SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-७, उद्देशकः - [नि. २७२] ____१८९ वृ.'द्रव्यं' इति द्वारपरामर्शः, द्रव्यभाषा त्रिविधा-ग्रहणे च निसर्गे तथा भवेत्पराघाते। तत्र ग्रहणं भाषाद्रव्याणां कायायोगेन यत् सा ग्रहणद्रव्यभाषा, निसर्गस्तेषामेव भाषाद्रव्याणां वाग्योगेनोत्सर्गक्रिया, पराघातस्तु निसृष्टभाषाद्रव्यैस्तदन्येषां तथापरिणामापादनक्रियावत्प्रेरणम्, एषा त्रिप्रकाराऽपि क्रिया द्रव्ययोगस्य प्राधान्येन विवक्षितत्वात् द्रव्यभाषेति। __ 'भाव' इति द्वारपरामर्शः, भावभाषा त्रिविधैव, द्रव्ये च श्रुते चारित्र इति, द्रव्यभावभाषा श्रुतभावभाषा चारित्रभावभाषा च, तत्र द्रव्यं प्रतीत्योपयुक्तैर्या भाष्यते सा द्रव्यभावभाषा, एवं श्रुतादिष्वपि वाच्यम, इयं त्रिप्रकारापिकक्रभिप्रायात्तद्रव्यभावप्राधान्यापेक्षया भावभाषा, इयं चौधत एवाराधनी चैवेति, द्रव्याद्याराधनात्, चशब्दद्विराधना चोभयं चानुभयं च भवति, द्रव्याचाराधनादिभ्य इति । आह-इह द्रव्यभाववाक्यस्वरूपमभिधातव्यं, तस्य प्रस्तुतत्वात्, तत्किमनया भाषयेति, उच्यते वाक्यपर्यायत्वाद्भाषाया न दोषः, तत्त्वतस्तस्यैवाभिधानादिति गाथासमुदायार्थः, अवयवार्थं तु वक्ष्यति। तत्र द्रव्यभावभाषामधिकृत्याराधन्यादिभेदयोजनामाहनि.[२७३] आराधनी उ दब्बे सच्चा मोसा विराधनी होइ। सच्चामोसा मीसा असच्चमोसा य पडिसेहा 11 वृ.आराध्यते-परलोकापीडया यथावदभिधीयते वस्त्वनयेत्याराधनी तु 'द्रव्य' इति द्रव्यविषया भावभाषा सत्या, तुशब्दात् द्रव्यतो विराधन्यपि काचित्सत्या, परपीडासंरक्षणफलभावाराधनादिति, मृषाविराधनो भवति, तद्रव्यान्यथाभिधानेन तद्विरांधनादिति भावः, सत्यामृषा मिश्रा, मिश्रेत्याराधनी विराधनी च, असत्यामृषा च 'प्रतिषेध' इति नाराधनी नापि विराधनी, तद्वाच्यद्रव्ये तथोभयाभावादिति, आसां च स्वरूपमुदाहरणैः स्पष्टीभविष्यतीति गाथार्थः ।। नि. [२७४] जनवयसम्मयठवणा नामे रूवे पडुच्च सच्चे अ। । ववहारभावजोगे दसमे ओवम्मसच्चे अ॥ व.सत्यं तावद्वाक्यं दशप्रकारं भवति, जनपदसत्यादिभेदात्, तत्र जनपदसत्यं नाम नानादेशभाषारूपमप्यविप्रतिपत्त्या यदेकार्थप्रत्यायनव्यवहारसमर्थमिति, यथोदकार्थे कोङ्कणकादिषु पयः पिच्चमुदकं नीरमित्याद्यदुष्टविवक्षाहेतुत्वानानाजनपदेष्विष्टार्थप्रतिपत्तिजनकत्वाद्वयवहारप्रवृत्तेः सत्यमेतदिति, एवं शेषेष्वपि भावना कार्या । संमतसत्यं नाम-कुमुदकुवलयोत्पलतामरसानां समाने पङ्कसंभवे गोपादीनामपि संमतमरविन्दमेव पङ्कजमिति । स्थापनासत्यं नाम अक्षरमुद्राविन्यासादिषु यथा माषकोऽयंकार्षापणोऽयं शतमिदंसहस्त्रमिदमिति। नामसत्यं नाम कुलमवर्धयापि कुलवर्द्धन इत्युच्यते धनमवर्धयन्नपि धनवर्द्धन इत्युच्यते अयक्षश्च यक्ष इति। रूपसत्यं नाम अतद्गुणस्य तथारूपधारणं रूपसत्यं, यथा प्रपञ्चयतेः प्रव्रजितरूपधारणमिति।प्रतीत्यसत्यं नाम यथा अनामिकाया दीर्घत्वं इस्वत्वं चेति, तथाहि-अस्यानन्तपरिणामस्य द्रव्यस्य तत्तत्सहकारिकारणसंनिधानेन तत्तद्रूपमभिव्यज्यत इति सत्यता। व्यवहारसत्यं नाम दह्यते गिरिर्गलति भाजनमनुदरा कन्या अलोमा एंडकेति गिरिगततृणादिदाहे व्यवहारः प्रवर्तते तथोदके च गलति सति तथा संभोगजबीजप्रभवोदराभावे च सति तथा लवनयोग्यलोमाभावे सति । भावसत्यं नाम शुक्ला बलाका, सत्यपि पञ्चवर्णसंभवे शुक्लवर्णोत्कटत्वाच्छुक्लेति। योगसत्यं नाम छत्रयोगाच्छत्री दण्डयोगाद्दण्डीत्येवमादि । दशममौपम्यसत्यं च, तत्रौपम्यसत्यं नाम For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003380
Book TitleAgam Sutra Satik 42 Dashvaikalik MoolSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 42, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy