________________
आवश्यक मूलसूत्रम्-१व्याख्याङ्गप्रतिपादनाधिकारे गुरुभावोपक्रमाभिधानमनर्थकमिति, न, तस्यापि व्याख्याङ्गत्वात्,
"गुर्वायत्ता, यस्माच्छास्त्रारम्भा भवन्ति सर्वेऽपि ।
तस्माद्गुराधनपरेण हितकाङ्क्षिणा भाव्यम् ॥" तथा च भाष्यकारेणाभ्यधायि
"गुरुचित्तायत्ताइं वक्खाणंगाई जेन सव्वाई। जेन पुण सप्पसणं होइ तयं तं तहा कजं ॥ आगारिंगियकुसलं जदि सेयं वायसं वए पुज्जा । तहविय सिं नवि कूड़े विरहमि अ कारणं पुच्छे । निवपुच्छिएण भणिओ गुरुणा गंगा कओमुही वहइ ?।
___ संपाइयवं सीसो जह तह सव्वत्य कायव्वं ।। इत्यादि । आह-यद्येवं गुरुभावोपक्रम एवाभिधातव्यो न शेषाः, निष्प्रयोजनत्वात्, न, गुरुचित्तप्रसादनार्थमेव तेषामुपयोगित्वात; तथ च देशकालावपेक्ष्य परिकर्मनाशौ द्रव्याणां उदकौदनादीनां आहारदिकार्येषु कुर्वन् विनेयो गुरोहैरति चेत इति । अथवोपक्रमस्य साम्यात् प्रकृते निरुपयोगिनोऽपि अन्यत्र उपयोक्ष्यन्त इत्युपन्यस्तत्वाददोष इत्यलं विस्तरेणं । उक्तं इतरः, इदानी शास्त्रीय उच्यते-असावपि षडिध एव, तद्यथा-आनुपूर्वी १ नाम २ प्रमाणं ३ वक्तव्यता ४ अर्थाधिकारः ५ समवतार ६ इति । तत्रानुपूर्वी नामस्थापनाद्रव्यक्षेत्रकालगणनोत्कीर्तनसंस्थानसामाचारीभावभेदभिन्ना दशप्रकारा, तस्यां यथासंभवतः समवतारणीयमिदं, विशेषतस्तूत्कीर्तनगणनानुपूर्वीद्वय इति, उत्कीर्तना-संशब्दना यथा-सामायिकं चतुर्विंशतिस्तव इत्यादि, गणनं परिसंख्यानं-एकं द्वे त्रीणि चत्वारीत्यादि, सा च गणनानुपूर्वी त्रिप्रकारा पूर्वपश्चादनानुपूर्वीभेदभिन्ना, तत्र सामायिक पूर्वानुपूर्व्या प्रथम, पश्चानुपूर्व्या षष्ठं, अनानुपूर्व्या त्वनियतं क्वचिप्रथम कचिद्वितीयं इत्यादि । तत्रानानुपूर्वीणामयं करणोपायः-एकाधेकोत्तरा विवक्षितपदानां स्थापना क्रियते, तत्र पदत्रयस्थापनैव तावत्संक्षेपतः प्रदर्श्यते-सामायिकं चतुर्विशतिस्तवः वन्दनाध्ययनमिति । अत्र
पुव्वानुपुब्बि हेट्ठा, समयाभेएण कुण जहाजेटुं ।
उपरिमतुल्लं पुरओ नसेज्न पुब्बक्कमो से से ॥ जहितंमिउनिक्खित्ते पुरओ सो चेव अंकविन्नासो ।
सो होइ समयभेदो वज्जेयव्वो पयत्तेणं ॥ भावना क्षुण्णत्वान्न प्रतन्यते, नवरमागतंत्रयाणामेतेषां षड्भङ्गा भवन्ति, अतश्चतस्त्रः खलु अनानुपूर्व्य इति । षण्णां तु पदानां सप्तविंशत्युत्तराणि भङ्गकशतानि, अत्रापि सप्ताष्टादशोत्तराणि अनानुपूर्व्य इति । इदानीं नाम-प्रतिवस्तु नमनान्नाम, तच्चैकादि दशान्तं यथाऽनुयोगद्वारेषु तथा च वक्तव्यं, षड्नाम्नि त्ववतारः, तत्र षड् भावा औदयिाकादयो निरूप्यन्ते, तत्र क्षायोपशमिक एव सर्वश्रुतावतारः, तस्य क्षायोपशमिकत्वादिति । तथ प्रमाणं-द्रव्याणि प्रमीयतेऽनेनेति प्रमाणं, तच्च प्रमेयभेदादेव चतूरूपं, तद्यथा-द्रव्यप्रमाणं क्षेत्रप्रमाणं २ कालप्रमाणं ३ भावप्रमाणं च ३, तत्र सामायिकं भावात्मकत्वाद् भावप्रमाणविषयं, तच्च भावप्रमाणं त्रिधा-गुणनय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org