________________
अध्ययनं - ५ - [ नि. १५२३]
नेत्याह
२६५
'अन्नत्थूससिएणमित्यादि पूर्ववत् यावद्वोसिरामि त्ति, एवं च सुत्तं पढित्ता पणवीसूसासपरिमाणं काउस्सग्गं करेंति, 'दंसणविसुद्धीय तइउ' त्ति तृतीयत्वं चास्यातीचारालोचनविषयप्रथमकायोत्सर्गापेक्षयति, तओ नमोक्कारेण पारेत्ता सुयनाणपरिवुड्डिनिमित्तं अतियारविसोहणत्थं च सुयधम्मस्स भगवओ पराए भत्तीए तप्परूवगनमोक्कारपुव्वयं थुई पढंति, तं - मृ. (४८) पुक्खरवरदीवडे धायइड य जंबुद्दीवे य । भररवयविदेहे धम्माइगरे नम॑सामि ||
वृ- पुष्कराणि - पद्मानि तैर्वरः - प्रधानः पुष्करवरः २ श्चासौ द्वीपश्चेति समासः, तस्यार्धं मानुषोत्तराचलार्वाग्वर्त्ति तस्मिन् तथा धातकीनां खण्डानि यस्मिन् स धानकीखण्डी द्वीपस्तस्मिंश्च तथा जम्बोपलक्षितस्तठप्रधानो वा द्वीपो जम्बूद्वीपस्तस्मिंश्च, एतेष्वद्धैतृतीयेषु द्वीपेषु महत्तरक्षेत्र प्राधान्याङ्गीकरणतः पश्चानुपूर्व्योपन्यस्तेषु यानि भरतैरावतविदेहानि प्राकृतशैल्या त्वेकवचननिदेशः द्वन्द्वैकवद्भावाद् भरतैरावतविदेह इत्यपि भवति, तत्र धर्मादिकरणान्नमस्यामि'दुर्गति-प्रसृतान् जीवान्, यस्माद् धारयत ततः । धत्त चैतान् शुभस्थाने, तस्माद् धर्म्म इति स्मृतः ॥ स च द्विभेदः श्रुतधर्मश्चारित्रधर्मश्च श्रुतधर्मेणेहाधिकारः, तस्य भरतादिष्वादी करणशीलास्तीर्थकरा एवातस्तेषां स्तुतिरुक्ता, साम्प्रतं श्रुतधर्मस्य प्रोच्यतेतमतिमिरपडलविद्धंसणस्स सुरगणनरिंदमहिअस्स ।
मू. (४९)
सीमाधरस्स वंदे पप्फोडियमोहजालस्स ।।
वृ- 'तमतिमिरपडलविद्धंसणस्स सुरगणे' त्यादि, तमः अज्ञानं तदेव तिमिरं अथवा तमःबद्धस्पृष्टनिधतं ज्ञानावरणीयं निकाचितं तिमिरं तस्य पटलं-वृन्दं तमस्तिमिरपटलं तद् विध्वंसयति नाशयतीति तमस्तिमिरपटलविध्वंसनः तस्य, तथा चाज्ञाननिरासनैवास्य प्रवृत्तिः, तथा सुरगणनरेन्द्रमहितस्य, तथा चागममहिमानं कुर्वन्त्येव सुरादयः तथा सीमां मर्यादां धारयतीति सीमाधरः, सीनि वा धारयतीति तस्येति, तृतीयार्थे षष्ठी, तं वन्दे, तस्य वा यत् माहात्म्यं तद् वन्दे, अथवा तस्य वन्द इति वन्दनं करोमि, तथाहि आगमवन्त एव मर्यादां धारयन्ति, किंभूतस्य ? - प्रकर्षेण स्फोटितं मोहजालं-मिथ्यात्वादि येन स तथोच्यते तस्य, तथा चास्मिन् सति विवेकिनो मोहजालं विलयमुपयात्येव, इत्थं श्रुतधर्ममभिवन्द्याधुना तस्यैव गुणोपदर्शनद्वारेण प्रमादागोरचरतां प्रतिपादनाह-
मू. (५०) जाईजरामरणसोगपणासणस्स कल्लाणपुक्खलविसालसुहावस्स को देवदानव नरिंदगणचिअस्स, धम्मस्स सारमुवलब्भ करे पमायं ? || वृ- 'जाईजरामरण' त्यादि, जातिः- उत्पत्तिः जरा-वयोहानिः मरणं - प्राणत्यागः शीकः - मानसो दुःखविशेषः, जातिश्च जरा च मरणं च शोकश्चेति द्वन्द्वः, जातिजरामरणशोकान् प्रणाशयतिअपनयति जातिजरामरणशोकप्रणाशनस्तस्य, तथा च श्रुतधर्मोक्तानुष्ठानाज्जात्यादयः प्रणश्यन्त्येव, अनेन चास्यानर्थप्रतिघातित्वमाह, कल्यम् - आरोग्यं कल्यमणतीति कल्याणं, कल्पं शव्दयतीत्यर्थः, पुष्कलं सम्पूर्ण न च तदल्पं किं तु विशालं विस्तीर्णं सुखं प्रतीतं कल्याणं पुष्कलं विशालं सुखमावहति - प्रापयतीति कल्याणपुष्कलविशालसुखावहस्तस्य, तथा च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org