SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-९, उद्देशक:-१. [नि. ३२८] २२३ क्रोधात्क्वचिद्वितथकरणचोदितो रोषाद्वा, मायातः शूलं मे क्रियत इत्यादिव्याजेन, प्रमादात्प्रक्रान्तोचितमनवबुद्ध्यमानो निद्रादिव्यासङ्गेन, स्तम्भादिक्रमोपन्यासश्चेत्थमेवामीषां विनयविघ्नहेतुतामाश्रित्य प्राधान्यख्यापनार्थः । तदैवं स्तम्भादिभ्यो गुरोः सकाशे विनयं न शिक्षते, अन्ये तु पठन्ति-गुरोः सकाशे 'विनयेन तिष्ठति' विनयेन वर्तते, विनयं नासेवत इत्यर्थः । इह च ‘स एव तु स्तम्भादिविनयशिक्षाविघ्नहेतुः 'तस्य' जडमतेः 'अभूतिभाव' इति अभूतेर्भावोऽभूतिभावः, असंपद्भाव इत्यर्थः, किमित्याह-वधाय भवति' गुणलक्षणभावप्राणविनाशाय भवति, दृष्टान्तमाह-'फलमिव कीचकस्य' कीचको-वंशस्तस्य यथा फलं वधाय भवति, सति तस्मिस्तस्य विनाशात, तद्वदिति सूत्रार्थः ।। मू.(४१६)जे आवि मंदित्ति गुरुं विइत्ता, डहरे इमे अप्पसुअत्ति नच्चा। हीलंति मिच्छं पडिबजमाणा, करंति आसायण ते गुरूणं॥ वृ.किं च-'जे आवि'त्ति सूत्रं, ये चापि केचन द्रव्यसाधवोऽगम्भीराः, किमित्या-ह'मन्द इति गुरु विदित्वा' क्षयोपशमवैचित्र्यात्तन्त्रयुक्तलोचनाऽसमर्थः सत्प्रज्ञाविकल इति स्वमाचार्य ज्ञात्वा । तथा कारणान्तरस्थापितमप्राप्तवयसं 'डहरोऽयम्' अप्राप्तवयाः खल्वयं, तथा 'अल्पश्रुत' इत्यनधीतागम इति विज्ञाय, किमित्याह-'हीलयन्ति' सूययाऽसूयया वा खिसयन्ति, सूयया अतिप्रज्ञस्त्वं वयोवृद्धो बहुश्रुत इति, असूयया तु मन्दप्रज्ञस्त्वमित्याद्यभिदधति, 'मिथ्यात्वं प्रतिपद्यमाना' इति गुरुन हीलनीय इति तत्त्वमन्यथाऽवगच्छन्तः कुर्वन्ति 'आशातनां' लघुतापादनरूपां 'ते' द्रव्यसाधवः 'गुरूणाम्' आचार्याणां, तत्स्थापनाया अबहुमानेन एकगुर्वाशातनायां सर्वेषाकाशातनेति बहुवचनम्, अथवा कुर्वन्ति आशातना' स्वसम्यादर्शनादिभावापहासरूपां ते गुरूणां संवन्धिनी, तत्रिमित्तत्वादिति सूत्रार्थः॥ मू.(४१७)पगईई मंदावि भवंति एगे. डहरावि अ जे सुअबुद्धोववेआ। आयारमंतो गुणसुद्विअप्पा. जे हीलिआ सिहिरिव भास कुज्जा ।। वृ.अतो न कार्या हीलनेति, आह च-'पगइ'त्ति सूत्रं, प्रकृत्या' स्वभावेन कर्मवैचित्र्यात् 'मन्दा अपि' सद्बुद्धिरहिता अपि भवन्ति 'एके' केचन वयोवृद्धा अपि तथा 'डहरा अपि च' अपरिणता अपि च वयसाऽन्येऽमन्दा भवन्तीति वाक्यशेषः, किंविशिष्टा इत्याह-ये च 'श्रुतबुद्ध्युपपेताः' तथा सत्प्रज्ञावन्तः श्रुतेन बुद्धिभावेन वा, भाविनी वृत्ति-माश्रित्याल्पश्रुता इति, सर्वथा आचारवन्तो' ज्ञानाद्याचारसमन्विताः 'गुणसुस्थितात्मानो' गुणेषु-संग्रहोपग्रहादिषु सुष्ठु--भावसारं स्थित आत्मा येषां ते तथाविधा न हीलनीयाः, ये 'होलिताः' खिसिता: 'शिखीव' अग्निरिवेन्धनसंघातं 'भस्मसात्कुयुः' ज्ञानादिगुणसंघातमपनयेयुरिति सूत्रार्थः॥ मू. (४१८) जे आवि नागं डहरंति नच्चा, आसायए से अहिआय होइ। एवायरिअंपि हु हीलयंतो, निअच्छई जाइपहं खु मंदो। वृ.विशेषेण डहरहीलनादोषमाह-'जे आवि'त्ति सूत्र, यश्चापि कश्चिदज्ञो 'नाग' सर्प 'डहर इति' बाल इति 'ज्ञात्वा' विज्ञाय 'आशातयति' किलिञ्चादिना कदर्थयति 'स' कदीमानो नागः 'से' तस्य कदर्थकस्य 'अहिताय भवति' भक्षणेन प्राणनाशाय भवति, एष दृष्टान्तोऽयमर्थोपनयः-एवमाचार्यमपि कारणतोऽपरिणतमेव स्थापितं हीलयन् निर्गच्छति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003380
Book TitleAgam Sutra Satik 42 Dashvaikalik MoolSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 42, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy