SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ३२८ एणावि पच्चक्खाणे समया कया ।। अत्र गाथा-नि. (८७९) आवश्यक मूलसूत्रम् - १. पच्चक्खे दवणं जीवाजीवे य पुण्णपावं च । पच्चक्खाया जोगा सावज्जा तेतलिसुएणं ॥ वृ- प्रत्यक्षानिव दृष्ट्वा देवसंदर्शने, कान् ? -जीवाजीवान् पुण्यपापं च प्रत्याख्याता योगाः सावद्यास्तेतलिसुतेनेति गाथार्थः ॥ गतं निरुक्तिद्वारं, उपोद्पात निर्युक्तिः समाप्ताः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता आवश्यक सूत्रे उपोद्घात नियुक्तिः सटीकं समाप्ता । नमस्कार नियुक्तिः वृ- अथ सूत्रस्पर्शिकनिर्युक्त्यवसरः, सा च प्राप्तावसारऽपि नोच्यते, यस्मादसति सूत्रे कस्यासाविति, ततश्च सूत्रानुगमे वक्ष्यामः । आह-यद्येवं किमिति तस्याः खल्विहोपन्यासः ?, उच्यते, नियुक्तिमात्रसामान्यात्, एवं सूत्रानुगमोऽप्वसरप्राप्त एव तत्र च सूत्रमुच्चारणीयं, तच किम्भूतं ? तत्र लक्षणगाथा - $ नि. (८८०) अपगंथमहत्थं बत्तीसादोसविरहियं जं च । लक्खणतं सुत्तं अहि य गुणेहि उववेयं ॥ वृ- अल्पग्रन्थं च महार्थं चेति विग्रहः, 'उत्पादव्यध्रौव्ययुक्तं सदि' त्यादिवत्, अधिकृतसामायिकसूत्रवद्वा, द्वात्रिंशद्दोषविरहितं यच्च, क एते द्वात्रिंशद्दोषाः ?, उच्यन्तेनि. (८८१) अलियमुवघायजणयं निरत्थयमवत्थयं छलं दुहिलं । निस्सारमधियमूणं पुणरुत्तं वाहयमजुत्तं ॥ नि. (८८२) कमभिन्नवयणभिण्णं विभत्तिभिन्नं च लिंग भिन्नं च । अनभिहियमपयमेव य सभावहीणं ववहियं च ॥ नि. (८८३) कालजतिच्छविदोसा समयविरुद्धं च वयणमित्तं च । अत्यावत्तदोसो य होइ असमासदोसो य ॥ उवमारूवगदोसाऽनिद्देस पदत्थसंधिदोसो य । एए उ सुत्तदोसा बत्तीसं होंति नायव्वा ॥ नि. (८८४) वृ- तत्र 'अनृतम्' अभूतोद्भावनं भूतनिह्नवश्च, अभूतोद्भावनं प्रधानं कारणमित्यादि, भूतनिह्नवः - नास्त्यात्मेत्यादि १, 'उपघातजनक' सत्त्वोपघातजनकं, यथा वेदविहिता हिंसा धर्मायेत्यादि २, वर्णक्रमनिर्देशवत् निरर्थकमारादेसादिवत्, आर आत् एस् इत्येते आदेशाः, एतेषु वर्णानां क्रमनिदर्शनमात्रं विद्यते, न पुनरभिधेयतया कश्चिदर्थः प्रतीयते, इत्येवंभूतं निरर्थकमभिधीयते, डित्यादिवद्वा ३, पौर्वापर्यायोगादप्रतिसम्बन्धार्थमपार्थकं, तथा दश दाडिमानि षडपूपाः कुण्डमजाजिनं पललपिण्डः त्वर कीटिके ! दिशमुदीचीं, स्पर्शनकस्य पिता प्रतिसीन इत्यादि ४, वचनविधातोऽर्थविकल्पोपपत्त्या छलं वाक्छलादि, यथा नवकम्बलो देवदत्त इत्यादि ५, द्रोहस्वभावं डुहिलं, यथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy