________________
२९०
आवश्यक मूलसूत्रम्-१
वृ- यद् यद् यान् यान् भावान् विज्ञानघटादीन् परिणमति प्रयोगविस्त्रसातो द्रव्यं तत्, प्रयोगेन घटादीन् विश्रसातोऽनेन्द्रधनुरादीन्, द्रव्यमेव तदुनेक्षितपर्यायमुत्फणविफणकुण्डलितादिपर्यायसमन्वितसर्पद्रव्यवत्, तथाहि-न तत्र केचनोत्फणादयः सर्पद्रव्यातिरिक्ताः सन्ति, निर्मूलत्वात्, किन्तु तदेव तत्र परमार्थसदिति, किश्च-तत् 'तथैव' अन्वयप्रधान पर्यायोपसर्जनं जानाति परिच्छिनत्ति जिनः 'अपञ्जवे जाणणा नत्थि' त्ति अपर्याये-निराकारे 'जाणणा नत्थि'त्ति परिज्ञा नास्ति, न च ते पर्यायाः तत्र वस्तुनि सन्तो द्रव्यमेव, तदाकारवत्, ततश्च तदेव सत्; केवलिनाऽप्यवगम्यमानत्वात्, केवलस्वात्मवत्, तस्माजीव एव सामायिकमिति गाथार्थः ॥ अथवा 'उप्पजंति' ति इयमेव गाथा द्रव्यार्थिकमतेन व्याख्यायते-द्रव्यार्थिकवादी पर्यायार्थिकवादिनं प्रत्याह-गुणा न सन्त्येव, कुतो?, यस्मादुत्पद्यन्ते व्ययन्ते च, अनेनोत्पादव्ययपरिणामेन परिणमन्ति गुणा एव, न द्रव्याणि, ततश्च तान्येव सन्ति, सततमवस्थितत्वाद्, अपरोपादेयत्वात्, द्रव्यप्रभवाश्च गुणाः परोपादाना वर्तन्ते, न गुणप्रभवाणि द्रव्याण्यपरोपादानत्वात्, तस्मादात्मैव सामायिकमिति गाथार्थः । एवमवगतोभयनयमतचोदक आह-किमत्र तत्त्वमिति ?, अत्रोच्यते-सामायिकभावपरिणतः आत्मा सामायिकं, यस्माद् यत् सत् तद् द्रव्यपर्यायोभयरूपमिति, तथा चागमः-- नि. (७९५) जं जं जे जे भावे परिणमइ पओगवीससा दव्वं ।
तं तह जाणाइ जिनो अपञ्जवे जाणणा नत्थि ॥ वृ-यद् यद् यान् यान् ‘भावान्' आध्यात्मिकान् बाह्यांश्च परिणमति प्रयोगविस्त्रसा द्रव्यं, भावार्थः पूर्ववत्, तत्तथापरिणाममेव जानाति जिनः, अपर्याये परिज्ञा नास्ति, तस्मादुभयात्मकं वस्तु, केवलिना तथाऽवगतत्वादिति गाथार्थः । साम्प्रतं कतिविधमिति द्वारमिति व्याख्यायते, नि. (७९६) सामाइयं च तिविहं सम्मत्त सुयं तहा चरित्तं च ।
दुविहं चेव चरित्तं अगारमनगारियं चेव ॥ - 'सामायिकं प्रागनिरूपितशब्दार्थः, 'चः' पूरणे 'त्रिविधं त्रिभेदं, सम्यक्त्वम्, अनुस्वारलोपात्, श्रुतं तथा चारित्रं, चशब्दः स्वगतानेकभेदप्रदर्शनार्थः, तत्र सम्यक्त्वमिति सम्यक्त्वसामायिकं, तद् द्विविधं-नैसर्गिकमधिगमजं च, अथवा दशविधम्-एकैकस्यी-पशमिकसास्वादनक्षायोपशमिकवेदकक्षायिकभेदभिन्नत्वात्, अथवा त्रिविधं-क्षायिकं क्षायोप-शमिकमौपशमिकं च, कारकरोचकव्यञ्जकभेदं वा, श्रुतमिति श्रुतसामायिकं, तच सूत्रार्थो-भयात्मकत्वात् त्रिविधम्, अक्षरानक्षरादिभेदादनेविधंचेति, चारित्रम्' इति चारित्रसामायिकं, तच्च क्षायिकादि त्रिविधं, सामायिकच्छेदोपस्थाप्यपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातभेदेन वा पञ्चविधम्, अथवा गृहीताशेषविकल्पं द्विविधम् अगारसामायिकमनगारसामायिकंच, तथा चाह–'दुविधं चेव चरित्तं अगारमनगारियं चेव' द्विविधमेव चारित्रं मूलभेदेन, अगा:-- वृक्षास्तैः कृतमगारंगृहं तदस्यास्तीति मतुबलोपादगार:-गृहस्थस्तस्ये दम् आगारिकम्, इदं चानेकभेदं, देशविरतेश्चित्ररूपत्वात्, अनगारः-साधुस्तस्येदम्-आनगारिकं चैव । आह- सम्यक्त्वश्रुतसामायिके विहाय चारित्रसामायिकभेदस्य साक्षादभिधानं किमर्थम् ?, उच्यते, अस्मिन् सति तयोर्नियमेन भाव इति ज्ञापनार्थ, चरमत्वाद्वा यथाऽस्य भेद उक्त एवं शेषयोरपि वाच्य इति ज्ञापनार्थमिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org