________________
आवश्यक मूलसूत्रम्-१ततश्च गत्यादि च द्वारजालमवधौ वक्तव्यमिति । तथा प्राप्तद्धर्यनुयोगश्च कर्त्तव्यः, अनुयोगोऽन्वाख्यानं, एवमनेन प्रकारेण 'एता' अनन्तरोक्ताः 'प्रतिपत्तयः' प्रतिपादनानि, प्रतिपत्तयः परिच्छित्तय इत्यर्थः, ततश्चावधिप्रकृतय एव प्रतिपत्तिहेतुत्वात् प्रतिपत्तय इत्युच्यन्त इति गाथाद्वयसमुदायार्थः । साम्प्रतमनन्तरोक्तद्वारगाथाद्वयाद्यद्वारव्याचिख्यासयेदमाहनि. (२९) नामं ठवणादविए, खित्ते काले भवे य भावे य ।
एसो खलु निक्खेवो ओहिस्सा होइ सत्तविहो । वृतत्र नाम पूर्वं निरूपितं, नाम च तदवधिश्च नामावधिः, यस्यावधिरिति नाम क्रियते, यथा मर्यादायाः । तथा स्थापना चासाववधिश्च स्थापनावधिः, अक्षादिविन्यासः । अथवा अवधिरेव च यदभिधानं वचनपर्यायः स नामावधिः, स्थापनावधिर्यः खलु आकारविशेषः तत्तद्रव्यक्षेत्रस्वामिनामिति । तथा द्रव्येऽवधिव्यावधिः, द्रव्यालम्बन इत्यर्थः । अथवाऽयं एकारान्तः शब्दः प्रथमान्त इतिकृत्वा द्रव्यमेवावधिव्यावधिः, भावावधिकारणं द्रव्यमित्यर्थः, यद्वोत्पद्यमानस्योपकारकं शरीरादि तदवधिकारणत्वाद् द्रव्यावधिः । तथा क्षेत्रेऽवधिः क्षेत्रावधिः, अथवा यत्र क्षेत्रेऽवधिरुत्पद्यते तदेवावधेः कारणत्वात क्षेत्रावधिः, प्रतिपाद्यते वा । तथा कालेऽवधिः, कालावधिः, अथवा यस्मिन् काले अवधिरुत्पद्यते कथ्यते वा स कालावधिः, भवनं भवः, स च नारकादिलक्षणः, तस्मिन् भवेऽवधिर्भवावधिः । भावः क्षायोपशमिकादिः द्रव्यंपर्यायो वा, तस्मिन्नवधिः भावावधिः, चशब्दी समुच्चयाओं, 'एषः' अनन्तरव्यावर्णितः, खलुशब्दः एवकारार्थः, स चावधारणे, एष एव, नान्यः, निक्षेपणं निक्षेपः, अवधेर्भवति "सप्तविधः' सप्तप्रकार इति गाथार्थः । इदानी क्षेत्रपरिमाणाख्यद्वितीयद्वारावयवार्थमाहनि. (३०) जावइया तिसमयाहारगस्स सुहमस्स पणगजीवस्स ।
ओगाहणा जहन्ना, ओहीखित्तं जहन्नं तु ॥ वृ. तत्र क्षेत्रपरिमाणं जघन्यमादौ अतस्तदेव तावप्रतिपाद्यते-'यावती' यत्परिमाणा, त्रीन्समयान् आहारयतीति त्रिसमयाहारकस्तस्य, सूक्ष्मनामकर्मोदयात् सूक्ष्मः तस्य, पनकश्चासौ जीवश्च पनकजीवः वनस्पतिविशेष इत्यर्थः, तस्य, अवगाहन्ति यस्यां प्राणिनः सा अवगाहना तनुरित्यर्थः, 'जघन्या' सर्वस्तोका, अवधेः क्षेत्रं अवधिक्षेत्रं, 'जघन्य' सर्वस्तोकं, तुशब्द एवकारार्थः, स चावधारणे, तस्य चैवं प्रयोगः-अवधेः क्षेत्रं जघन्यमेतावदेवेति गाथाक्षरार्थः । अत्र च संप्रदायसमधिगम्योऽयमर्थः
योजनसहस्त्रमानो मत्स्यो मृत्वा स्वकायदेशे यः ।
उत्पद्यते हि सूक्ष्मः, पनकत्वेनेह स ग्राह्यः ॥ संहृत्य चाद्यसमे, स ह्यायामं करोति च प्रतरम् ।
संख्यातीताख्याङ्गुलभिागबाहुल्यमानं तु ।। खकतनुपृथुत्वमात्रं, दीर्घत्वेनापि जीवसामर्थ्यात् । तमपि द्वितीयसमये, संहृत्य करोत्यसौ सूचिम् ।। संख्यातीताख्याङ्गुलविभागविष्कम्भमाननिर्दिष्टाम् । निजतनुपृथुत्वदैर्ध्या, तृतीयसमये तु संहृत्य ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org