SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १५८ दशवैकालिक-मूलसूत्र-५/१/१४८ मू. (१४८) बहुअट्ठियं पुग्गलं, अनिमित्त वा बहुकंटयं । ___ अच्छियं तिदुयं बिलं, उच्छुखंडंव सिंबलिं॥ वृ. किंच- 'बहुअट्ठियं ति सूत्रं, बलस्थि 'पुद्गलं' मांसम् 'अनिमिषं वा' मत्स्यं वा बहुकण्टकम्, अयं किल कालाद्यपेक्षया ग्रहणे प्रतिषेधः, अन्ये त्वभिदधति-वनस्पत्यधिकारातथाविधफलाभिधाने एते इति, तथा चाह-'अस्थिकं' अस्थिकवृक्षफलम्, 'तेंदुकं तेंदुरुकीफलम्, बिल्वम् इक्षुखण्डमिति च प्रतीते, 'शाल्मलि वा' वल्लादिफलिं वा, वाशब्दस्य व्यवरहितः संबन्ध इति सूत्रार्थः ।। मू.(१४९) अप्पे सिआ भोअणज्जाए, बहुउज्झियधम्मियं । दितिअंपडिआइक्खे, न में कप्पइ तारिसं ।। वृ. अत्रैव दोषमाह-'अप्पे'त्ति सूत्रं, अल्पस्याभोजनजातमत्र, अपि तु बहूज्झनधर्मकमेतत्, यतश्चैवमतो ददती प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः ।। मू. (१५०) तहेवुच्चावयं पानं, अदुवा वारधोअणं । संसेइमं चाउलोदगं, अहुणाधोयं विवज्जए। वृ. उक्तोऽशनविधिः, साम्प्रतं पानविधिमाह-'तहेव'त्ति सूत्रं, तथैव यथाशनमुच्चावचं तथा पानम् 'उच्चं' वर्णाद्युपेतं द्राक्षापानादि अवचं' वर्णादिहीनं पूत्यारनालादि अथवा 'वारकधावनं' गुडघटघावनमित्यर्थः, 'संस्वेदजं' पिष्टोदकादि, एतदशनवदुत्सर्गापवादाभ्यां गृह्णीयादिति वाक्यशेषः, 'तन्दुलोदकम्' अट्टिकरकं अधुनाधौतम्' अपरिणतं विवर्जयेदिति सूत्रार्थः ।। मू.(१५१) जं जाणेज्ज चिराधोय, मईए दंसणेन वा। पडिपुच्छिऊण सुच्चा वा, जंच निस्संकिअं भवे॥ वृ.अत्रैव विधिमाह-'जं जाणिज्ज'त्ति सूत्रं, यत्तन्दुलोदकं 'जानीयात्' विद्याच्चिरधौतम्, कथं जानीयादित्यत आह-मत्वा दर्शनेन वा, 'मत्या' तद्ग्रहणादिकर्मजया दर्शनेन वा' वर्णादिपरिणतसूत्रानुसारेण च, वा चशब्दार्थः, तदप्येवंभूतं कियती वेलाऽस्य धौतस्येति पृष्टवा गृहस्थं, 'श्रुत्वा वा' महती वेलेति श्रुत्वा च प्रतिवचनं यच्चेति यदेव निःशङ्कितं भवति निरवयवप्रशान्ततया तन्दुलोदकं तत्प्रतिगृह्णीयादिति, विशेषः पिण्डनियुक्तिावुक्त इति सूत्रार्थः ।। मू.(१५२) अजीवं परिणयं नच्चा, पडिगाहिज्ज संजए। अह संकियं भविज्जा, आसाइत्ताण रोअए। वृ. उष्णोदकादिविधिमाह-'अजीवंति सूत्रं, उष्णोदकमजीवं परिणतं 'ज्ञात्वा' त्रिदण्डपरिवर्तनादिरूपं मत्या दर्शनेन वेत्यादि वर्तते, तदित्थंभूतं प्रतिगृह्णीयात्संयतः, चतुर्थरसमपूत्यादि देहोपकारकं मत्यादिना ज्ञात्वेत्यर्थः, अथ शङ्कितं भवेत् तत आस्वाद्य 'रोचयेद्' विनिश्चयं कुर्यादिति सूत्रार्थः॥ मू.(१५३) थोवमासायणढाए, हत्थगंमि दलाहि मे। मा मे अच्चंबिलं पूअं, नालं तण्हं विनित्तए। वृ.तच्चैवं-'थोवं'ति सूत्रं, स्तोकमास्वादनार्थं प्रथमं तावत् हस्ते देहि मे, यदि साधुप्रायोग्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003380
Book TitleAgam Sutra Satik 42 Dashvaikalik MoolSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 42, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy