________________
आवश्यक मूलसूत्रम् - २ - ६ / ६३
स्थविराधमममातृतॄिणां प्रत्येकं कायेन वचसा ममनसा दानेन च देशकालोपपपन्नेन विनयः कार्य इत्येते चत्वारो भेदाः सुररादिष्वष्टसु स्थानकेषु, एकत्र मिलिता द्वात्रिंशदिति, सर्वसङ्ख्या पुनरेतेषां त्रीणि शतानि त्रिषष्ठयधिकानि, न चैतत् स्वमनीषिकाव्याख्यानं, यस्मादन्यैरप्युक्तं." आस्तिकमतमात्माद्या नित्यानित्यात्मका नव पदार्थाः । कालनियतिस्वभावेश्वरात्मकृताः (तकाः ) स्वपरसंस्थाः || १ || कालयध्च्छानियतीश्वरस्वभावात्मनश्चतुरशीतिः । नास्तिकवादिगणमतं न सन्ति भावाः स्वपरसंस्था ||२|| अज्ञानिकवादिमतं नव जीवादीनं सदादिसप्तविधान् । भावोत्पत्ति सदसद्दैतावाच्यां च को वेत्ति ? ॥३॥ वैनयिकमतं विनयश्चेतोवाक्कायदानतः कार्यः । सुरनृपतियतिज्ञातिस्थविराधममातृपितृषु सदा ||४||”
इत्यलं प्रसङ्गेन प्रकृतं प्रस्तुमः, एतेषां प्रशंसा न कार्या- पुण्यभाज एते सुलब्धमेभिर्यद् जन्मेत्यादिलक्षणा, एतेषां मिथ्यादृष्टित्वादिति । अत्र चोदाहरणं- पाडलिपुत्ते चाणक्का, चंदगुत्तेणं भिक्खुगाणं वित्ती हरिता, ते तस्स धम्मं कहेंति, राया तूसति चाणक्कं पलोएति, न य पसंसति न देति, तेन चाणक्कभज्जा ओलग्गिता, ताए सो करणिं गाहितो, ताधे कथितेन भणितं तेनसुभासियंति, रन्ना तं अन्नं च दिन्नं, बिदियदिवसे चाणक्को भणति कीस दिन्नं ?, राया भणइतुज्झेहिं पसंसितं, सो भणइ ण मे पसंसितं, सव्वारंभपवित्ता कहं लोगं पत्तियावितित्ति !, पच्छाठितो, केत्तिया एरिसा तम्हा न कायव्वा । परपाषण्डैः - अनन्तरोक्तस्वरूपैः सह संस्तवः परपाषण्डसंस्तवः, इह संवासजनितः परिचयः संवसनभोजनालापादिलक्षणः परिरगृह्यते, न स्तुतिरूपः तथा च लोके प्रतीत एव संपूर्वः स्तौतिः परिचय इति, 'असंस्तुतेषु प्रसभ्भं कुलेष्वित्यादाविति, अयमपि न समाचरणीयः, तथा हि एकत्र संवासे तत् प्रक्रियाश्र नात् तक्रियादर्शनाश्च तस्यासकृदभ्यस्तत्वादवाप्तसहकारिकारणात् मिध्यात्वोदयतो दृष्टिभेदः संजायते अतोऽतिचारहेतुत्वान्न समाचरणीयोऽयमिति । अत्र चोदाहरणं सोरट्ठसङगो पुव्वभणितो । एवं शङ्कादिसकलशल्यरहितः सम्यक्त्ववान् शेषाणुव्रतादिपप्रतिपत्तियोग्यो भवति, तानि चाणुव्रतानि स्थूलप्राणातिपातादिनिवृत्तिरूपाणि पाक् लेशतः सूचितान्येव 'दुविधन्तिविधेण पढमो' इत्यादि (ना) अधुना स्वरूपपतस्तान्येवोपदर्शयन्नाह
२९४
पू. (६४) थूलगपाणाइवायं समणोवासओ पचखाइ, से पाणाइवाए दुविहे पत्रत्ते, तं जहा संकष्पओ अ आरंभओ अ, तत्थ समणोवासओ संकप्पओ जावज्जीवाए पच्चक्खाइ, नो आरंभआ, थूलगपाणाइवायवेरमणस्स समणोवासएणं इमे पंच अइयांरा जाणियव्वा, तं जहाबंधे हे छविच्छे अइभारे भक्तपाणवुच्छेए ।
वृ- स्थूलाः द्वीन्द्रियादयः, स्थूलत्वं चैतेषां सकललौकिकजीवत्वप्रसिद्धेः, एतदपेक्षयैकेन्द्रियाः (ii) सूक्ष्माधिगमना (न) जीवत्वसिद्धेरिति, स्थूला एव स्थूलकास्तेषां प्राणाः - इन्द्रियादयः तेषामतिपपातः स्थूलपप्राणातिपातः तं श्रमणोपासकः श्रावक इत्यर्थः प्रत्याख्याति, तस्माद् विरमत इति भावना । स च प्राणातिपातो द्विविधः प्रज्ञप्तः, तीर्थकरगणधरौद्विविधः प्ररूपित
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org