SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ३० आवश्यक मूलसूत्रम्-१गाथार्थः । उक्तमवधेर्जन्यादिभेदभिन्न क्षेत्रपरिमाणं, क्षेत्रं चावधिगोचरद्रव्याधारद्वारेणैवावधेरिति व्यपदिश्यते, अतः क्षेत्रस्य द्रव्यावधिकत्वात् तदभिधनानन्तरमेव अवधिपरिच्छेदयोग्यद्रव्याभिधित्सयाऽऽहनि. (३८) तेआभासादव्वाण, अंतरा इत्थ लहइ पट्ठवओ। गुरुलहुअअगुरुलअं, तंपि अ तेनेव निवाइ ।। वृ- अवधिश्च जघन्यमध्यमोत्कृष्टभेदभिन्नः, तत्र तावजधन्यावधिपरिच्छेदयोग्यमेवादावभिधीयते-तैजसं च भाषा च तैजसभाषे तयोर्द्रव्याणि तैजसभाषाद्रव्याणि तेषामिति समासः, 'अन्तरात्' इति ‘अर्थाद्विभक्तिपरिणामः' अन्तरे, अथवा 'अन्तरे' इति पाठान्तरमेव, एतदुक्तं भवति-तैजसवारद्रव्याणामन्तर इत्यन्तराले अन तदयोग्यमन्यदेव द्रव्यं लभते' पश्यति, कोऽसावित्यत आह-'प्रस्थापकः' प्रस्थापको नाम अवधिज्ञानप्रारम्भकः, किंविशिष्टं तदिति, अत आह-'गुरुलध्वगुरुलघु' गुरु च लघु च गुरुलघु तथा न गुरुलघु अगुरुलघु, एतदुक्तं भवति-गुरुलघुपर्यायोपेतं गुरुलघु अगुरुलघुपर्यायोपेतं चागुरुलघु इति । तत्र यत्तैजसद्रव्यासनं तद्गुरुलघु, यत्पुनर्भाषाद्रव्यासनं तदगुरुलघु, 'तदपि च' अवधिज्ञानं प्रच्यवमानं सत्पुनः तेनैव द्रव्येणोपलब्धेन सता निष्ठां याति, प्रच्यवतीत्यर्थः । तत्र अपिशब्दात् यत्प्रतिपाति तत्रायं क्रमो, न पुनरवधिज्ञानं प्रतिपात्येव भवतीत्यर्थः, चशब्दस्त्वेवकारार्थः, स चावधारणे, तस्य चैवं प्रयोगः-तदेवावधिज्ञानमेवं प्रच्यवते, न शेषज्ञानानीति गाथार्थः ।। __ आह-कियप्रदेशं तद् द्रव्यं, यत् तैजस-भाषाद्रव्याणामपान्तरालवर्त्ति जघन्यावधिप्रमेयमित्याशङ्कय तद्धि परमाण्वादिक्रमोपचयाद् औदारिकादिवर्गणानुक्रमतः प्रतिपाद्यमिति, अतस्तत्स्वरूपाभिधित्सया गाथाद्वयमाहनि. (३९) ओरालविउव्वाहारतेअभासाणपानमनकम्मे । अह दव्ववग्गणाणं, कमो विवजासओ खित्ते ।। वृ-आह-औदारिकादिशरीरप्रायोग्यद्रव्यवर्गणाः किमर्थं प्ररूप्यन्ते इति, उच्यते, विनेयानामव्यामोहार्थं, तथा चोदाहरणमन-इह भरतक्षेने मगधाजनपदे प्रभूतगोमण्डलस्वामी कुचिकर्णो नाम धनपतिरभूत्, स च तासां गवमतिबाहुल्यात् सहस्त्रादिसंख्यामितानां पृथक् पृथगनुपालनार्थं प्रभूतान् गोपांश्चके, तेऽपि च परस्परसंमिलितासु तासु गोष्वात्मीयाः सम्यगजानानाः सन्तोऽकलहयन्, तांश्च परस्परतो विवदमानानुपलभ्य असौ तेषामव्यामोहा) अधिकरणव्यवच्छित्तये च रक्तशुक्लकृष्णकर्बुरादिभेदभिन्नानां गवां प्रतिगोपं विभिन्ना वर्गणाः खल्ववस्थापितवान् इत्येष दृष्टान्तः, अयमर्थोपनयः-इह गोपपतिकल्पस्तीर्थकृत् गोपकल्पेभ्यः शिष्येभ्यो गोरूपसद्दशं पुद्गलास्तिकार्य परमाण्वाविर्गणावि-भागेन निरूपितवानिति अलं प्रसङ्गन, पदार्थः प्रतिपाद्यते-तत्र औदारिकग्रहणाद् औदारिकशरीरग्रहणयोग्या वर्गणाः परिगृहीताः, ताश्चैवमवगन्तव्याः- इह वर्गणाः सामान्यतश्चतुर्विधा भवन्ति, तद्यथा__द्रव्यतः क्षेत्रतः कालतः भावतश्च, तत्र द्रव्यत एकप्रदेशिकानां यावदनन्तप्रदेशिकानां, क्षेत्रत एकप्रदेशावगाढानां यावसंख्येयप्रदेशावगाढानां, कालत एकसमयस्थितीनां यावदसंख्येयसमयस्थितीनां, भावतस्तावत् परिस्थूरन्यायमङ्गीकृत्य कृष्णानां यावत् शुक्लानां सुरभिगन्धानां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy