहेतुत्वाद्वस्तुनो लाभएवोपायः-अभिलषितवस्त्ववाप्तये व्यापारविशेष इत्यर्थः, असावपि चतुर्विध एव, तथा चाहनि.[६१] एमेव चउविगप्पो होइ उवाओऽपि तत्थदव्बंमि।
धातुव्वाओ पढमो नंगलकुलिएहि खेत्तं तु॥ वृ. एवमेव' यथा अपाय:, किम्?-'चतुर्विकल्प:' चतुर्भेद: भवत्युपायोऽपि, तद्यथाद्रव्योपाय: क्षेत्रोपाय: कालोपायः भावोपायश्च, तत्र'द्रव्य' इतिद्वारपरामर्श: द्रव्योपायेविचार्ये'धातुर्वाद:' सुवर्णपातनोत्कर्षलक्षणो द्रव्योपाय: 'प्रथम' इति लौकिक:, लोकोत्तरेत्वध्वादौ पटलादिप्रयोगतः प्रासुकोदककरणम्, क्षेत्रोपायस्तु लाङ्गलादिना क्षेत्रोपक्रमणे भवति, अत एवाह-'लाङ्गलकुलिकाभ्यां क्षेत्रम्' उपक्रम्यत इतिगम्यते, ततश्च लाङ्गलकुलिकेतदुपायोलौकिकः, लोकोत्तरस्तु विधिना प्रातरशनाद्यर्थमटनादिना क्षेत्रभावनम्, अन्ये तुयोनिप्राभृतप्रयोगतः काञ्चनपातनोत्कर्षलक्षणमेव सङ्घातप्रयोजनादौ द्रव्योपायं व्याचक्षते, विद्यादिभिश्च दुस्तराध्वतरणलक्षणं क्षेत्रोपायमिति। अबचप्रथमग्रहणपदार्थोऽतिरिच्यमान इवाभाति, पाठान्तरंवा धाउव्वाओ भणिओ'त्ति अत्र च कथञ्चिदविरोध एवेति गाथार्थः ।। नि.[६२] कालो अनालियाइहिं होइ भावंमि पंडिओ अभओ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org