SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ ८४ आवश्यक - मूलसूत्रम् - २- ४ / १९ 'इतरो गिलिए' त्ति प्रक्षिप्ते सति कवले जनाचार इति गाथार्थः । इदं चाधाकर्मोदाहरणे सुखप्रतिपत्त्यर्थमक्रिमादीनां स्वरूपमुक्तम, अन्यत्राप्यनेनैवानुसारेण विज्ञेयमिति । अयं चातिचारः संक्षेपत एकविधः, संक्षेपविस्तरतस्तु द्विविधः त्रिविधो यावदसङ्खयेयविधः संक्षेपविस्तरता पुनर्द्विविधः त्रिविधं प्रति संक्षेप एकविधं प्रति विस्तर इति, एवमन्यत्रापि योज्यं, विस्तरतस्त्वनन्तविधः । मू. ( २० ) पडिक्कमामि एगविहे असंजमे । पडिक्कमामि दोहिं बंधणेहिं-रागबंधणेण दोसबंधणेणं । प० तिहिं दंडेहिं मनदंडेणं वयदंडेणं कायदंडेणं । प० तिहिं गुत्तीहिं-मनगुत्तीए वयगुत्तीए कायगुत्तीए । वृ-प्रतिक्रमामि पूर्ववत, एकविधे एकप्रकारे असंयमे अविरतिलक्षणे सति प्रतिषिद्धकरणादिना यो मया दैवसिकोऽतिचारः कृत इति गम्यते, तस्य मिथ्या दुष्कृतमिति सम्बन्धः वक्ष्यते च- 'सज्झाए न सज्झाइयं तस्स मिच्छामि दुक्कडं' एवमन्यत्रापि योजना कर्तव्या, प्रतिक्रामामि द्वाभ्यां बंधनाभ्यां हेतुभूताभ्यां योऽतिचारः, बद्ध्यतेऽष्टविधेन कर्मणा येन हेतुभूतेन तद्बन्धनमिति, तद्बन्धनद्वयं दर्शयति-रागबंधनं च द्वेषबन्धनं च, रागद्वेषयोस्तु स्वरूपं यथा नमस्कारे, बंधनत्वं चानयोः प्रतीतं, 'स्नेहाभ्यक्तशरीरस्य रेणुना श्लिष्यते यथा गात्रम् । रागद्वेषाक्लिनस्य कर्मबन्धो भवत्येवम् ।। प्रतिक्रमामि त्रिभिर्दण्डैः' दण्ड्यते चारित्रैश्वर्यापहारतोऽसारीक्रियते एभिरात्मेति दण्डाः द्रव्यभावभेदभिन्नाः, भावदण्डैरिहाधिकारः, तैर्हेतुभूतैर्योऽतिचारः, भेदेन दर्शयति-मनोदण्डेन वाग्दण्डेन कायदण्डेन, मनःप्रभृतिमिश्च दुष्प्रयुक्तैर्दण्ड्यते आत्मेति, अत्र चोदाहरणानि - तत्थ मनदंडे उदाहरणं-कोंकणगखमणओ, सो उड्डाणू अहोसिरो चिंतितो अच्छइ, साहूणो अहो खंतो सुहज्झाणोवगओत्ति वंदंति, चिरेण संलावं देउमारद्धो, साहूहिं पुच्छिओ, भणइ-खरो वाओ वायति, ते मम पुत्ता संपवल्लराणि पत्नीविज्जा तो तेसिं वरिसारते सरसाए भूमीए सुबहू सालिसंपया होज्जा, एवं चिंतियं मे, आयरिएण वारिओ ठिओ, तो एवमाइ जं असुइं मणेण चिंतेइ सो मनदंडो । वइदंडे उदाहरण- साहू सन्नाभूमीओ आगओ, अविहीए आलोएइ-जहा सूयरवंदं दिडंति, पुरिसेहिं गंतुं मारियं ।। इदानिं कायदंडे उदाहरणं- चंडरुद्दो आयरिओ, उज्जेनि बाहिरगामाओ अनुजाणपेक्खओ आगओ, सो य अईव रोसणी, तत्थ समोसरणे गणियाधरविहेडिओ जाइकुलाइ संपन्नो इब्भदारओ सेओ उवडिओ, तत्थ अनेहिं असद्दहंतेहि चंडरुद्दस्स पास पेसिओ, कलिणा कली घस्सउत्ति, सो तस्स उबडिओ, तेन सो तहेव लोयं काउं पघाविओ, पच्चूसे गामं वच्चंताणं पुरओ सेहो पिट्ठओ चंडरुद्दो, आवडिओ रुट्ठो सेहं दंडेण मत्थए हणइ, कहं ते पत्थरो न दिट्ठोत्ति ?, सेहो सम्म सहइ आवस्सयवेलाए रुहिरावलितो दिट्टो, चंडरुदस्स तं पासिऊण मिच्छामि दुक्कडत्ति रण केवलनाणं उप्पन्नं, सेहस्सवि कालेन केवलनाणमुप्पत्रं || पडिक्कमामि तिहिं गुत्तीहिं- प्रतिक्रमामि तिसृभिर्गुप्तिभिः करणभूताभिर्योऽतिचारः कृत इति, तघथा - मनोगुप्त्या वाग्गुप्तया कायगुप्त्या, गुप्तीनां च करणता अतिचारं प्रति प्रतिषिद्धकरणकृत्याकरणा श्रद्धानविपरीतप्ररूपणादिना प्रकारेण, शब्दार्थस्त्वासां सामायिकवद् द्रष्टव्यः, 'मनगुत्तीए तहियं जिनदासो सावओ य सेट्ठिसुओ । सो सव्वराइपडिमं पडिवन्नो जाणसालाए | 19 || For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy