________________
आवश्यक मूलसूत्रम् - १- १/१
एतदनन्तरगाथायामेत एवोक्ताः पुनरमीषामेवेहोपन्यासोऽयुक्त इति ?, अत्रोच्यते, अनन्तरगाथायां नमस्कारार्हत्वे हेतुत्वेनोक्ताः, इह पुनरभिधाननिरुक्तिप्रतिपानार्थमुपन्यास इति गाथार्थः । साम्प्रतं प्रकारान्तरतोऽरय आख्यायन्तने, ते चाष्टौ ज्ञानावरणादिसंज्ञाः सर्वसत्त्वानामेवेति, नि. (९२०) अट्ठविहंपिय कम्मं अरिभूअं होइ सव्वजीवाणं । तं कम्ममरिं हंता अरिहंता तेन वृचंति ॥
वृ- 'अष्टविधमपि' अष्टपकारमपि, अपिशब्दादुत्तरप्रकृत्यपेक्षयाऽनेकप्रकारमपि चशब्दो भिन्नक्रमः, स चाव धारणे, ज्ञानावरणादि, ततश्चाष्टविधं कर्मैव 'अरिभूतं' शत्रुभूतं भवति 'सर्वजीवानां सर्वसत्त्वानामनवबोधदिदुः खहेतुत्वादिति भावः पश्चाद्धं पूर्ववत्, एवंविधा अरिहन्तार इति गाथार्थः ॥ अथवा -
नि. (९२१)
अरिहंति वंदननमंसणाई अरिहंति पूअसकारं । सिद्धिगमनं च अरिहा अरहंता तेन वुच्छंति ।
वृ- 'अर्ह पूजायाम्' अर्हन्तीति 'पचाचद्यचू' कर्तरि अर्हाः, किमर्हन्ति ? - वन्दननमस्करणे, तत्र वन्दनं शिरसा नमस्करणं वाचा, तथाऽर्हन्ति पूजासत्कारं तत्र वस्त्रमाल्यादिजन्या पूजा, अभ्युत्थानादिसम्भ्रमः सत्कार:, तथा 'सिद्धिगमनं चार्हन्ति' सिद्ध्यन्ति निष्ठितार्था भवन्त्यस्यां प्राणिन इति सिद्धिः - लोकान्तक्षेत्रलक्षणा, वक्ष्यति च 'इह बोंदिं चइत्ता णं तत्थ गंतूण सिज्झइ' तद्गमनं च प्रत्यह इति, 'अरहंता तेन वुच्छंति' प्राकृतशैल्या अर्हस्तेनोच्यन्ते, अथवा अर्हन्तीत्यर्हन्त इति गाथार्थः ॥
नि. (९२२)
३५६
देवासुरमनुए अरिहा पूओ सुरुत्तमा जम्हा । अरिणो हंता रयं हंता अरिहंता तेन वुच्छंति ॥
वृ- देवासुरमनुजेभ्यः पूजामर्हन्ति प्राप्नुवन्ति तद्योग्यत्वात्ः सुरोत्तमत्वादिति युक्तिः, इत्थमनेकधाऽन्वर्थमभिधाय पुनः सामान्यविशेषाभ्यामुपसंहरन्नाह - 'अरिणो हंता' इत्यादि पूर्ववदेव, अरीणां हन्तारः यतः अरिहन्तारस्तेनोच्यन्ते, तथा रजसो हन्तारः यतो रजोहन्तारस्तेनोच्यन्ते इति, रजो बध्यमानकं कर्म भण्यत इति गाथार्थः ॥ इदानीममोघताख्याप-नार्थमपान्तरालिकं नमस्कारफलमुपदर्शयतिअरहंतनमुक्कारो जीवं मोएइ भवसहस्साओ ।
नि. (९२३)
भावेण कीरमाणो होइ पुणो बोहिलाभाए ॥
वृ- अर्हतां नमस्कारः अर्हन्नमस्कार, इहार्हच्छब्देन बुद्धिस्थार्हदाकारवती स्थापना गृह्यते, नमस्कारस्तु नमः शब्द एव, 'जीवम्' आत्मानं 'मोचयति' अपनयति, कुतः ? - भवसहस्त्रेभ्यः, 'भावेन' उपयोगेन क्रियमाणः इह च सहस्त्रशब्दो यद्यपि दशशतसङ्ख्यायां वर्तते तथाऽप्यत्रर्थदनन्तसङ्ख्यायामवगन्तव्यः, अनन्तभवमोचनान्मोक्षं प्रापयतीत्युक्तं भवति, आह-न सर्वस्यैव भावतोऽपि नमस्कारकरणे तद्भव एव मोक्षः, तत्कथमुच्यते-जीवं मोच्यतीत्यादि, उच्यते, यद्यपि तद्भव एव मोक्षाय न भवति तथाऽपि भावनाविशेषाद्भवति पुनः 'बोधिलाभाय ' बोधिलाभार्थं, बोधिलाभश्चचिरादविकलो मोक्ष हेतुरित्यतो न दोष इति गाथार्थः । तथा चाहअरिहंतनमुक्कारो धन्नाण भवक्खयं कुणंताणं ।
नि. (९२४)
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org