________________
३५८
आवश्यक मूलसूत्रम् - १-१ /१
शेषनिक्षेपप्रतिपादनायाह
नि. (९२७) कम्मे 9 सिप्पे अ २ विज्जाय ३, मंते ४ जोगे अ ५ आगमे ६ | अत्थ ७ जत्ता ८ अभिप्पाए ९, तवे १० कम्मक्खए ११ इय ।।
वृ- कर्मणि सिद्धः कर्मसिद्धः कर्मणि निष्ठां गत इत्यर्थः एवं शिल्पसिद्धः २ विद्यासिद्धः ३ मन्त्रसिद्धः ४ योगसिद्धः ५ आगमसिद्धः ६ अर्थसिद्धः ७ यात्रासिद्धः ८ अभिप्रायसिद्धः ९ तपः सिद्धः १० कर्मक्षयसिद्ध ११ श्चेति गाथासमासार्थः । अवयवार्थ तु प्रतिद्वारमेव वक्ष्यति, तत्र नामस्थापनासिद्धौ सुखावसेयी, द्रव्यसिद्धो निष्पन्न ओदनः सिद्ध इत्युच्यते, साम्प्रतं कर्मसिद्धादिव्याचिख्यासया कर्मादिस्वरूपमेव प्रतिपादयन्नाह
नि. (९२८) कम्मं जमणायरिओवएसयं सिप्पमन्नहाऽभिहिअं । किसिवाणिज्जाईयं घडलोहाराइभेअं च ॥
वृ- इह कर्म यदनाचार्योपदेशजं सातिशयमनन्यसाधारणं गृह्यते, 'शिल्पम्' अन्यथाऽभिहितमिति, कोऽर्थः ? -इह यदाचार्योपदेशजं ग्रन्थनिबन्धाद्वोपजायते सातिशयं कर्मापि तच्छिल्पमुच्यते, तत्र भारवहनकृषिवाणिज्यादि कर्म घटकारलोहकारादिभेदं च शिल्पमिति गाथार्थः । साम्प्रतं कर्मसिद्धं सोदाहरणमभिधित्सुराह
नि. (९२९) जो सव्वकम्पकुसलो जो वा जत्थ सुपरिनिङिओ होइ । सज्झगिरिसिद्धओविव स कम्मसिद्धत्ति विनओ !!
-
वृ 'यः' कश्चित् सर्वकर्मकुशलो यो वा 'यत्र' कर्मणि सुपरिनिष्ठितो भवत्येकस्मिन्त्रपि सह्यगिरिसिद्धक इव स कर्मसिद्धा इति विज्ञेयः कर्मसिद्धो ज्ञातव्य इति गाथाक्षरार्थः ॥ भावार्थः कथानकादवसेयः, तच्छेदम्- कोंकणगदेसे एगंमि दुग्गे सज्झस्स भंडं उरुंभेइ विलएत्ति य, ताणं च विसमे गुरुभारवाहित्ति काऊण रन्ना समाणत्तं, एएसि मएवि पंथो दायव्वो न पुण एएहिं कस्सइइओ एगो सिंधवओ पुराणो सो पडिभज्जूंतो चिंतेइ तहिं जामि जहिं कम्मे न एस जीवो भज्जइ सुहं न विंदइ, सो तेसिं मिलिओ, सो गंतुकामो भाइ, कुंदुरुक्क पडिबोहियल्लओ सिद्धओ भाइ-सिद्धियं देहि ममं, जहा सिद्धयं सिद्धया गया सज्झयं सोय तेसिं महत्तरओ सव्ववडुं भारं वहइ, तेन साहूणं मग्गो दिन्नो, ते रुट्ठा राउले कहेंति, ते भांति अम्हं रायावि मग्गं देइ भारेण दुक्खाविजंताणं ता तुमं समणस्स रित्तस्स त्थिक्कस्स मग्गं देसि ?, रन्ना भणियं दुडु ते कयं मम आणा लंघियत्ति, तेन भणियं-देव ! तुमे गुरुभारवाहित्तिकाउणमेयमाणत्तं ?, रन्ना आमंति पडिस्सुयं तेन भणियं जइ एवं तो सो गुरुतरभारवाही, कहं ? -जं सो अवीसमंतो अट्ठारससहस्ससीलंगनिब्भरं भारं वहइ, जो मएवि वोढुं न पारिओत्ति, धम्मकहा यऽनेन कया, हो महाराय !
'वुज्झति नाम भारा ते पुण वुज्झति वीसमंतेहिं ।
सीलभरो वोढव्वो जावज्जीवं अविस्साम ||१||
राया पडिबुद्धो, सो य संवेगं गओ, अब्भुट्टिओत्ति, एस कम्मसिद्धोत्ति ॥ साम्प्रतं शिल्पसिद्धां सोदाहरणमेवाभिधातुकाम आह
नि. (९३०) जो सव्वसिप्पकुसलो जो वा जत्थ सुपरिनिट्ठिओ होइ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org