________________
२७४
आवश्यक मूलसूत्रम् -२-५/६२
नि. (१५४०) मायाए उस्सग्गं सेसं च तवं अकुब्वओ सहुणो ।
__ को अन्नो अनुहोही सकम्मसेसं अनिजरियं ?।। वृ. 'मायाए उस्सग्गं' गाहा, मायया कायोत्सर्ग शेषं च तपः-अनशनादि अकुर्वतः ‘सहिष्णोः' समर्थस्य कश्च तस्मादन्योऽनुभविष्यति ?, किं-स्वकर्म (वि) शेषमनिर्जरितं, शेषता चास्य सम्यक्त्वप्राप्तयोत्कृष्टकर्मापेक्षयेति, उक्तं च--
___“सत्तण्हं पगडीणं अभितरओ उ कोडीकोडीए।
काऊण सागराणं जइ लहइ चउण्हमण्णयरं ॥" अन्ये पठन्ति–'एमेवय उस्सगं'ति, न चायमतिशोभनः पाठ इति गाथार्थः ।। यतश्चैवमतःनि. (१५४१) निकूडं सविसेसं वयाणुरूवं बलाणुरूवं च ।
खाणुब्ब उद्धदेहो काउस्सगं तु ठाइजा ॥ वृ-'निकूडं सविसेसं' गाहा, 'निष्कूट'-मित्यशठं 'सविशेष'मिति समबलादन्यस्मात् सकाशात्, न चाहमहमिकया, किं तु वयोऽनुरूपं, स्थाणुरिवो देहो निष्कम्पः समशत्रुमित्रः कायोत्सर्ग तु तिष्ठेत्, तुशब्दादन्यच्च भिक्षाटनाघेवंभूतमेवानुतिष्ठत(ष्ठेत) इति गाथार्थः ।।
इदानि वयो बलं चाधिकृत्य कायोत्सर्गकरणविधिमभिधत्तेनि. (१५४२) तरुणो बलवं तरुणो अदुब्बलो थेरओ बलसमिद्धो ।
थेरो अबलो चउसुवि भंगेसु जहाबलं ठाई ।। वृतरुणो बलवान् १ तरुणश्च दुर्बलः २ स्थविरो बलसमृद्धः ३ स्थविरो दुर्बल: ४ चतुर्वपि भङ्गकेषु यथाबलं तिष्ठति बलानुरूपमित्यर्थः, न त्वभिमानतः, कथमनेनापि वृद्धेन तुल्य इत्यबलवतापि स्थातव्यम्, उत्तरत्रासमाधानग्लाना-दावधिकरणसम्भवादिति गाथार्थः ।।
गतं सप्रसङ्गमशठद्वारं, साम्प्रतं शठद्वारावसरस्तत्रेयं गाथानि. (१५४३) पयलायइ पडिपुच्छइ कंटययवियारपासवणधम्मे ।
नियडी गेलनं वा करेइ कूडं हवइ एयं ।। वृ. कायोत्सर्गकरणवेलायां मायया प्रचलयति-निद्रां गच्छति, प्रतिपृच्छति सूत्रमर्थं वा, कण्टकं अपनयति, 'वियार'त्ति पुरीषोत्सर्गाय गच्छति, 'पासवणे'त्ति कायिकां व्युत्सृजति, 'धम्मे'त्ति धर्म कथयति, 'निकृत्या' मायया ग्लानत्वं वा करोति कूटं भवत्येतद्-अनुष्ठानमिति गाथार्थः ॥ गतां शटद्वारम्, अधुना विधिद्वारमाख्यायते, तत्रेयं गाथानि. (१५४४) पुब्बं ठंति य गुरुणो गुरुणा उस्सारियंमि पारेति ।
ठायंति सविसेसं तरुणा उ अनूनविरिया उ ॥ वृ- 'पुव्वं ठंति य गुरुणो' गाहा प्रकटार्थाः ।। नि. (१५४५) चउरंगुल मुहपत्ती उज्जूए डब्बहत्थ रयहरणं ।
वोसठ्ठचत्तदेहो काउस्सग्गं करिज्जाहि ।। कृ'चउरंगुल'त्ति चत्तारि अंगुलाणि पायाणं अंतरं करेयव्वं, मुहपोत्ति ‘उज्जुए'त्ति दाहिणहत्थेण मुहपोत्तिया घेत्तव्वा, डब्बहत्थे रयहरणं कायव्वं, एतेन विहिणा 'वोसट्टचत्तदेहो त्ति पूर्ववत्, काउस्सग्गं करिजाहित्ति ।। गतं विधिद्वारम्, अधुना दोषावसरः, तत्रेदं गाथाद्वयं -
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org