________________
अध्ययनं-६- [नि. १५६१]
३०९
सचित्तादिद्रव्यानयने प्रयुज्यते सन्देशकप्रदानादिना त्वयेदमानेयमित्यानयनप्रयोगः, बलात् विनियोज्यः प्रेष्यः तस्य प्रयोगः यथाऽभिगृहीतपरविचारदेशव्यतिक्रमभयात् त्वयाऽवश्यमेव गत्वा मम गवाद्यानेयमिदं वा तत्र कर्तव्यमित्येवंभूतः प्रेष्यप्रयोगः । तथा शब्दानुपातः स्वगृहवृत्तिप्राकारकादियव्यवच्छिन्नभूदेशाभिग्रहेऽपि वहिः प्रयोजनोद्दपत्तीतत्र स्वयं गमनायोगात् वृत्तिप्राकारप्रत्यासन्नवर्तिनी बुद्धिपूर्वकं क्षुत्कासितादिशब्दकरणेन समवासितकान् बोधयतः शब्दस्यानुपातनम्-उच्चारणं ताग्येन परकीयश्रवणविवररमनुपतत्यसाविति, तथा रूपानुपातःअभिगृहीदेशाद् बहिः प्रयोजनभावे शब्दमनुच्चारयत एव परेषां समीपानयनाथ स्वशरीररूपदर्शनं रूपानुपातः, तथा बहिः पुद्गलप्रक्षेपः अभिगृहीतदेशाद् बहिः प्रयोजनभावे परेषां प्रबोधनाय लेष्टादिक्षेपः पुद्गलप्रक्षेप इति भावना, देशावकाशिकमेतदर्थमभिगृह्यते मा भूदु बहिर्गमनागमनादिव्यापारजनितः प्राण्युपमई इति, स च स्वयं कृतोऽन्येन वा कारित इति न कश्चित् फले विशेषः प्रत्युत गुणः स्वयंगमने ईर्यापथविशुद्धेः परस्य पुनरनिपुणत्वादशुद्धिारिति कृतं प्रसङ्गेन ।। व्याख्यातं सातिचारं द्वितीयं शिक्षापदव्रतं, अधुनां तृतीयमुच्यते, तत्रेदं सूत्रम
मू. (७९) पोसहोववासे चउविहे पन्नत्तो, तं जहा-आहाररपोसहे सरीरसक्कारपोसहे बंभचेरपोसहे अव्वावारपोसहे, पोसहोववासस्स समणो० इमे पञ्च०, तं जहा-अप्पडिलेहियदुप्पडिलेहियसिजासंथारए अपमज्जियदुप्पमज्जियसिञ्जासंथारए अप्पडिलेहियदुप्पडिलेहियउच्चारपासवणभूमीओ अप्पमज्जियदुप्पमज्जियउच्चारपासवण-भूमीओ पोसहोववासस्स सम्मं अननुपाल (न) या ।।
वृ-इह पौषधशब्दो रूढ्या पर्वसु वर्तते, पर्वाणि चाष्टम्यदितिथयः, पूरणात् पर्व, धर्मोपचयहेतुत्वादित्यर्थः, पौषधे उपवसनं पौषधोपवासः नियमविशेषाभिधानं चेदं पोषधेपवास इति, अयं च पोषधेपवासश्चतुर्विधः प्रज्ञप्तः, तद्यथा-'आहारपोषधः' आहारः प्रतीतः तद्विषयस्तनिमित्तं पोषध आहारपोषधः, आहारनिमित्तिं धर्मपूरणं पर्वेति भावना, एवं शरीरसत्कारपोषधः ब्रह्मचर्यपोषधः, अत्र चरणयं चयं अवो यदि' त्यस्मादधिकारात् 'गदमद-चरयमश्चानुपसर्गात्' इति यत्, ब्रह्म-कुशलानुष्ठानं, यथोक्तं-"ब्रह्म वेदा ब्रह्म तपो, ब्रह्म ज्ञानं च शाश्वतम् ।" ब्रह्म च तत् चर्यं चेति समासः शेषं पूर्ववत् । तथा अव्यापारपोषधः।।
एत्थ पुन भावत्यो एस-आहारपोसधो दुविधो-देसे सव्वे य, देसे अमुगा विगती आयंबिलं वा एक्कसि वा दो वा, सव्वे चतुविधोऽवि आहारो अहोरथं पञ्चक्खातो, सरीरपोषधो पहाणुव्वट्टणवण्णगविलेवणपुष्फगंधतंबोलाणं वत्थाभरणा णं च परिचागो य, सोवि देसे सवे य, देसे अमुगं सरीरसक्कारं करेमि अमुगं न करेमित्ति, सव्वे अहोरत्तं, बंभचेरपोषधो देसे सब्वे य, देसे दिवा रत्तिं एकसिं दो वा वारेत्ति, सव्वे अहोररत्तिं बंभयारी भवति, अब्बावारे पोसधो दुविहो देसे सव्वे य, देसे अमुगं वावारं न करेमि, सव्वे सयलवावारे हलसगडघर-परक्कमादीओ न करेति, एत्थ जो देसपोसधं करेति सामाइयं करेति वा न वा, जो सव्वपोसधं करेति सो नियमा कयसामाइतो, जति न कररेति तो नियमा वंचिजति, तं कहिं ?, चेतियघरे साधूमूले
वा घरे वा पोसधसालाए वा उम्मुक्कमणिसुवण्णो पढंतो पोत्थगं वा वायंतो धम्मं झाणं झायति, . जधा एते साधुगुणा अहं असमत्थे मंदभग्गो धारेतुं विभासा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org