________________
४१८
आवश्यक मूलसूत्रम् -१-१/२
कुंभोऽवि सज्जमाणो कत्ता कम्मं स एवं करणं च । नाणाकारगभावं लहइ जहेगो विवक्खाए ॥७॥ जह वा नाणाणण्णो नाणी नियओवओगकालंमि ।
एगोऽवि तस्सभावो सामाइयकारगो चेवं ॥८॥" साम्प्रतं परिणामपक्षे सत्येकत्वानेकत्वापक्षयोरविरोधेन कर्तृकर्मकरणव्यवस्थामुपदर्शयत्राहनि. (१०३६) एगत्ते जह मुढेि करेइ अत्यंतरे अत्यंतरे घडाईणि ।
दव्वत्थंतर भावे गुणस्स किं केन संबद्धं !॥ वृ- 'एकत्ये' कर्तृकर्मकरणाभेदे कर्तृकर्मकरणभावो दृष्टः, यथा मुष्टिं करोति, अत्र देवदत्तः कर्ता तद्धस्त एव कर्म तस्यैव च प्रयत्नविशेषः करणमिति, तथाऽर्थान्तरे-कर्तृकर्मकरणानां भेदे ६ष्ट एव तद्भावः, तथा चाऽऽह-घटादीनि यथा करोतीति वर्तते, तत्रापि कुलालः कर्ता घटः कर्म दण्डादि करणमिति । इह च सामायिकं गुणो वर्तते, स च गुणिनः कथञ्चिदेव भिन्न इति । विपक्षे बाधामुपदर्शयति-द्रव्यात् सकाशाद्, गुणिन इत्यथः, एकान्तैनैवार्थान्तर-भाव-भेदे सति, कस्य ? गुणस्य, किं केन सम्बद्धामिति ?, न किञ्चित् केनचित् सम्बद्धं, ज्ञानादीनामपि गुणत्वात्तेषामपि चाऽऽत्यादिगुणिभ्य एकान्तभिन्नत्वात्, संवेदनाभावतः सर्वव्यवस्थानुपपत्तेरिति भावना, एक्मेकान्तेनानान्तरभावेऽपि दोषा अभ्यूह्या इति गाथार्थः ॥
कण्ठतस्तावदुक्ते चालनाप्रत्यवस्थाने, अत एव चात्र पुनरुक्तदोपोऽपि नास्ति, अनुवादद्वारेण चालना-प्रत्यवस्थान-प्रवृत्तेरित्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, तत्र सर्वं सावधं योगमित्याद्यवशिष्यते, तदिह सर्वशब्दनिरूपणायाऽऽहनि. (१०३७)नामं १ ठवणा २ दविए ३ आएसे ४ निरवसेसए ५ चेव ।
तह सबधत्तसव्वं च ६ भावसव्वं च सत्तमयं ७॥ वृ-इह सर्वमिति कः शब्दार्थः?, उच्यते, 'सृ गतौ' इत्यस्य औणादिको वप्रत्ययः सर्वशब्दो वा निपात्यते स्त्रियते स इति श्रियते वाऽनेनेति सर्वः, तदिदं च नामसर्व स्थापनासर्वं द्रव्यसर्वम् आदेशसर्व निरवशेषसर्वं, तथा सर्वधत्तसर्वं च भावसर्वं च सप्तममिति समासार्थः ।।
व्यासार्थं तु भाष्यकारः स्वयमेव वक्ष्यति, तत्र नामस्थापने क्षुण्णत्वादनायध्त्य शेषभेदव्याचिख्यासया पुनराह[भा.१८५] दविए चउरो भंगा सब्ब १ मसव्वे अ २ दव्व १ देसे अ२।
आएस सव्वगामो नीसेसे सव्वगं दुविहं ।। वृ- 'द्रव्य' इति द्रव्यसर्वे चत्वारो भङ्गा भवन्ति, तानेव सूचयन्नाह-'सव्वमसव्ये अ दव्व देसे यत्ति-अयमत्र भावार्थः-इह यद्विवक्षितं द्रव्यमङ्गुल्यादि तत् कृत्स्र-परिपूर्णम् अनूनं स्वैरवयवैः सर्वमुच्यते, सकलमित्यथः, एवं तस्यैव द्रव्यस्य कश्चित्स्वावयवी देशः कृत्यतया-स्वावयवपरिपूर्णतया यदा सकलो विवक्ष्यते तदा देशोऽपि सर्वः, एवमुभयस्मिन् द्रव्ये तद्देशे च सर्वत्वं, तेयोरेव यथास्वमपरिपूर्णतायामसर्वत्वं, ततश्चतुर्भङ्गी-द्रव्यं सर्वं देशोऽपि सर्वः १ द्रव्यं सर्व देशोऽसर्वः २ देशः सर्वः द्रव्यमसर्वं ३ देशोऽसर्वः द्रव्यमप्यसर्वम् ४, अत्र यथाक्रममुदाहरणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org