________________
३९७
अध्ययनं-१ - [नि.१०१४] न समनुजानामि-नानुमन्येऽहमिति, तस्येत्यधिकृतो योगः संबध्यते, भयान्तं इति पूर्ववत्,
प्रतिक्रमामि-निवर्तेऽहमित्युक्तं भवति, निन्दामीति जुगुप्से इत्यर्थः, गर्हामीति च स एवार्थः, किन्त्वात्मसाक्षिकी निन्दा गुरुसाक्षिकी गति, किं जगुप्से ?-'आत्मानम् अतीतसावद्ययोगकारिणं, 'व्युत्सृजामी'थि विविधार्थो विशेषार्थे वा विशब्दः उच्छब्दो भृगार्थः सृजामित्यजामीत्यर्थः, विविधं विशेषेण वा भृशं त्यजामि व्युत्सृजामि, एवं तावत्पदार्थपदविग्रही यथासम्भवमुक्ती, अधुना चालनाप्रत्यवस्थाने वक्तव्ये, तदत्रान्तरे सूत्रस्पर्शनियुक्तिरुच्यते, स्वस्थानत्वात्, आह च नियुक्तिकारःनि. (१०१५) अक्खलिअसंहिआई वक्खाणचउक्कए दरिसिमि ।
सुत्तप्फासिअनिजृत्तिवित्थरत्थो इमो होइ ॥ तृ-'अक्खलिआइ'त्ति अस्खलितादौ सूत्र उच्चरिते, तथा संहितादौ व्याख्यानचतुष्टये दर्शिते सति, किं ? -सूत्रस्पर्शनियुक्तिविस्तरार्थः अयं भवतीति गाथार्थः ।। नि. (१०१६)करणे १ भए अ२ अंते ३ सामाइअ ४ सब्बए अ५ वजे अ६ !
जोगे ७ पच्चखाणे ८ जावजीवाइ ९तिविहेणं १०॥ कृ-करणं भयं च अन्तः सामायिकं सर्वच वर्जं च योगः प्रत्याख्यानं यावजीवया त्रिविधेनेति पदानि, पदार्थं तु भाष्यगाथाभिर्यक्षेण प्रतिपादयिष्यतीति गाथासमासार्थः ॥
साम्प्रतं करणनिक्षेपं प्रदर्शयन्नाह[भा.१५२]नाम १ ठवणा २ दविए ३ खित्ते ४ काले ५ तहेव भावे अ६ ।
एसो खलु करणस्सा निक्खेवो छव्विहो होइ ॥ वृ-अक्षरगतं पदार्थमात्रमधिकृत्य निगदसिद्धा, साम्प्रतं द्रव्यकरणप्रतिपादनायाऽऽह[मा.१५३] जाणगभविअइरित्तं सन्ना नोसन्नओ भवे करणं ।
सन्ना कडकरणाई नोसना वीससपओगे । वृ-इह यथासम्भवं द्रव्यस्य द्रव्येण द्रव्ये वा करणं द्रव्यकरणं, तच्च नोआगमतो ज्ञभव्यातिरिक्तं संज्ञा नोसंज्ञातो भवेत् करणं, एतदुक्तं भवति-ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यकरणं द्विधा-संज्ञाकरणं नोसंज्ञाकरणं च, तत्र संज्ञाकरणं कटकरणादि, आदिशब्दात् पेलुकरणादिपरिग्रहः, पेलुशब्देन रुतपूणिकोच्यते, अयमत्र भावार्थः-कटनिर्वर्तकमयोमयं चित्रसंस्थानं पालकादि तथा रुतपूणिकानिर्वर्तकं शलाकाशल्यकाङ्गरुहादि संज्ञाद्रव्यकरणमन्वर्थोपपत्तेरिति. आह-इदं नामकरणमेव पर्यायमात्रतः संज्ञाकरणमिति न कश्चिद्विशेष इति, उच्यते, इह नामकरणमभिधानमात्रं गृह्यते, संज्ञाकरणं त्वन्वर्थतः संज्ञायाः करणं २, द्रव्यस्य संज्ञया निर्दिश्यमानत्वात्, तथा च भाष्यकारेणाप्येतदेवाभ्यधायि
“सन्ना नामंति मई तं नो नामं जमभिधाणं ॥१॥ जं वा तदत्थविकले कीरइ दव्वं तु दवणपरिणामं । पेलुक्करणाइ न हि तं तयस्थसुण्णं न वा सद्दो ॥२॥ जइ न तदत्थविहीणं तो किं दव्वकरणं? जओ तेणं ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org