SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः - [ नि.६४८] वृ- वसुभूतिः धनमित्रः धर्मिलः धनदेवः मौर्यश्चैव देवः वसुश्च दत्तः बलश्च पितरो गणधराणां, तत्र त्रयाणामाद्यानामेक एव पिता, शेषाणां तु यथासङ्ख्यमन्येषां, नवरं विजयदेवा मण्डिकमौर्य्ययोः पितृभेदेन द्वयोर्माता, धनदेवे पञ्चत्वमुपगते मौर्येण गृहे धृता सैव, अविरोधश्च तस्मिन् देश इति गाथार्थः ॥ गोत्रद्वारप्रतिपादनाय आह नि. (६४९) तिन्नि य गोयमगोत्ता भारद्दा अग्गिवेसवासिट्ठा । कासवगोयमहारिय कोडिण्णदुगं च गोत्ताई || वृ- त्रयश्च गौतम गोत्राः इन्द्रभूत्यादयः, भारद्वाजाग्निवैश्यायनवाशिष्टाः यथायोगं व्यक्तसुधर्ममण्डिकाः, काश्यपगौतमहारीतसगोत्राः मौर्याकम्पिकाचलनातर इति, कौण्डिन्यसगोत्री द्वौ तार्यप्रभासावित्येतानि गणधराणां गोत्राणीति गाथार्थः ॥ अगारपर्याय-द्वारव्याचिख्यासयाऽऽह नि. (६५०) पन्ना छायालीसा बायाला होइ पण्ण पन्ना य । तेवन्न पंचसट्ठी अडयालीसा य छायाला ॥ वृ- पञ्चाशत् षट्वात्वारिंशत् द्विचत्वारिंशत् भवति पञ्चाशत् पञ्चाशञ्च त्रिपञ्चाशत् पञ्चषष्टिः अष्टचत्वारिंशत् षट्चत्वारिंशत् इति गाथार्थः ॥ नि. (६५१) छत्तीसा सोलसगं अगारवासो भवे गणहराणं । छउमत्थयपरियागं अहकंमं कित्तइस्सामि ॥ वृ- षट्त्रिंशत् षोडशकम् ' अगारवासो' गृहवासो यथासङ्ख्यम् एतावान् गणधराणाम् इति गाथार्द्धम् । अनन्तरद्वारावयवार्थप्रतिपिपादयिषयाऽऽह पश्चाद्ध छद्मस्थपर्यायं यथाक्रमं ' यथायोगं कीर्त्तयिष्यामि इति गाथार्थः ॥ नि. (६५२) तीसा बारस दसगं बारस बायाल चोद्दसदुगं च । नवगं बारस दस अट्ठगं च छउमत्थपरियाओ | वृ- गाथेयं निगदसिद्धा || केवलिपर्यायपरिज्ञानोपायप्रतिपादनायाह-नि. (६५३) छउमत्थपरीयागं अगारवासं च वोगसित्ता णं । सव्वाउगस्स से जिनपरियागं वियाणाहि || वृ- छद्मस्थपर्यायम् अगारवासं च व्यवकलभ्य सर्वायुष्कस्य शेषं जिनपर्यायं विजानीहीति गाथार्थः । स चायं जिनपर्यायः नि. (६५४) बारस सोस अट्ठारसेव अट्ठारसेव अद्वेव । सोलस सोल तहेकवीस चोद्द सोले य सोलेय ।। वृ- निगदसिद्धा । सर्वायुष्कप्रतिपादनायाहनि. (६५५ ) बानउई चहत्तर सत्तरि तत्तो भवे असीई य । नि. (६५६) एगं च सय तत्तो तेसीई पंचनउई य ॥ अट्ठत्तरिं च वासा तत्तो बावत्तरिं च वासाइं । बावट्ठी चत्ता खलु सव्वगणहराउयं एयं ॥ - गाथाद्वयं निगदसिद्धमेव || आगमद्वारावयवार्थं प्रतिपादयन्नाह For Private & Personal Use Only २२७ Jain Education International www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy