________________
आवश्यक मूलसूत्रम्-१
द्वाराधिकारे विधानतो लक्षणतश्च व्याख्या क्रियत इति । __ आह-यद्येव निर्गमो न वक्तव्यः, तस्यागमद्वार एवाभिहितत्वात्, तथा च 'आत्मागम' इत्याधुक्तं, ततश्च तीर्थकरगणधरेभ्य एव निर्गतमिति गम्यते इति, उच्यते, सत्यं किंतु इह तीर्थकरगणधराणामेव निर्गमोऽभिधीयते, कोऽसौ तीर्थकरो गणधराश्चेति, वक्ष्यते-वर्धमानो गौतमादयश्चेति, यथा च तेभ्यो निर्गतं तथा क्षेत्रकालपुरुषकारणप्रत्ययविशिष्टमित्यतोऽदोष इति । आह-यद्येव लक्षणं न वक्तव्यं, उपक्रम एव नामद्वारे क्षायोपशमिकभावेऽवतारितत्वात, प्रमाणद्वारे च जीवगुणप्रमाणे आगमे इति, उच्यते, तत्र निर्देशमात्रत्वात्, इह तु प्रपञ्चतोऽभिधानाददोषः, अथवा तत्र श्रुतसामायिकत्यैवोक्तं, इह तु चतुर्णामपि लक्षणाभिधानाददोषः। आह-नयाः प्रमाणद्वार एवोक्ताः किमिहोच्यन्ते ?, स्वस्थाने च मूलद्वारे वक्ष्यमाणा एवेति, उच्यते, प्रमाणद्वारोक्ता एवेह व्याख्यायन्ते, अथवा प्रमाणद्वाराधिकारात्तत्र प्रमाणभावमात्रमुक्तं, इह तु स्वरूपावधारणमवतारो वाऽऽरभ्यते, एते च सर्व एव सामायिकसमुदायार्थमात्रविषयाः प्रमाणोक्ता उपोद्घातोक्ताश्च नयाः ‘सूत्रविनियोगिनः, मूलद्वारोपन्यस्तनयास्तु सूत्रव्याख्योपयोगिन एवेति । आह-प्रमाणद्वारे जीवगुणः सामायिकं ज्ञानं चेति प्रतिपादितमेव, ततश्च किं सामायिक-मित्याशङ्कानुपपत्तिः, उच्यते, जीवगुणत्वे ज्ञानत्वे च सत्मपि किं तज्जीव एव आहोस्विद् जीवादन्यदिति संशयः, तदुच्छित्त्यर्थमुपन्यासाददोषः । __ आह-नामद्वारे क्षायोपशमिकं सामायिकमुक्तं तत्तदावरणक्षोपशमाल्लभ्यत इति गम्यत एव, अतः कथं लभ्यत इत्यतिरिच्यते, न, क्षयोपशमलाभस्यैवेह शेषाङ्गलाभचिन्तनादिति । एवं यदुपक्रमनिक्षेपद्वारद्वयाभिहित मपि पुनः प्रतिपादयति अनुगमद्वारावसरे तदशेषं निर्दिष्टनिक्षिप्तप्रपञ्चव्याख्यानार्थमिति । आह-उपक्रमः प्रायः शास्त्रसमुत्थानार्थ उक्तः, अयमप्युपो
रातः शास्त्रसमुद्घातप्रयोजन एवेति कोऽनयोर्भेदः ? उच्यते, उपक्रमो ह्युद्देशमात्रनियतः, तदुहिष्ट-वस्तुप्रबोधनफलस्तु प्रायोणोपोद्घातः, अर्थानुगमत्वात् इत्यलं विस्तरेण, प्रकृतमुच्यते। तत्रोद्देशद्वारावयवार्थप्रतिपादनायेदमाहनि. (१४२) नामं ठवणा दविए खेत्ते काले समास उद्देसे ।
उद्देसुद्देसंमि अ भावंमि अहोइ अट्ठमओ ॥ वृ-तत्र नामोद्देसः यस्या जीवादेरुद्देश इति नाम क्रियते, नाम्नो वा उद्देशः नामोद्देशः, स्थापनोद्देशः-स्थापनाभिधानं उद्देशन्यासो वा, 'द्रव्य' इति द्रव्यविषय उद्देशो द्रव्योद्देशः, सच आगमनोआगमज्ञशरीरेतरव्यतिरिक्तः द्रव्यस्य द्रव्येण द्रव्ये वा उद्देशो द्रव्योद्देशः, द्रव्यस्यद्रव्यमिदमिति, द्रव्येण-द्रव्यपतिरयमिति, द्रव्ये-सिहासने राजा चूते कोकिलः गिरौ मयूर इति, एवं क्षेत्रविषयोद्देशेऽपि वक्तव्यः, एवं कालविषयोऽपीति, 'समासः' संक्षेपस्तद्विषय उद्देशः समासोद्देशः, स च अङ्गश्रुतस्कन्धाध्ययनेषु द्रष्टव्यः, तत्र अङ्गसमासोद्देशः-अङ्ग अङ्गी तदध्येता तदर्थज्ञ इत्येवमन्यत्रापि योजना कार्या, उद्देशः-अध्ययनविशेषः तस्य उद्देश उद्देशोद्देशः, तद्विषयश्च उद्देश इति, स चोद्देशोद्देशोऽभिधीयते-उद्देशवान् तदध्येता तदर्थज्ञो वेति, भावविषयश्च भवति उद्देशः अष्टमक इति, स चाय-भावः भावी भावज्ञो वेति गाथार्थः ।।
अयमेव ह्युद्देशोऽष्टविधविशिष्टनामसहितो निर्देश इत्यवसेयः, तथा चाह नियुक्तिकारःJain Education International
For Private & Personal Use Only
www.jainelibrary.org