________________
१११
अध्ययनं -४- [नि. १२७१] सुखहेतुत्वाद्रत्नानि रतैः परिपूर्णः-भृतस्तं, येन प्रकारेण यथा 'तत्' प्रक्रान्तं निर्वाणपुरं सिद्धिपत्तनं परिनिवाणपुरं वेति पाठान्तरं 'शीध्रम्' आशु स्वल्पेन कालेनेत्यर्थः, 'अविघ्नेन' अन्तरायमन्तरेण 'प्रशुवन्ति' आसादयन्ति, तथा विचिन्तयेदिति वर्तत इत्ययं गाथार्थः ।।
___ तत्थ य तिरयणविणिओगमइयमेगंतियं निराबाहं ।
साभावियं निरुवमंजह सोक्खं अक्खयमुवेति ।।६१ ॥ . 'तत्रच' परिनिर्वाणपुर त्रिरत्नविनियोगात्मक मिति त्रीणिरत्नानि-ज्ञानादीनि विनियोगश्चैषां क्रियाकरणं, ततः प्रसूतेस्तदात्मकमुच्यते, तथा 'एकान्तिकम्' इत्येकान्तभावि 'निराबाधम्' इत्याबाधारहितं, 'स्वाभाविक' न कृत्रिमं 'निरुपमम्' उपमातीतमिति, उक्तं च- 'नवि अस्थि माणुसाणं तं सोक्ख'मित्यादि 'यथा' येन प्रकारेण 'सौख्यं' प्रतीतम् ‘अक्षयम्' अपर्यवसानम् 'उपयान्ति' सामीप्येन प्राप्नुवन्ति, क्रिया प्राग्वदिति गाथार्थः ।।
किंबहुना? सद्ध चियजीवाइपयत्यवित्थरोवेयं ।
सद्वनयसमूहमयं झाएज्ज समयसब्भावं ।।६२ ॥ वृ-किंबहुना भाषितेन?, 'सर्वमेव' निरवशेषमेव 'जीवादिपदार्थविस्तरोपेतं' जीवाजीवाश्रवबन्धसंवर निर्जरामोक्षाख्यपदार्थप्रपञ्चसमन्वितं समयसद्भावमिति योगः, किंविशिष्टं ? - 'सर्वनयन-समूहात्मकं' द्रव्यास्तिकादिनयसङ्घातमयमित्यर्थः, 'ध्यायेत' विचिन्तयेदिति भावना, 'समय-सद्भावं' सिद्धान्तार्थमिति हृदयम, अयं गाथार्थः ।। गतं ध्यातव्यद्वारं, साम्प्रतं येऽस्यध्यातारस्तान् प्रतिपादयन्नाह
सव्वप्यमायरहिवा मुणओखीणोवसंतमोहा व ।
झायारो नाणधणा धम्मज्झाणस्स निद्दिवा ।। ६३ ॥ वृ-प्रमादा-मद्यादयः यथोक्तम्-'मज्जं विसयकसाया निद्दा विकहा य पंचमीभणिया सर्वप्रमादै रहिताः सर्वप्रमादरहिताः अप्रमादवन्त इत्यर्थः 'मुनयः' साधवः क्षीणोपशान्तमोहश्च' इति क्षीणमोहाः-क्षपकनिर्ग्रन्थाः उपशान्तमोहा-उपशामकनिर्ग्रन्थाः, चशब्दादन्ये वाऽप्रमादिनः, 'ध्यातारः' चिन्तकाः,धर्मध्यानस्येति सम्बन्धः,ध्यातार एव विशेष्यन्ते-'ज्ञानधनाः' ज्ञानवित्ताः, विपश्चित इत्यर्थः, 'निर्दिष्टाः' प्रतिपादितास्तीर्थकरगणधरैरिति गाथार्थः ।। उक्ता धर्मघ्यानस्य घ्यातारः, साम्प्रतं शुक्लध्यानस्याप्याद्यभेदद्वयस्याविशेषेण एत एव यतो ध्यातार इत्यतो मा भूत्पुनरभिधेया भविष्यन्तीति लाधवार्थं चरमभेदद्वयस्य प्रसङ्गत एव.तानेवाभिधित्सुराह
एएचिय पुव्वाणं पुव्वधरा सुप्पसत्थसंघयणा ।
दोण्ह सजोगाजोगा सुक्काण पराण केवलिणो ।। ६४ ॥ वृ- ‘एतएव येऽनन्तरमेवधर्मध्यानध्यातार उक्तः ‘पूर्वयोः' इत्याघयोर्द्धयोः शुक्लध्यानभेदयोः पृथक्त्ववितर्कसविचारमेकत्ववितर्कमविचारमित्यनयोः घ्यातार इति गम्यते, अयं पुनर्विशेषः'पूर्वधराः' चतुर्दशपूर्वविदस्तदुपयुक्तः, इदं च पूर्वधरविशेषणमप्रमादवतामेव वेदितव्यं, न निर्ग्रन्थानां, माषतुषमरुदेव्यादीनामपूर्व धराणामपि तदुपपत्तेः, ‘सुप्रशस्तसंहनना' इत्याद्यसंहननयुक्ताः, इदं पुनरोघतएव विशेषणीमति, तथा 'द्वयोः' शुक्लयोः परयो:-उत्तरकालभाविनोः प्रधानयोर्वा सूक्ष्मक्रियानिवृत्तिव्युपरतक्रियाऽप्रतिपातिलक्षणयोर्यथासङ्ख्यं सयोगायोगकेवलिनो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org