________________
२४८
आवश्यक मूलसूत्रम्-१
तीतत्वात्, क्षायिकज्ञानदर्शने तु सादिरपर्यवसाने इति, अन्ये तु द्वितीयभङ्ग एव सर्वमिदं प्रतिपादयन्ति । उक्तः क्षायिकः, क्षायोपशमिकचतुर्भङ्गिकायां द्वितीयभङ्गशून्यानां शेषभङ्गानामयं विषयः-चत्वारि ज्ञानानि क्षायोपशमिको भावः सादिसपर्यवसानः, मत्यज्ञानश्रुताज्ञाने भव्यानामनादिसपर्यवसाने, एते एवाभव्यानां चरमभङ्ग इति । उक्तः क्षायोपशमिकः, पारिणामिकचतुङ्गिकायां द्वितीयभङ्गशून्यानां शेषभङ्गानामयं गोचरः-पुद्गलकाये ट्यणुकादिः पारिणामिको भावः सादिसपर्यवसानः, भव्यत्वं भव्यानामनादिः सपर्यवसानः, जीवत्वं पुनः चरमभङ्ग इति, उक्तः पारिणामिकः । उक्तार्थसङ्ग्रहगाथा
बीयं दुतियादीया भंगा वजेत्तु बिइययं सेसे ।
भवमिच्छसम्मचरणे दिट्ठीनाणेतराणुभव्वजिए ।। नि. (७३३) एत्थं पुण अहिगारो पमाणकालेन होइ नायव्यो ।
खेत्तंमि कमि काले विभासियं जिनवरिंदेणं?॥ वृ- 'अत्र पुनः' अनेकविधकालप्ररूपणायाम् ‘अधिकारः' प्रयोजनं प्रस्तावः प्रमाणकालेन भवति ज्ञातव्यः । आह-'दब्वे अद्ध' इत्यादिद्वारगाथायां 'पगयं तु भावेणंती' त्युक्तं, साम्प्रतमत्र पुनरधिकारः प्रमाणकालेन भवति ज्ञातव्य इत्युच्यमानं कथं न विरुद्ध्यत इति ?, उच्यते, क्षायिकभावकाले भगवता प्रमाणकाले च पूर्वाह्ने सामायिकं भाषितमित्य विरोधः । अथवा प्रमाणकालोऽपि भावकाल एव, तस्याद्धाकालस्वरूपत्वादित्यलं विस्तरेणेति । 'उद्देसे निद्देसे ये' त्याद्युपोद्घातनियुक्तिप्रतिबद्धद्वारगाथाद्वयस्य व्याख्यातं कालद्वारमिति । साम्प्रतं यत्र क्षेत्रे भाषितं सामायिकं तद्जानन् प्रमाणकालस्य चानेकरूपत्वाद्विशेषमजानन् गाथापश्चार्द्धमाह चोदकः-'खेत्तंमि कमि काले विभासियं जिनवरिदेण' ? इति गाथार्थः ॥
चोदकप्रश्नोत्तरप्रतिपिपादयिषयाऽऽहनि. (७३४) वइसाहसुद्धएक्कारसीऍ पुव्वण्हदेसकालंमि ।
महसेणवणुज्जाणे अनंतरं परंपरं सेसं ॥ वृ-वैशाखशुद्धैकादश्यां पूर्वाह्वदेशकाले' प्रथमपौरुष्यामिति भावार्थः । कालस्यान्तरङ्गत्वख्यापनार्थमेव प्रश्नव्यत्ययेन निर्देशः । महसेनवनोद्याने क्षेत्रे अनन्तरनिर्गमः सामायिकस्य, ‘परम्परं सेसं' ति शेष क्षेत्रजातमधिकृत्य परम्परनिर्गमस्तस्येति, आह च भाष्यकार:-"खेत्तं महसेणवणोवलक्खियं जत्थ निग्गयं पुब्बिं । सामाइयमन्नेसु य परंपरविनिगमो तस्स ॥" इति गाथार्थः । गतं मूलद्वारगाथद्वयप्रतिबद्धं क्षेत्रद्वारम्; इह च क्षेत्रकालपुरुषद्वाराणां निर्गमाङ्गता व्याख्यातैव, ततश्च निर्गमद्वारव्याचिख्यासयाऽऽह-'नामं ठवणा दविए खेत्ते काले तहेव भावे य । एसो उ निग्गमस्सानिक्खेवो छव्विहो होइ' त्ति येयं गायोपन्यस्ता अस्य एव भावनिर्गमप्रतिपादनायाह नियुक्तिकारःनि. (७३५) खइयंमि वट्टमाणस्स निग्गय भयवओ जिणिंदस्स ।
भावे खओवसमियंमि वट्टमाणेहिं तं गहियं ।। वृक्षायिके वर्तमानस्य भगवतो निर्गतं जिनेन्द्रस्य भावे, भावशब्दः उभयथाऽप्यभिसम्बध्यते, भावे क्षायोपशमिके वर्तमानैः 'तत्' सामायिकमन्यच्च श्रुतं गृहीतं, गणधराधिभिरिति गम्यते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org