________________
.२४८
दशवैकालिक-मूलसूत्रं च्चोत्तरतन्त्रं श्रुतगृहीतार्थमेव' दशवैकालिकाख्यश्रुतेन गृहीतोऽस्येति विग्रहः, यद्येवमपार्थकमिदं, नेत्याह-'संग्रहणी' तदुक्तानुक्तार्थसंक्षेप इति गाथार्थः॥ द्रव्यचूडादिव्याचिख्यासयाऽऽहनि.३६१] दव्वे सच्चिताई कुक्कुडचूडामणीमऊराई।
खेत्तंमि लोगनिक्कुडमंदरचूडा अकूडाई। वृ.'द्रव्य' इति द्रव्यचूडा आगमनोआगमज्ञशरीरेतरादि, व्यतिरिक्ता त्रिविधा 'सचित्ताद्या' सचित्ता अचित्ता मिश्रा च, यथासंख्यं दृष्टान्तमाह-कुक्कुटचूडा सचित्ता मणिचूडा अचित्ता मयूरशिखा मिश्रा। क्षेत्र' इति क्षेत्रचूडा लोकनिष्कुटा उपरिवर्तिनः, मन्दरचूडा च पाण्डुकम्बला कूटादयश्च तदन्यपर्वताना, क्षेत्रप्राधान्यता, आदिशब्दादधोलोकस्य सीमन्तक: तिर्यग्लोकस्य मन्दर ऊर्ध्वलोकस्येषत्प्राग्भारेति गाथार्थः॥ नि.[३६२] अइरित्त अहिगमासा अहिगा संवच्छरा अकालंमि।
भावे खओवसमिए इमा उचूडामणेअव्वा।। व. अतिरिक्ता' उचितकालात् समधिका अधिकमासकाः' प्रतीताः, अधिका: संवत्सराश्च षष्ठ्यब्दाद्यपेक्षया 'काल' इति कालचूडा, 'भाव' इति भावचूडा क्षायोपशमिके भावे इयमेव द्विप्रकारा चूडा मन्तव्या' विज्ञेया क्षायोपशमिकत्वाच्छुतस्येति गाथार्थः॥ तत्रापि प्रथमा रतिवाक्यचूडा, अस्याश्चानुयोगद्वारोपन्यास: पूर्ववत्तावद्यावन्नामनिष्पन्ने निक्षेपे रतिवाक्येति द्विपदं नाम, तत्ररतिनिक्षेप उच्यते-तत्रापि नामस्थापने अनाहत्यद्रव्यभावरत्यभिधित्सयाऽऽहनि.[३६३] दब्वे दुहा उ कम्मे नोकम्मरई असद्ददव्वाई।
भावरई तस्सेव उउदए एमेव अरईवि ।। वृ. द्रव्यरतिरागमनोआगमज्ञशरीरेतरातिरिक्ता द्विधा-कर्मद्रव्यरति!कर्मद्रव्यरतिश्च, तत्र कर्मद्रव्यरती रतिवेदनीयं कर्म, एतच्च बद्धमनुदयावस्थं गृह्ये नोकर्मद्रव्यरतिस्तुशब्दादिद्रव्याणि, आदिशब्दात्, स्पर्शरसादिपरिग्रह: रतिजनकानि-रतिकारणानि । भावरतिः तस्यैव तु' रतिवेदनीयस्य कर्मण उदये भवति, एवमेवारतिरपिद्रव्यभावभेदभिन्ना यथोक्तरतिप्रतिपक्षतोविज्ञेयेति गाथार्थः ।। उक्ता रतिः, इदानीं वाक्यमतिदिशन्नाहनि.[३६४] वक्कं तु पुव्वणि धम्मे रइकारगाणि वक्काणि।
जेणमिमीए तेन रइवक्केसा हवइ चूडा॥ वृ. वाक्यं तु पूर्वभणितं-वाक्यशुद्ध्यध्ययनेऽनेकप्रकारमुक्तं 'धर्मे' चारित्ररूपे रतिकारकाणि' रतिजनकानितानिचवाक्यानियेन कारणेन अस्यां चूडायां तेन निमित्तेन रतिवाक्यैषा चूडा, रतिकर्तृणि वाक्यानि यस्यां सा रतिवाक्येति गाथार्थः ॥ इह च रत्यभिधानं सम्यक्सहनेन गुणकारिणीत्वोपदर्शनार्थम्। आह चनि.[३६५] जह नाम आउरस्सिह सीवणछेज्जेसु कीरमाणेसु।
जंतणमपत्थकुच्छाऽऽमदोसविरई हिअकरी उ॥ वृ.यथा नामेति प्रसिद्धमेतत् 'आतुरस्य' शरीरसमुत्थेन आगन्तुकेन वा व्रणेन ग्लानस्य इह' लोके सीवनच्छेदेषु' सीवनच्छेदनकर्मसु क्रियामाणेषु सत्सु, किमित्याह-यन्त्रणं गलयन्त्रादिना 'अपथ्यकुत्सा' अपथ्यप्रतिषेधः आमदोषविरतिः' अजीर्णदोषनिवृत्तिः हितकारिण्येव विपाक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org