________________
अध्ययनं - ६, उद्देशक:- [नि. २६६ ] अमुमेवार्थं सूत्रस्तर्शनिर्युक्ता स्पष्टयतिनि. [२६७ ]
अट्ठारस ठाणाई आयारकहाए जाई भणियाई । सिं अन्तरागं सेवंतु न होइ सो समणो ॥
वृ. अष्टादशस्थानान्याचारकथायां प्रस्तुतायां यानि भणितानि तीर्थकरैः तेषामन्यतरस्थानक सेवमानो न भवत्यसौ श्रमण आसेवक इति गाथार्थः । कानि पुनस्तानि स्थानानीत्याह - नि. [२६८ ] वयछक्कं कायछकं, अकप्पो गिहिभायणं । पलियंकनिसेज्जा य, सिणाणं सोहवज्जणं ॥
१७७
वृ. ' व्रतषट्कं' प्राणातिपातनिवृत्त्यादीनि रात्रिभोजनविरतिषष्ठानि षड् व्रतानि कायषट्कंपृथिव्यादयः षड्जोवनिकाया: 'अकंल्पः' शिक्षकस्थापनाकल्पादिर्वक्ष्यमाणः 'गृहिभाजनं' गृहस्थसंबन्धि कांस्यभाजनादि प्रतीतं 'पर्यङ्क' शयनविशेषः प्रतीतः । 'निषद्या च' गृहे एकानेकरूपा ‘स्नानं' देशसर्व भेदभिन्नं 'शोभावर्जनं' विभूषापरित्यागः, वर्जनमिति च प्रत्येकभिसंबध्यते, शोभावर्जनं स्नानवर्जनमित्यादीति गाथार्थः ॥
मू. ( २३३ )
तत्थिमं पढमं ठाणं, महावीरेण देसिअं । अहिंसा निउणा दिट्ठा, सव्वभूषसु संजमो ॥
वृ. व्याख्याता सूत्रस्पर्शनियुक्तिः, अधुना सूत्रान्तरं व्याख्याते, अस्य चायमभिसंबन्ध: - गुणा अष्टादशसु स्थानेषु अखण्डास्फुटिताः कर्तव्याः, तत्र विधिमाह- 'तत्थिमं' ति सूत्रं । 'तत्र' अष्टादशविधे स्थानगणे व्रतषट्के वा अनासेवनाद्वारेण 'इदं' वक्ष्यमाणलक्षणं प्रथमं स्थानं 'महावीरेण' भगवता अपश्चिमतीर्थकरेण 'देशितं कथितं यदुताहिंसेति । इयं च सामान्यतः प्रभूतैर्देशितेत्यत आह- 'निपुणा' आधाकर्माद्यपरिभोगतः कृतकारितादिपरिहारेण सूक्ष्मा, न आगमद्वारेण देशिता अपितु 'दृष्टा' साक्षाद्धर्मसाधकत्वेनोपलब्धा, किमितीययमेव निपुणेत्यत आह-यतोऽस्यामेव महावीरदेशितायां 'सर्वभूतेषु' सर्वभूतविषयः संयमो, नान्यत्र, उद्दिश्यकृतादिभोगविधानादिति सूत्रार्थः ॥
मू. ( २३४ )
जावंति लोए पाणा, तसा अदुव थावरा । ते जाणमजाणं वा, न हणे नोवि धायए ।।
वृ. एतदेव स्पष्टयन्नाह - 'जावति' सूत्रं यतो हि भागवत्याज्ञा यावन्तः केचन लोके प्राणिनस्त्रसा - द्वीन्द्रियादयः अथवा स्थावराः - पृथिव्यादयः तान् जानन् रागाद्यभिभूतो व्यापादनबुद्धया अजानन्वा प्रमादपारतन्त्र्येण न हन्यात् स्वयं नापि घातयेदन्यैः, 'एकग्रहणे तज्जातीयग्रहणाद्' घ्नतोऽप्यन्यान्नं समनुजानीयाद्, अतो निपुणा दृष्टेति सूत्रार्थः ॥ सव्वे जीवावि इच्छंति, जीविडं न मरिज्जिउं । तम्हा पाणवहं घोरं, निग्गंथा वज्जयंति नं ॥
मू. ( २३५ )
वृ. अहिंसैव कथं साध्वीत्येतदेवाह - 'सव्वे 'त्ति सूत्रं, सर्वे जीवा अपि दुःखितादिभेदभिन्ना इच्छन्ति जीवितुं न मर्तुं प्राणवल्लभत्वात्, यस्मादेवं तस्मात्प्राणवधं 'घोरं रौद्रं दुःखहेतुत्वाद् 'निर्ग्रन्थाः' साधवो वर्जयन्ति भावतः । नमिति वाक्यालङ्कार इति सूत्रार्थः ।।
27/12
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org