________________
उपोद्घातः - [ नि.६३६ ]
२२५
च धर्मिग्रहणे धर्माग्रहणं युज्यते, इतश्च देहादन्यच्चैतन्यं, चलनादिचेष्टानिमित्तत्वात्, इह यद्यस्य चलनादिचेष्टानिमित्तं तत्ततो भिन्नं दृष्टं यथा मारुतः पादपादिति, ततश्च चैतन्यस्याऽऽमधर्मत्वात्तस्य चानादिमत्कर्मसन्तति-समालिङ्गितत्वात् उत्पादव्ययध्रौव्ययुक्तत्वात्कर्मपरिणामापेक्षमनुष्यादिपर्यायनिवृत्त्या देवादिपर्यायान्तरावाप्तिरस्याविरुद्धेति, नित्यानित्यैकान्तपक्षोक्तदोषानुपपत्तिश्चात्रानभ्युपगमात् इति ।
नि. (६३७)
छिन्नंमि संसयंमी जिनेन जरमरणविप्पमुक्केणं । सो समणो पव्वइओ तिहि उ सह खंडियसएहिं ॥ वृ- व्याख्या-- पूर्ववत् । दशमो गणधरः समाप्तः । नि. (६३८)
ते पव्वइए सोउं पभासो आगच्छई जिनसगासं । वच्चामि न वंदामि वंदित्ता पजुवासामि ॥
वृ- व्याख्या - पूर्वबन्नवरं प्रभासः आगच्छतीति । नि. (६३९)
भट्ठो य जिणं जाइजरामरणविप्यमुक्केणं । नामेण य गोत्तेण य सव्वष्णू सव्वदरिसीणं ॥ वृ- सपातनिका व्याख्या पूर्ववदेव । नि. (६४०)
किं मन्ने निव्वाणं अत्थि नत्यित्ति संसओ तुज्झं । वेयपयाण उ अत्यं न याणसि तेसिमो अत्थो ||
वृ- किं निर्वाणमस्ति नास्तीति मन्यसे, व्याख्यान्तरं पूर्ववत्, अयं च संशयस्तव विरुद्धवेदपद श्रुतिसमुत्थो वर्त्तते, शेषं पूर्ववत् । तानि चामूनि वेदपदानि- 'जरामर्य्यं वा एतत्सर्वं यदग्निहोत्रं' तथा 'द्वे ब्रह्मणी वेदितव्ये, परमपरं च तत्र परं सत्यं ज्ञानमनन्तं ब्रह्मेति, एतेषां चायमर्थस्तव मतौ प्रतिभासते-अग्निहोत्रक्रिया भूतवधोपकारभूतत्वात् शबलाकारा, जरामय्यवचनाच्च तस्याः सदाकरणमुक्तं, सा चाम्युदयफला, कालान्तरं च नास्ति बस्मिन्नर्गप्रापणक्रियारम्भ इति, तस्मात्साधनाभावान्नास्ति मोक्षः, ततश्चामूनि मोक्षाभावप्रतिपादकानि, शेषाणि तु तदस्तित्वपापकानीत्यतः संशयः, तथा संसाराभावो मोक्षः, संसारश्च तिर्यग्ररनारकामरभवरूपः, तद्भावानतिरिक्तञ्चात्मा, ततश्च तदभावे आत्मनोऽप्यभाव एवेति कुतो मोक्षः ? 1 तत्र वेदानां चार्थं न जानासि तेषामयमर्थ:- 'जरामर्य्यं वा' वाशब्दोऽप्यर्थ ततश्च यावज्जीवमपि, न तु नियोगत इति, ततश्चापवर्गप्रापणक्रियारम्भकालास्तिताऽनिवार्य्या, न च संसाराभावे तदव्यक्तिरिक्तत्वात् आत्मनोऽप्यभावो युज्यते, तस्मात्मपर्यायरूपत्वात् न च पर्यायनिवृत्तौ पर्यायिणः सर्वथा निवृत्तिरिति, तथा च हेमकुण्डलयोरनन्यत्वं, न च कुण्डलपर्यायनिवृत्तौ हेनोऽपि सर्वथा निवृत्तिः, तथाऽनुभवात्, इत्थं चैतदङ्गीकर्तव्यम्, अन्यथा पर्यायनिवृत्तौ पर्यायिणः सर्वथा निवृत्त्यभ्युपगमे पर्यायान्तरानुपपत्तिः प्राप्नोति, कारणाभावात्, तदभावस्य च सर्वदाऽविशिष्टत्वात्, तस्मात्संसारनिवृत्तावप्यात्मनो भावात् वस्तुस्वरूपो मोक्ष इति ।
नि. (६४१ )
छिन्नंमि संसयंमी जिनेन जरमरणविप्पमुक्केणं । सो समणो पव्वइओ तिहि उ सह खंडियसएहिं ||
24 15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org