SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ आवश्यक मूलसूत्रम्-१यदा पुरुषो निर्देष्टा तदा पुंल्लिङ्गता, एवं स्त्रीनपुंसकयोजनाऽपि कार्या, तथा 'उभयसशं' निर्देश्यनिर्देशसद्दशं, समानलिङ्गमेव वस्त्वङ्गीकृत्य, शब्दस्य निर्देशप्रवृत्तिरिति वाक्यशेषः, एतदुक्तं भवति-उपयुक्तो हि निर्देष्टा निर्देश्याभिन्न एव, तदुपयोगानन्यत्वात्, ततश्च पुंसः पुमांसमभिदधतः पुनिर्देश एव, एवं स्त्रियाः स्त्रियं प्रतिपादयन्त्याः स्त्रीनिर्देश एवं, एवं नपुंसकस्य नपुंसकमभिदधानस्य नपुंसकनिर्देश एव, यदा तु पुमान् स्त्रियमभिधत्ते, तदा स्त्र्युपयोगानन्यत्वात् स्त्रीरूप एवासौ, निर्देश्यनिर्देशकयोः समानलिङ्गतैव, एवं सर्वत्र योज्यं, असमानलिङ्गनिर्देष्टाऽस्य अवस्त्वेद, यदा पुमान् पुमांसं स्त्रियं चाहेति, कुतः ?, तस्य पुरुषयोषिद्विज्ञानोपयोगभेदाभेदविकल्पद्वारेण पुरुषयोषिदापत्तेः, अन्यथा वस्त्वभावप्रसङ्गात्, तस्मादुपयुक्तो यमर्थमाह स तद्विज्ञानानन्यत्वात्तन्मय एव, तन्मयत्वाच्च तत्समानलिङ्गनिर्देशः, ततश्च सामायिकवक्ता तदुपयोगानन्यत्वात् सामायिक प्रतिपादयन्नात्मानमेवाह यतःतस्मात्तत्समानलिङ्गाभिधान एवासी, रूढितश्च सामायिकार्थरूपस्य नपुंसकत्वास्त्रियाः पुंसो नपुंसकस्य वा प्रतिपादयतः सामायिकं नपुंसकलिङ्गनिर्देश एवेति गाथासमासार्थः । व्यासार्थस्तु विशेषविवरणादवगन्तव्य इति । सर्वनयमतान्यपि चामूनि पृथग्विपरीतविषयत्वात् न प्रमाणं, समुदितानि त्वन्तर्बाह्यनिमित्तसामग्रीमयत्वात् प्रमाणमिति अलं विस्तरेण, गमनिकामात्रप्रधानत्वात् प्रस्तुतप्रयासस्य ।। इदानीं निर्गमविशेषस्वरूपप्रतिपादनायाहनि. (१४५) नाम ठवणा दविए खित्ते काले तहेव भावे । एसो उ निग्गमस्सा निक्खेवो छव्विहो होइ ।। वृ-गमनिका-नामस्थापने पूर्ववत्, द्रव्य निर्गम:-आगमनोआगमज्ञशरीरेतरव्यतिरिक्तः, स च त्रिधा-सचित्ताचित्तमिश्रभेदभिन्नः, तत्र सचित्तात्सचित्तस्य यथा पृथिव्या अङ्कुरस्य, सचित्तान्मिश्रस्य यथा-भूमेः पतङ्गस्य, सचित्तादचित्तस्य यथा-भूमेर्बाष्पस्य, तथा मिश्रात्सचित्तस्य यथा-देहात्कृमिकस्य, मिश्रान्मिश्रस्य यथा-स्त्रीदेहाद्गर्भस्य, मिश्रादचित्तस्य यथा-देहान विष्ठायाः, अचित्तात्सचित्तस्य यथा-काष्ठात्कृमिकस्य, अचित्तान्मिश्रस्य यथा-काष्ठा धुणस्य, अचित्तादचित्तस्य यथा-काष्ठाद् धूणचूर्णस्य । अथवा द्रव्यात् द्रव्यस्य द्रव्यात् द्रव्याणां द्रव्येभ्यो द्रव्यस्य द्रव्येभ्यो द्रव्याणामिति, तत्र द्रव्याद् द्रव्यस्य यथा-रूपकात् रूपकस्य निर्गमः, एकस्मादेव कलान्तरप्रयुक्तादिति भावार्थः, एकस्मादेव कलान्तरतः प्रभूतनिर्गमो द्वितीयभङ्गभावना, प्रभूतेभ्यः स्वल्पकालेनैकस्य निर्गमो भवति तृतीयभङ्गभावना, प्रभूतेभ्यः प्रभूतानां कलान्तरतश्चतुर्थभङ्गभावनेति, 'क्षेत्रे' इति क्षेत्रविषयो निर्गमः प्रतिपाद्यते, एवं सर्वत्र अक्षरगमनिका कार्या, तत्र कालनिर्गमः-कालोह्यमूर्तस्तथापि उपचारतो वसन्तस्य निर्गमः दुर्भिक्षाद्वा निर्गतो देवदत्ता बालकालाद्वेति, अथवा कालो द्रव्यधर्म एव, तस्य द्रव्यादेव निर्गमः, तत्रभवत्वादिति, एवं भावनिर्गमः तत्र पुद्गलाद्वर्णादिनिर्गमः, जीवोक्रोधादिनिर्गमः इति, तयोर्वा पुद्गलजीवयोवर्णविशेषऋोधादिभ्यो निर्गम इति, एष एव निर्गमस्य निक्षेपः षड्विध इति गाथार्थः ॥ __ एवं शिष्यमतिविकाशार्थं प्रसङ्गत उक्तोऽनेकधा निर्गमः, इह च प्रशस्तभावनिर्गममात्रेण अप्रशस्तापगमेन वाऽधिकारः, शेषैरपि तदङ्गत्वाद, इह च द्रव्यं वीरः क्षेत्रं महासेनवनं काल: प्रमाणकालः भावश्च भावपुरुषः, एवं च निर्गमाङ्गानि द्रष्टव्यानीति एतानि च द्रव्याधीनानि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy