________________
आवश्यक मूलसूत्रम् - १
प्ररूप्यते एतावति क्षेत्रे यदि द्रष्टव्यं भवति तदा पश्यति न त्वलोके द्रष्टव्यमस्ति इति गाथार्थः । एवं तावज्जधन्यमुत्कृष्टं चावधिक्षेत्रमभिहितिं, इदानीं विमध्यमप्रतिपिपादयिषया एतावत्क्षेचोपलम्भे चैतावत्कालोपलम्भः, तथा एतावत्कालोपलम्भे चैतावत्क्षेत्रोपलम्भ इत्यस्यार्थस्य प्रदर्शनाय चेदं गाथाचतुष्टयं शास्त्रकार :नि. (३२)
अंगुलमावलियाणं, भागमसंखिज दोसु संखिज्जा । अंगुलमावलिअंतो, आवलिआ अंगुलपुहुत्तं ॥
वृ- 'अङ्गुल' क्षेत्राधिकारात् प्रमाणाङ्गुलं गृह्यते, अवध्यधिकाराच्च उच्छ्रयाङ्गुलमित्येके, 'आलिका' असंख्येयसयमसंघातोपलक्षितः कालः, उक्तं च
२८
—
“असंखिज्जाणं समयाणं समुदयसमितिसमागमेणं सा एका आवलियत्ति बुच्चति" अङ्गुलं चावलिका च अङ्गुलावलिके तयोरङ्गुलावलिकयोः, 'भागं' अंशं असंख्येयं पश्यति अवधिज्ञानी, एतदुक्तं भवति क्षेत्रमङ्गुला संख्येयभागमात्रं पश्यन् कालतः आवलिकाया असंख्येयमेव भागं पश्यत्यतीतमनागतं चेति, क्षेत्रकालदर्शनं चोपचारेणोच्यते, अन्यथा हि क्षेत्रव्यवस्थितानि दर्शनयोग्यानि द्रव्याणि तत्पर्यायांश्च विवक्षितकालान्तरवर्त्तिनः पश्यति, न तु क्षेत्रकालौ, मूर्त्तद्रव्यालम्बनत्वात्तस्येति । एवं सर्वत्र भावना द्रष्टव्या, क्रिया च गाथाचतुष्टयेऽप्यध्याहार्या, तथा 'द्वयोः' अङ्गुलावलिकयोः संख्येयौ भागौ पश्यति, अङ्गुलसंख्येयभागमात्रं क्षेत्रं पश्यन्नावलिकायाः संख्येयमेव भागं पश्यतीत्यर्थः, तथा अङ्गुलं पश्यन् क्षेत्रतः आवलिकान्तः पश्यति, भिन्नामावलिकामित्यर्थः, तथा कालतः आवलिकां पश्यन् क्षेत्रतोऽङ्गुलपृथक्त्वं पश्यति, पृथक्वं हि द्विप्रभृतिरा नवभ्यः इति प्रथमगाथार्थः ॥
नि. (३३)
हत्यमि मुहुत्तंतो, दिवसंतो गाउयंमि बोद्धव्वो ।
जोयण दिवसपुहुत्तं, पक्खतो पनवीसाओ ॥
वृ- 'हस्ते ' इति हस्तविषयः क्षेत्रतोऽवधिः कालतो मुहूर्त्तान्तः पश्यति, भिन्नं मुहूर्तमित्यर्थः, अवध्यवधिमतोरभेदोपचाराद् अवधिः पश्यतीत्युच्यते, तथा कालतो 'दिवसान्तो' भिन्नं दिवसं पश्यन् क्षेत्रतो 'गव्यूतं' इति गव्यूतविषयो बोद्धव्यः, तथा योजनविषयः क्षेत्रतोऽवधिः कालतो दिवस पृथक्त्वं पश्यति, तथा, 'पक्षान्तो' भिन्न पक्षं पश्यन् कालत्ः क्षेत्रतः पञ्चविंशति योजनानि पश्यतीति द्वितीयगाथार्थः ||
नि. (३४)
भरहंमि अद्धमासो, जंबूदीवंमि साहिओ मासो ।
वासं च मनुअलोए, वासपुहुत्तं च रुयगंमि ॥
वृ- 'भरते' इति भरत क्षेत्रविषये अवधौ कालतोऽर्धमास उक्तः, एवं जम्बूद्वीपविषये चावधी साधिको मासः, वर्ष च मनुष्यलोकविषयेऽवधौ इति, मनुष्यलोकः खल्वर्धतृतीयद्वीपसमुद्रपरिमाणः, वर्षपृथक्त्वं चरुचकाख्यबाह्यद्वीपविषयेऽवधाववगन्तव्यमिति तृतीयगाथार्थः || संखिमि उकाले, दीवसमुद्दावि हुंति संखिज्जा ।
नि. (३५)
कालंमि असंखिज्जे, दीवसमुद्दा उ भइयव्वा ॥
वृ- संख्यायत इति संख्येयः, स च संवत्सरलक्षणोऽपि भवति, तुशब्दो विशेषणार्थः, किं विशिनष्टि ? -संख्येयो वर्षसहस्त्रात्परतो भिगृह्यते इति, तस्मिन् संख्येये, 'काले' कलनं काल:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org