________________
२३७
उपोद्घातः - [नि.६९१] नि. (६९१) आवस्सियं च नितो जं च अइंतो निसीहियं कुणइ ।
एवं इच्छं नाउं गणिवर ! तुभंतिए निउणं ॥ वृ- शिष्यः किलाह-'आवस्सिय'ति आवश्यिकी-पूर्वोक्ता तामावश्यिकी च 'निन्तो' निर्गच्छन् यां च 'अतिंतो' त्ति आगच्छन्, प्रविशन्नित्यर्थः, नैषेधिकीं करोति, 'एतद्' आवश्यिकीनषेधिकीद्वयमपि स्वरूपादिभेदभिन्न इच्छामि ज्ञातु हे गणिवर ! युष्मदन्तिके 'निपुणं' सूक्ष्मं ज्ञातुमिच्छामीति क्रियाविशेषणमिति गाथार्थः ॥ एवं शिष्येणोक्ते सत्याहाचार्यःनि. (६९२) आवस्सियं च नितो जं च अइंतो निसीहियं कुणइ ।
वंजणमेयं तु दुहा अत्यो पुन होइ सो चेव ॥ वृ-आवश्यिकी च निर्गच्छन् यां च प्रविशन्नैषेधिकीं करोति, 'व्यञ्जन' शब्दरूपं 'एतं तु दुह'त्ति एतदेव शब्दरूपं द्विधा, अर्थः पुनर्भवत्यावश्यिकीनषेधिक्योः ‘स एवं एक एव, यस्मादवश्यंकर्तव्ययोगक्रियाऽऽवश्यिकी निषिद्धात्मनश्चातिचारेभ्यः क्रिया नैषेधिकीति, न ह्यसावयवश्यं कर्तव्यं व्यापारमुल्लङ्घय प्रवर्तते, आह-यद्येव भेदोपन्यासः किमर्थम् ?, उच्यते, क्वचित् स्थितिगमनक्रियाभेदादभिधानभेदाचेति गाथार्थः ॥ आह-आवश्यिकी च निर्गच्छ' नित्युक्तं, तत्र साधोः किमवस्थानं श्रेय उताटनमिति ?, उच्यते, अवस्थानमिति, कथम् ?, यत आहनि. (६९३) एगग्गस्स पसंतस्स न होति इरियाइया गुणा होति ।
गंतव्यमवस्सं कारणमि आवस्सिया होई॥ - एकमग्रम्-आलम्बनमस्येत्येकाग्रस्तस्य, स चाप्रशस्तालम्बनोऽपि भवत्यत आह'प्रशान्तस्य' क्रोधरहितस्य तिष्ठतः, किम ?, न भवन्ति ईर्यादयः, ईरणमी--गमनमियः, इहै-कार्यं कर्म ई-शब्देन गृह्यते, कारणे कार्योपचाराद्, ई- आदौ येषामात्मसंयमविराधनादीनां दोषाणां ते ईर्यादयो न भवन्ति तथा 'गुणाश्च स्वाध्यायध्यानादयो भवन्ति, प्राप्तं तहिं संयतस्यागमनमेव श्रेय इति तदपवादमाह-न चावस्थाने खलूक्तगुणसम्भवान्न गन्तव्यमेव, किन्तु 'गन्तद्यमवरसं कारणमि गन्तव्यम् 'अवश्यं नियोगतः 'कारणे' गुरुग्लानादिसम्बन्धिनि, यतस्तत्रागच्छतो दोषा इति, तथा च कारणे गछतः ‘आवस्सिया होइ' आवश्यिकी भवतीति गाथार्थः ।। आह-कारणन गच्छतः किं सर्वस्यैवावश्यकी भवति उत नेति?, नेति, कस्य तर्हि ?, उच्यते,.नि. (६९४) आवस्सिया उ आवस्सएहिं सव्वेहिं जुत्तजोगिस्स।
मनवयणकायगुतिंदियस्स आवस्सिया होइ ।। वृ-आवश्यिकी तु आवश्यकैः' प्रतिक्रमणादिभिः सर्वैर्युक्तयोगिनो भवति, शेषकालमपि निरतिचारस्य क्रियास्थस्येति भावार्थः, तस्य च गुरुनियोगादिना प्रवृत्तिकालेऽपि 'मन' इत्यादि पश्चार्द्ध मनोवाकायेनिद्रयैर्गुप्त इति समासः, तस्य, किम्? - आवश्यिकी भवति, इन्द्रियशब्दस्य गाथाभङ्गमयाव्यवहितोपन्यासः, कायात्पृथगिन्द्रियग्रहणं प्राधान्यख्यापनार्थम्, अस्थि चायं न्यायः-'सामान्यग्रहणे सत्यपि प्राधन्यख्यापनार्थं भेदेनोपन्यासो' यथा-ब्राह्मणा आयाता वशिष्टोऽप्यायात इति गाथार्थः ।। उक्ताऽऽवश्यिकी, साम्प्रतं नैषेधिकी प्रतिपादयन्नाह--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org