________________
अध्ययनं-१ - [ नि. ९७०]
३८५
- 'दीर्घं वा' पञ्च धनुःशतप्रमाणं 'ह्रस्वं वा' हस्तद्रयप्रमाणं, वाशब्दात् मध्यमं वा विचित्रं यत् 'चरमभवे' पश्चिमभवे भवेत् संस्थानं 'ततः ' तम्मात् संस्थानात् त्रिभागहीना, कुतः ?त्रिभागेन शुषिरपूरणात्, सिद्धानामवगाहना, अवगाहन्तेऽ स्यामवस्थायामित्यवगाहना स्वावस्थैवेति भावः, 'भणिता उक्ता तीर्थकरगणधरैरिति गाथार्थः ॥
साम्प्रतमुत्कृष्टादिभेदभिन्नाम-वगाहनामभिधित्सुराह-
नि. (९७१) तिन्नि सया तित्तीसा धनुत्ति भागो अ होइ बोद्धव्वो । एसा खलु सिद्धाणं उसोगाहणा भणिआ ।। नि. (९७२) चत्तारि अ रयणीओ रयणितिभागूणिआ य बोद्धव्वा । एसा खलु सिद्धाणं मज्झिम ओगाहणा भणिआ || नि. (९७३) एगा य होइ रयणी अद्वेव य अंगुलाइ साहीआ । एसा खलु सिद्धाणं जहन ओगाहणा भणिआ ||
वृ- एतास्तिस्रोऽपि निगदसिद्धाः, नवरमाक्षेपपरिहारी भाष्यकृतोक्तौ तौ चेमौ'किह मरुदेवीमाणं ? नाभीओ जेण किंचिदूणा सा । तो किर पंचसयं चिय अहवा संकोयओ सिद्धा ||१|| सत्तूसिएस सिद्धी जहन्नओ किहमिहं बिहत्थेसु ? | साकिर तित्थकरे सेसाणं सिज्झमाणाणं ||२|| ते पुण हो बिहत्था कुम्मापुत्तादओ जहन्त्रेणं । अत्रे संवट्टियसत्तहत्यसिद्धस्स हीनत्ति ||३|| बाहुलतोय सुत्तंमि सत्त पंच य जहन्नमुकोसं ।
हरा हीनहियं होजंगुलधनुपुहुत्तेहिं ॥४॥ अच्छेरयाइ किंचिवि सामन्त्रसुए न देसियं सव्वं । हो व अनिबद्धं चिय पंचसयादेसवयणं व ॥५॥
इत्यादि कृतं प्रसङ्गेन । साम्प्रतमुक्तानुवादेनैव संस्थानलक्षणं सिद्धानामभिधातुकाम आहनि. ( ९७४) ओगाहणाइ सिद्धा भवत्तिभागेण हुंति परिहीणा । संठाणमनित्थंत्थं जरामरणविप्पमुक्काणं ॥
वृ- निगदसिद्धा, नवरम् 'अनित्यंस्थम् ' इतीदंप्रकारमापत्रमित्थम् इत्थं तिष्ठतीति इत्थस्थं न इत्थस्थं अनित्थंस्थमिति केनचित् प्रकारेण लौकिकेनास्थितमित्यर्थः ।। आह - आघत एते किं देशभेदन स्थिता ? उत नेति ?, नेत्याह--कुत इति ?, अत्रोच्यते, यस्मात्
नि. (९७५) जत्थ य एगो सिद्धो तत्थ अनंता भवक्खयविमुक्का ! अन्नुन्नसमोगाढा पुट्ठा सव्वे अ लोगंते ॥
वृ- यत्रैव देशे चशब्दास्यैवकारार्थत्वात् एकः 'सिद्धः' निर्वृतः, तत्रानन्ताः किं ? 'भवक्षयविमुक्ता' इति भवक्षयेण विमुक्ताः भवक्षयविमुक्ताः, अनेन पुनः स्वेच्छया भवावतरणशक्तिमसिद्धाव्यवच्छेदमाह, अन्योऽन्यसमवगाढाः, तथाविधाचिन्त्यपरिणामवत्त्वात्,
2425
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org