________________
४१४
आवश्यक मूलसूत्रम्-१.१/२ 'करणेय'त्ति उपन्यस्तद्वारपरामर्शः । भए यत्ति भयमपि 'यद् भणितं यदुकामिति गाथाद्वयार्थः। मूलद्वारगाथायां करणमित्येतद् द्वारं व्याख्यातम्, एतद्वयाख्यानाच्च सूत्रेऽपि करोमीत्ययमवयव इति, अधुना द्वितीयावयवव्याचिख्यासयाऽऽह[भा.१८४) होइ भयंतो भयअंतगो अ रयणा भयस्स छब्मेआ।
सव्वंमि वन्निएउनकमेण अंतेवि छब्मेआ। वृ- भवति भदन्त इत्यत्र 'भदि कल्याणे सुखे च' अर्थद्वये धातुः 'विशिभ्यां झचू' औणादिकप्रत्ययो दृष्टः, तं दृष्ट्वा प्रकतिरुह्यते, भदि कल्याण इति अनुनासिकलोपश्चेति, तस्यौणादिकविधानात्, ततश्च भदन्त इति भवति, भदन्तः- कल्याणः सुखश्चेत्यर्थः, प्राकतशैल्या वा भवति भवान्त इति, अत्र भवस्य-संसारस्यान्तस्तेनाऽऽचार्येण क्रियत इति भवान्तकरत्वाद् भवान्त इति, तथा-भयान्तश्चेत्यत्र भयं त्रासः तमाचार्यं प्राप्य भयस्यान्तो भवतीति भयान्तोगुरुः, भयस्य वाऽन्तको भयान्तक इति, तस्याऽऽमन्त्रणं, 'रचना' नामादिविन्यासलक्षणा, भयस्य ‘षड्भेदाः' षट्प्रकाराः-नामस्थापनाद्रव्यक्षेत्रकालभावभेद भिन्नाः, तत्र पञ्च प्रकाराः प्रसिद्धाः, षष्ठं भावभयं सप्तधा-इहलोकभयं परलोकभयमादानभयमकस्माद्भयमश्लोकभयमाजीविकाभयं मरणभयं चेति, तत्रापीहलोके भयं स्वभवाद् यत् प्राप्यते परलोकभयं परभवात्, किञ्चनद्रव्यजातमादानं तस्य नाशहरणादिभ्यो भयम् आदानभय, यत्तु बाह्यनिमित्तमन्तरेणाहेतुकं भयम् अकस्माद् भवति तदाकस्मिकं, 'श्लोक श्लाघायां' श्लोकनं श्लोकः श्लाघा--प्रशंसा तद्विपर्ययोऽश्लोकस्तस्माद् भयमश्लोकभयम्, आजीविकाभयं-दुर्जीविकाभयं, प्राणपरिणत्यागभयं मरणभयमिति, एवं सर्वस्मिन् वर्णिते अनुक्रमेण उक्तलक्षणेनान्तेऽपि षड् भेदा इति, तत्र 'अम गत्यादिषु' अमनमन्ताः- अवसानमित्यर्थः, अस्मिन्नपि षड् भेदाः, तद्यथा-नामान्तः स्थापनान्तः द्रव्यान्तः क्षेत्रान्तः कालान्तः भावान्तश्चेति, नामस्थापने क्षुण्णे, द्रव्यान्तो घटाद्यन्तः, क्षेत्रान्त ऊर्ध्वलोकादिक्षेत्रान्तः, कालान्तः समयाद्यन्तः, भावान्तः औदयिकादिभावान्तः ॥ [भा.१८५] एवं सब्बंमिऽवि वनिअंमि इत्थं तु होइ अहिगारो।
सत्तभयविप्पमुक्के तहा भवंते भयंते अ॥ कृ. 'एवम्' उक्तेन प्रकारेण सर्वस्मिन्' 'नेकभेदभिन्ने भयादौ वर्णिते सति 'अत्र तु' प्रकृते भवत्यधिकारः- प्रकृतयोजना सप्तभयविनमुक्तो यस्तेन, तथा भवान्तो यः भदन्तश्चेति, पश्चानुपूर्व्या ग्रन्थ इति गाथाद्वयार्थः ।। मूलद्वारगाथायां व्याख्यातं भयान्तद्वारद्वयं, तद्व्याख्यानाच भदन्तभवान्तभयान्त इति गुमन्त्रणार्थः सूत्रावयव इति, उक्तं च- भाष्यकारेण
'आमंतेइ करेमी भदंत ! सामाइयंति सीसोऽयं ।
आहामंतणवयणं गुरुणो किंकारणमिणति ॥१॥ (भण्णइ)-गुरुकुलवासोवसंगहत्थं जहा गुणत्थीह । निच्चं गुरुकुलवासी हवेज सीसो जओऽभिहियं ॥२॥ नाणस्स होइ भागी थिरयरओ दंसणे चरिते य । धना आवकहाए गुरुकुलवासं न मुंचंति ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org