________________
२४२
आवश्यक मूलसूत्रम् -२- ५/३७ 'अस्थित्तिवहुपदेसा तेनं पंचस्थिकाया उ' अस्तीत्ययं त्रिकालवचनो निपातः, अभूवन् भवन्ति भविष्यन्ति चेति भावना, बहुप्रदेशास्तु यतस्तेन पञ्चैवास्तिकायाः तुशब्दस्यावधारणार्थत्वान्न न्यूना नाप्यधिका इति, अनेन च धर्माधर्माकाशानामेकद्रव्यत्वादस्तिकायत्वानुपपत्तिरद्धासमयस्स च ए (अने) कत्वादस्तिकायत्वापत्तिरित्येयत् परिहृतमवगन्तव्यं, ते चामी पञ्च, तद्यथाधर्मास्तिकायोऽ-धर्मास्तिकायः आकाशास्तिकायः जीवास्तिकायः पुद्गलास्तिकायश्चेत्यस्तिकाया इति हृदयमयं गाथार्थः । साम्प्रतं द्रव्यकायायसरस्ततस्ततप्रतिपादनायाह[भा.२२९] जंतु पुरक्खडभावं दवियं पच्छाकडं व भावाओ।
तं होइ दव्वदवियं जह भविओ दव्वदेवाई॥ वृ. 'जं तु पुरक्ख'त्ति, यद् द्रव्यमिति योगः तुशब्दो विशेषणार्थः किं विशिनष्टि ?जीवपुद्गलद्रव्यं, न धर्मास्तिकायादि, ततश्चैतदुक्तं भवति-यद् द्रव्यं यद् वस्तु पुरस्कृतभावमितिपुरः-अग्रतः कृतो भावो येनेति समासः, भाविनो भावस्य योग्यमभिमुखमित्यर्थः । 'पच्छाकडं व भावाओ'त्ति वाशब्दस्य व्यवहितः सम्बन्धः, ततश्चैवं प्रयोग-पश्चात्कृतभावं, वाशब्दो विकल्पवचनः पश्चात् कृतः प्राप्योज्झितो भावः-पर्यायविशेषलक्षणो येन स तथोच्यते, एतदुक्तं भवति-यस्मिन भावे वर्त्तते द्रव्यं ततो यः पूर्वमासीद् भावः तस्मादपेतं पश्चात्कृतभावमुच्यते, 'तं होति दव्वदवियं' तदित्थंभूतं द्विप्रकारमपि भाविनो भूतस्य च भावस्य योग्यं 'दव्य'त्ति वस्तु वस्तुवचनो ह्येको द्रव्यशब्दः, किं ?-भवति द्रव्यं, भवतिशब्दस्य व्यवहितः सम्बन्धः, इत्थं द्रव्यलक्षणमभिधायाधुनोदाहरणमाह-'जह भविओ दव्वदेवादि' यथेत्युदाहरणोपन्यासार्थः भव्यो-योग्यः द्रव्यदेवादिरिति, इयमत्र भावना-यो हि पुरूषादिम॒त्वा देवत्वं प्राप्स्यति बद्धायुष्कः अभिमुखनामगोत्रो वा स योग्यत्वाद् द्रव्यदेवोऽभिधीयते, एवमनुभूतदेवभावोऽपि, आदिशब्दाद् द्रव्यनारकादिग्रहः परमाणुग्रहश्च, तथाहि असावपि व्यणुकादि काययोग्यो भवत्येव, ततश्चेत्थंभूतं द्रव्यं कायो भण्यत इति गाथार्थ: ।। आह-किमिति तुशब्दविशेषणाजीवपुद्गलद्रव्यमङ्गीकृत्य धर्मास्तिकायादीनामिह व्यवच्छेदः कृत इति ?, अत्रोच्यते, तेषां यथोक्तप्रकारद्रव्यलक्षणायोगात्, सर्वदेवास्तिकायत्वलक्षणभावोपेतत्वाद, आह च भाष्यकार:[भा.२३०] जइ अस्थिकायभावो अपएसो हुञ्ज अस्थिकायाणं ।
पच्छाकडुव्व तो ते हविज्ज दवस्थिकाया व ॥ वृ- 'जइ अस्थिकायभावो' यद्यस्तिकायभावः अस्तिकायत्वलक्षणः, 'इच एसो होज अस्थिकायाणं' ‘इय' एवं यथा जीवपुद्गलद्रव्ये विशिष्टपर्याय इति एष्यन्-आगामी भवेत्, केषाम्? - अस्तिकायानां-धर्मास्तिकायादीनामिति, व्याख्यानाद् विशेषप्रतिपत्तिः, तथा पश्चात्कृतो वा यदि भवेत् 'तो ते हविज दव्वत्थिकाय'त्ति ततस्ते भवेयुरिति द्रव्यास्तिकाया इति गाथार्थः । नि. (१४३७) तीयमनागयभावं जमस्थिकायाण नत्थि अस्थित्तं ।
तेन र केवलएसुं नत्थी दव्वत्थिकायत्तं ।। वृ. 'तीयमनागय' अतीतम्-अतिक्रान्तमनागतं भावं यद्-यस्मात् कारणादस्तिकानांधर्मास्तिकायादीनां नास्ति-न विद्यते अस्तित्वं-विद्यमानत्वं, कायत्वापेक्षया सदैव योगादिति हृदयं, 'तेन र'त्ति तेन किल केवलं-शुद्धं 'तेषु' धर्मास्तिकायादिषु नास्ति-न विद्यते, कि ?
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org