________________
४१६
आवश्यक मूलसूत्रम्-१.१/२
प्रसाधकत्वादिति भावना, 'तस्य' इति सामादि सम्बध्यते, 'आत्मनि प्रोतनम्' आत्मनि प्रवेशनम् इकमुच्यते, अत एवाऽऽह-'भावसामाई' भावसामादावेतान्युदाहरणानीति गाथार्थः । सामायिकशब्दयोजना चैवं द्रष्टव्य-इहाऽत्मन्येव साम्न इकं निरुक्तनिपातनात् साम्रो नकारस्याऽऽय आदेशः, ततश्च सामायिकम्, एवं समशब्दस्याऽऽयादेशः, समस्य वा आयः समायः स एव सामायिकमिति, एवमन्यत्रापि भावना कार्येति कृतं प्रसङ्गेन ॥
साम्प्रतं सामायिकपर्यायशब्दान् प्रतिपादयन्नाह-ग्रन्थकारः नि. (१०३३) समया सम्मत्त पसत्थ संति सुविहिअ सुहं अनिंदं च ।
अदुगुंछिअमरगरिहिअं अनवजमिमेऽवि एगहा ।। वृ-निगदसिद्धैव । आह-अस्य निरुक्तावेव 'सामाइयं समइय' मित्यादिना पर्यायशब्दाः प्रतिपादिता एव तत् पुनः किमर्थमभिधानमिति ?, उच्यते, तत्र पर्यायशब्दमात्रता, इह तु वाक्यन्तरेणार्थनिरूपणमिति, एवं प्रतिशब्दमर्थाभेदतोऽनन्ता गमा अनन्ताः पर्याया इति चैकस्य सूत्रस्येति ज्ञापितं भवति, अथवाऽसम्मोहार्थं तत्रोक्तावप्यभिधानमदुष्टमेव इत्यत एवोक्तम्'इमेऽवि एगति एतेऽपि तेऽपीत्यदोषः ।। साम्प्रतं कण्ठतः स्वयमेव चालनां प्रतिपादयत्राहनि. (१०३४)को कार ओ?, करंतो किं कम्मं ?, जंतु कीरई तेन ।
किं कारयकरणाण य अत्रमणन्नं च ? अक्खेवो ।। वृ-इह 'करोमि भदन्त ! सामायिकम्' इत्यत्र कर्तृकर्मकरणव्यवस्था वक्तव्या, यथा करोमि राजन् ! घटमित्युक्ते कुलालः कर्ता घट एव कर्म दण्डादि करणमिति, एवमत्र कः कारकः कुलालसंस्थानीयः ? इत्यत आह-'करेंतो ति तत् कुर्वन्नत्मैव, अथ किं कर्म घटादिसंस्थानीयम्? इत्यत्राऽऽह-यत्तु "क्रियते' निर्वय॑ते 'तेन' का तच तद्गुणरूपं सामायिकमेव, तुशब्दः करणप्रश्ननिर्वचनसङ्ग्रहार्थः, यथा कर्म निर्दिष्टमेवं किं करणमित्युद्देशादिचतुर्विधमिति निर्वचनम्, एवं व्यवस्थिते सत्याह-'किं कारगकरणाण य' ति किं कारककरणयोः ?, चशब्दात् कर्मणश्च परस्परतः कुलालघटदण्डादीनामिवान्यत्वम्, आहोश्विदनन्यत्वमेवेति ?, उभयथाऽपि दोषः, कथम् ?, अन्वत्वे सामायिकवतोऽपि तत्फलस्य मोक्षास्याभावः, तदन्यत्वाद्, मिथ्यादृष्टेरिव, अनन्यत्वे तु तस्योत्पत्तिविनाशाभ्यामात्मनोऽप्युत्पत्तिविनाशप्रसङ्ग इति, अनिष्टं चैतत्, तस्यानादिमत्त्वाभ्युपगमादित्याक्षेपश्चालनेति गाथार्थः ॥ विजृम्भितं चात्र भाष्यकारेण
"अनत्ते समभावा-भावाओ तप्पओयणाभावो। पावइ मिच्छस्स व से सम्मामिच्छाऽविसेसो य ।।१।। अह व मई-भिन्नेणवि धनेन सधनोत्ति होइ क्वएसो । सधनो य धनाभागी जह तह सामाइयस्सामी ।।२।। तं न जओ जीवगुणो सामइयं तेन विफलता तस्स ।
अन्नत्तणओ जुत्ता परसामइयस्स दाऽफलता ॥३॥ जइ भिन्नं तब्भावेऽवि नो तओ तस्सभावरहिओत्ति । अन्नानिच्चिय निचं अंधो व समं पईवेणण ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org