________________
२८२
आवश्यक मूलसूत्रम्-२-६/६२
साधूनामगारिणां च सामाचारी शृणोतीति श्रावक इति, उक्तं च
“यो ह्यभ्युपेतसम्यक्त्वो, यतिभ्यः प्रत्यहं कथाम् ।
शृणोति धर्मसम्बद्धामसौ श्रावक उच्यते ॥१॥" श्रावकाणां धर्मः २ तस्य विधिस्तं वक्ष्ये-अभिधास्ये, किंभूतं ? - 'धीरपुरुषप्रज्ञप्तं' महासत्त्वमहाबुद्धि-तीर्थकरगणधरपप्ररूपितमित्यर्थः, यं चरित्त्वा सुविहिता गृहिणोऽपि सुखान्यैहिकामुष्मिकाणि प्राप्नुवन्तीति गाथार्थः ।। तत्रनि. (१५५७) साभिग्गहा य निरभिग्गहा य ओहेण सावया दुविहा ।
ते पुन विभञ्जमाणा अट्टविहा हुँ ति नायव्वा ।। वृ- 'साभिग्गहा य निरभिग्गहा य' गाहा, अभिगृह्यन्त इत्यभिग्रहाः-प्रतिज्ञाविशेषाः सह अभिग्रहैर्वर्तन्त इति साभिग्रहाः, ते पुनरनेकभेदा भवन्ति, तथाहि-दर्शनपूर्वकं देशमूलगुणोत्तरगुणेषु सर्वेष्वकस्मिंश्च (स्मिन्) वा भवन्त्येव तेषामभिग्रहः, निर्गता-अपेता अभिग्रहा येभ्यस्ते निरभिग्रहाः, ते च केवलसम्यग्दर्शनिन एव, यथा कृष्णसत्यकिश्रेणिकादयः, इत्थं ओधेनसामान्येन श्रावका द्विधा भवन्ति, ते पुनर्द्विधा अपि विभज्यमाना अभिग्रहग्रहणविशेषेण निरुप्यमाणा अष्टविधा भवन्ति ?ज्ञातव्या इति गाथार्थः ।।
तत्र यथाऽष्टविधा भवन्ति तथोपदर्शयन्नाहनि. (१५५८) दुविहतिविहेण पढमो दुविहं दुविहेण बीयओ होइ ।
दुविहं एगविहेणं एगविहं चेव तिविहेणं ॥ वृ. 'दुविहतिविहेण' गाहा, इह योऽसौ कञ्चनाभिग्रहं गृह्णाति स ह्येवं-'द्विविधं मिति कृतकारितं 'त्रिविधेने' ति मनसा वाचा कायेनेति, एतदुक्तं भवति-स्थूल-प्राणातिपातं न करोत्यात्माना न कारयत्यन्यैर्मनसा वचसा कायेनेति प्रथमः, अस्यानुमतिरप्रतिषिद्धा, अपपत्यादिपपरिग्रह-सद्भावात्, तद्व्यापृतिकरणे च तस्यानुमतिप्रसङ्गाद, इतरथा परिग्रहापरिग्रहयोरविशेषेण प्रव्रजिताप्रव्रजितयोरभेदापत्तेरिति भावना, अत्राह-ननु भगवन्त्यामागमे त्रिविधं त्रिविधेनेत्यपि प्रत्याख्यानमुक्तमगारिणः, तच्च श्रुतोक्तत्वादनवद्यमेव, तदिह कस्मानोक्तं नियुक्तिकारेणेति?, उच्यते, तस्य विशेषविषयत्वात्, तथाहि-किल यः प्रविजिषुरेव प्रतिमां प्रतिपद्यते पुत्रादिसन्ततिपपालनाय स एव त्रिविधं त्रिविधेनेति करोति, तथा विशेष्यं वा किञ्चिद् वस्तु स्वयम्भूरमणमत्स्यादिकं तथा स्थूलप्राणातिपपातादिकं चेत्यादि, न तु सकलसावघव्यापारविरमणमधिकृत्येति, ननु च नियुक्तिकारेण स्थूलप्राणतिपपातादावपि त्रिविधंत्रिविधेनेति नोक्तो विकल्पः, 'वीरवयणमि एए बत्तीसं सावया भणिया' इति वचनादन्यथा पुनरधिकाः स्युरिति ?, अत्रोच्यते, सत्यमेतत्, किंतु बाहुल्यपक्षमेवाङ्गीकृत्य तिर्युक्तिकारेणाभ्यधायि, यत् पुनः क्वचिदवस्थाविशेषे कदाचिदेव समाचर्यते न सुष्ठु समाचार्यनुपाति तन्त्रोक्तं, बाहुल्येन तु द्विविधं त्रिविधेनेत्यदिभिरेव षड्भिर्विकल्पैः सर्वस्यागारिणः सर्वमेव प्रत्याख्यानं भवतीति न कश्चिद् दोष इत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, 'दुविहं तिविहेण वितियओ होति'त्ति 'द्विविध" मिति स्थूलप्राणातिपपातं न करोति न कारयति 'द्विविधेनेति मनसा वाचा, यद्वा मनसा कायेन, यद्वा चाचा कायेन, इह च प्रधानोपसर्जनभावविवक्षया भावार्थोऽवसेयः, तत्र यदा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org