________________
२३८
आवश्यक मूलसूत्रम् -२-५/३७
यद्यस्य यथोद्धियते-उत्तरपरिकर्म क्रियते द्रव्यत्रण एव तदेतदभिधित्सुराहनि. (१४२०) तणुओ अतिक्खतुंडो असोणिओ केवलं तए लग्यो ।
अवउज्झत्ति सल्लो सल्लो न मलिज्जइ वणो उ ।। वृ- 'तणुओ अतिक्खतुंडो' इति तनुरेव तनुकं कशमित्यर्थः, न तीक्ष्णतुण्डमतीक्ष्णमुखमिति भावना, नास्मिन् शोणितं विद्यत इत्यशोणितं केवलं नवरं त्वगलग्रं, उद्धृत्य ‘अवउज्झत्ति सल्लो' ति परित्यज्यते शल्यं प्राकृतशैल्या तु पुल्लिङ्गनिर्देशः, 'सल्लो न मलिज्जइ वणो य' न च मद्यते व्रणः, अल्पत्वात् शल्यस्येति ।। प्रथमशल्यजे अयं विधिः, द्वितीयादिशल्यजे पुनरयंनि. (१४२१) लग्गुद्धियंमि बीए मलिजइ परं अदूरगे सल्ले ।
उद्धरणमलणपूरण दूरयरगए तइयगंमि ॥ वृ- 'लग्गुद्धियंमि' लग्नमुद्धृतं लग्नोद्धृतं तस्मिन् द्वितीये कस्मिन् ? -अदूरगते शल्य इति योगः, मनाग् ध्ढलन इति भावना, अत्र ‘मलिजइ परं' ति मृद्यते यदि परं व्रण इति उद्धरणं शल्यस्य, मर्दनं व्रणस्य, पूरणं कर्णमलादिना तस्यैवैतानि क्रियन्ते दूरगते तृतीये शल्य इति । नि. (१४२२) मा वेअणा उ तो उद्धरितु गालंति सोणिय चउत्थे ।
रुज्झइ लहुंति चिट्ठा वारिजइ पंचमे वणिणो ।। वृ-'मा वेयणा उ तो उद्धरेत्तु गालंति सोणिय चउत्थे । रुज्झउ लहंति चिट्ठा वारिजई' इति मा वेदना भविष्यतीति तत उद्धृत्य शल्यं गालयन्ति शोणितं चतुर्थे शल्य इति, तथा रुह्यतां शीघ्रमिति चेष्टा परिस्पन्दनादिलक्षणा वार्यते-निष्यिध्यत, पञ्चमे शल्ये उद्धृते व्रणोऽस्यास्तीति व्रणी तस्य प्रणिनः रौद्रतरत्वाच्छल्यस्येति गाथार्थः ।। नि. (१४२३) रोहेइ वणं छठे हियमियभोई अभुंजमाणो वा ।
तित्तिअमित्तं छिज्जइ सत्तमए पूइमसाई ॥ वृ. 'रोहेइ वणं छ?' इति रोहयति व्रणं षष्ठे शल्ये उद्धृते सति हितमितभोजी हितं-पथ्यं मितं-स्तोकं अभुञ्जन्वेति, यावच्छल्येन दूषित 'तत्तियमित्तं'ति तावन्मानं छिद्यते, सप्तमे शल्य उद्धृते किं ? -पूतिमांसादीति गाथार्थः ।। नि. (१४२४) तहविय अठायमाणो गोणसखइयाइ रुप्फए वावि ।
कीरइ तयंगछेओ सअट्टिओ सेसरक्खट्ठा ॥ वृ- "तहविय अठाये'त्ति तथापि च 'अट्टायमाणे'त्ति अतिष्ठति सति विसर्पतीत्यर्थः, गोनसभक्षितादौ रुम्फ कैवापि क्रियते, तदङ्गछेदः सहास्थिकः, शेषरक्षार्थमिति गाथार्थः ॥ एवं तावद् द्रव्यव्रणस्तचिकित्सा च प्रतिपादिता, अधुना भावव्रणः प्रतिपाद्यते
मूलुत्तरगुणवस्स ताइणो परमचरणपुरिसस्स ।
अवराहसल्लपभवो भाववणो होइ नायव्यो ।। वृ- “मुलूत्तरगुणरूवस्स' गाहा, इयमन्यकर्तृकी सोपयोगा चेति व्याख्यायते, मूलगुणाःप्राणातिपातादिविरमणलक्षणाः पिण्डविशुद्ध्यादयस्तु उत्तरगुणाः, एते एव रूपं यस्य स मूलगुणोत्तरगुणरूपस्तस्य, तायिनः, परमश्चासौ चरणपुरुषश्चेति समासः तस्य अपराधःगोचरादिगोचराः त एव शल्यानि तेभ्यः प्रभवः- सम्भवो यस्य स तथाविधः भावव्रणो भवति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org