________________
अध्ययनं -४- [नि. १२७३]
१६७ द्वात्रिंशभिर्योगसङ्ग्रहैः, क्रिया पूर्ववत्, इह युज्यन्त इति योगाः-मनोवाक्कायव्यापाराः, ते चाशुभप्रतिक्रमणाधिकारात्प्रशस्ता एव गृह्यन्ते, तेषां शिष्याचार्यगतानामालोचनानिरपलापादिना प्रकारेण सङ्ग्रहणानि योगसङ्गहाः प्रशस्तयोगसङ्गनिमित्तत्वादालोचनादय एव तथोच्यन्ते, ते च द्वात्रिंशद्भवन्ति, तदुपदर्शनायाह नियुक्तिकारःनि.(१२७४) आलोयणा निरवलावे, आवईसुदढम्मया ।
अनिस्सिओवहाणे य, सिक्खा निप्पडिकम्मया ।। नि. (१२७५) अन्नायया अलोहे य, तितिक्खो अज्जवे सुई ।
सम्मदिट्ठी समाहीय, आयारे विनओवए ।। नि.(१२७६) धिई मई य संवेगे, पणिही सुविहि संवेर ।
अत्तदोसोवसंहारो, सव्यकामविरत्तिया ।। नि.(१२७७) पच्चक्खाणा विउस्सगे, अप्पमाए लवालवे ।
झाणसंवरजोगेय, उद्दए मारणंतिए ।। नि. (१२७८) संगाणं च परित्रां, पायच्छित्तकरणे इय ।
आराधना य मरणंते, बत्तीसं जोगसंगहा ।। वृ-'आलोयणतिप्रशस्तमोक्षसाधकयोगसङ्ग्रहाय शिष्येणाऽऽचार्यय सम्यगालोचनादातव्या १, निरवलावे तिआचार्योऽपि प्रशस्तमोक्षसाधकयोगसङ्ग्रहायैव दत्तायामालोचनायां निरपलापः स्यात्, नान्यस्मै कथयेदित्यर्थः, एकारान्तश्च प्राकृते प्रथमान्तो भवतीत्यसकृदावेदितं यथा-'कयरे आगच्छइ दित्तरुवे इत्यादि २, आवतीसुदढधम्मत'त्ति तथायोगसङग्रहायैव सर्वेणसाधुनाऽऽपत्सु द्रव्यादिभेदासुदृढधर्मता कार्या, आपत्सु सुतरां दृढधर्मेण भवितव्यमित्यर्थः, ३, ‘अनिस्सिओवहाणेत्ति प्रशस्तयोगसङग्रहायैवानिश्रितोपधानंच कार्यम्, अथवाऽनिश्रित उपधाने च यत्नः कार्यः, उपदधातीत्युपधान-तपः ननिश्रितमनिश्रितम् ऐहिकामुष्मिकापेक्षाविकलमित्यर्थः, अनिश्रितंच तदुपधानं चेति समासः ४, 'सिक्ख'त्ति प्रशस्तयोगसङग्रहायैव शिक्षाऽऽसेवितव्या, साच द्विप्रकारा भवति-ग्रहणशिक्षाऽऽसेवनाशिक्षा च ५, 'निप्पडिकम्मय'त्ति प्रशस्तयोगसङ्गहायैव निप्प्रतिकर्मशरीरता सेवनीया, न पुनर्नागदत्तवदन्यथा वर्तितव्यमिति ६ प्रथमगाथासमासार्थः ।। ___'अनायय'त्ति तपस्यज्ञातता कार्या, यथाऽन्यो न जानाति तथा तपः कार्य, प्रशस्तयोगाः सगृहीता भवन्तीत्यतत्सर्वत्र योज्यं ७, अलोहे तिअलोभश्चकार्यः, अथवाऽलोभे यलः कार्यः ८, तितिक्ख'त्ति तितिक्षा कार्या, परीषहादि जय इत्यर्थः ९, 'अज्जवे'त्ति ऋजुभावः-आर्जवं तच्च कर्तव्यं १०, 'सुइ'त्तिशुचिनाभवितव्यं, संयमवतेत्यर्थः ११, सम्मदिट्ठि'त्ति सम्यग्-अविपरीता दृष्टिः कार्या, सम्यग्दर्शनशुद्धेरित्यर्थः १२, समाधिश्च कार्यः, समाधानं समाधिः-चेतसः स्वास्थ्यं १३, 'आचारे विनओवए'त्ति द्वारद्वयम्, आचारोपगः स्यात्, न मायां कुर्यादित्यर्थः १४, तथा विनयोपगः स्यात्न मानं कुर्यादित्यर्थः १५, द्वितीयगाथासमासार्थः ।। धिईमईय'त्तिधृतिर्मतिश्च कार्या, धृतिप्रधानामतिरित्यर्थः १६, संवेगे'त्ति संवेगः कार्यः १७, पणिहित्ति प्रणिधिस्त्याज्या, माया न कार्येत्यर्थः १८, 'सुविहि'त्ति सुविधिः कार्यः १९, संवरे'त्तिसंवरः कार्यः, न तु न कार्य इति व्यतिरेकोदाहरणमत्र भावि २०, 'अत्तदोसोवसंहारे'त्ति आत्मदोषोपसंहारः कार्यः २१,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org