________________
२८८
आवश्यक मूलसूत्रम्-१
सामायिकमेव मोक्षमार्गत्वेनानुमन्यन्ते, नेतरे द्वे, तद्भावेऽपि मोक्षाभावात्, तथाहि-समग्रज्ञानदर्शनलाभेऽपि नानन्तरमेव मोक्षः, किन्तु सर्वसंवररूपचारित्रावाप्त्यनन्तरमेव, अतस्तद्भावभावित्वात् तदेव मोक्षमार्ग इति गाथार्थः ।। 'उद्देसे निद्देसे य' इत्याधुपोद्घात-नियुक्तिप्रथमद्वारगाथावयवार्थो गतः, इदानीं द्वितीयद्वारगाथाप्रथमवयवः किमिति द्वारं व्याख्यायते-किं सामायिकं ?, किं तावजीवः ? उताजीवः ? अथोभयम् ? उतानुभयं ?, जीवाजीवत्वेऽपि किं द्रव्यं ? उत गुण इत्याशङ्कासम्भवे सत्याहनि. (७९०) आया खलु सामइयं पच्चक्खायंतओ हवइ आया।
तं खलु पच्चखाणं आवाए सव्वदव्वाणं ।। 'आत्मा' जीवः खलुशब्दोवधारणे, आत्मैव-जीव एव सामायिकमित्य जीवादि-पूर्वोक्तविकल्पव्यवच्छेदः, ‘पच्चक्खायंतओ हवइ आय' त्ति स च प्रत्याचक्षाणः-प्रत्याख्यानं कुर्वन् 'क्रियमाणं कृत' मिति क्रियाकालनिष्ठाकालयोरभेदाद् वर्तमानस्यैवातीतापत्तेः कृतप्रत्याख्यानोऽपि गृह्यते, स एव च परमार्थत आत्मा, श्रद्धानज्ञानसावधनिवृत्तिस्व-स्वभावावस्थितत्वात, शेषः संसारी पुनरात्मैव न भवति, प्रचरघातिकर्मभिस्तस्य स्वाभाविक-गुणतिरस्करणात्, अतो द्वितीयाऽऽत्मग्रहणं, 'तं खलु पच्चक्खाणं' ति खलुशब्दः सामायिकस्य जीवपरिणतित्वज्ञापनार्थः, तत् प्रत्याख्यानं जीवपरिणतिरूपत्वाद्विषयमधिकृत्य 'आवाए सव्वदव्वाणं' ति सर्वद्रव्याणामापाते-आभिमुख्येन समवाये, निष्पद्यत इति वाक्यशेषः, तस्य श्रद्धेयज्ञयक्रियोपयोगित्वात् सर्वद्रव्याणामिति । आह-किं सामायिकमिति स्वरूपप्रश्ने प्रस्तुते सति-विषयनिरूपणमस्यान्याय्यम्, अप्रस्तुतत्वाद्, बाह्यशास्त्रवत्, उच्यते, अप्रस्तुतत्वा-दित्यसिद्धं, तथाहिसामायिकस्य विषयनिरूपेणं प्रस्तुतमेव, सामायिकस्याङ्गभूतत्वात्, सामायिकस्वात्मवदित्यलं विस्तरेण, इति गाथार्थः । तत्र यदुक्तम् ‘आत्मा खलु सामायिक' मिति, तत्र यथाभूतोऽसौ सामायिकं तथाभूतमभिधित्सुराह मूलभाष्यकार:[भा.१४९] सावजजोगविरओ तिगुत्तो छसु संजओ।
उवउत्तो जयमाणो आया सामाइयं होई॥ कृसावद्ययोगविरतः अवघं मिथ्यात्वकषायनोकषायलक्षणं सहावद्येन सावधो योगस्तद्विरतःतद्विनिवृत्तः, त्रिभिः-मनोवाक्कायैर्गुप्तः षट्सु-जीवनिकायेषु संयतः-प्रयत्नवान्, तथाऽवश्यंकर्तव्येषु योगेषु सदोपयुक्तः, यतमानश्च तेष्वेवासेवनया, इत्थम्भूत एवात्मा सामायिकं भवतीति गाथार्थः ॥ साम्प्रतं यदुक्तम् 'तं खलु पच्चक्खाणं आवाए सव्वदव्वाण ति, तत्र साक्षान्यमहाव्रतरूपं चारित्रसामायिकमधिकृत्य सर्वद्रव्यविषयतामष्योपदर्शयन्नाह-- नि. (७९१) पढमंमि सव्वजीवा बिरूइ चरिमे य सव्वदव्वाई।
. सेसा महव्वया खलु तदेकदेसेण दव्वाणं ॥ वृ-'प्रथमे' प्राणातिपातनिवृत्तिरूपे व्रते विषयद्वारेण चिन्त्यमाने 'सर्वजीवाः' त्रसस्थावरसूक्ष्मेतरभेदा विषयत्वेन द्रष्टव्याः, तदनुपालनरूपत्वात् तस्येति, तथा 'द्वितीये' मृषावादनिवृत्तिरूपे 'चरिमे च' परिग्रहनिवृत्तिरूपे सर्वद्रव्याणि विषयत्वेन द्रष्टव्यानि, कथम् ?, नास्ति पञ्चास्तिकायात्मको लोक इति मृषावादस्य सर्वद्रव्यविषयत्वात्, तन्निवृत्तिरूपत्वाच द्वितीयव्रतस्य,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org