________________
उपोद्घातः - [ नि.६२९]
वृ- पूर्ववत्रवरं त्रिभिः सह खण्डिकशतैरिति ॥ अष्टमो गणधरः समाप्तः ॥ नि. (६३०) ते पव्वइए सोउं अयलभाया आगच्छइ जिनसगासं । वच्चामि न वंदामी वंदित्ता पज्जुवासामि ॥ वृ- पूर्ववत्रवरम् - अचलभ्राता आगच्छति जिनसकाशमिति । नि. (६३१) आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीणं ॥ वृ- सपातनिका पूर्ववत् ।
नि. (६३२ ) किं मत्रि पुण्णपावं अत्थि न अत्यित्ति संसओ तुज्झं । वेपयाण य अत्यं न याणसी तेसिमो अत्थो ॥
२२३
वृ- किं पुण्यपापे स्तः न वा ? मन्यसे, व्याख्यान्तरं पूर्ववत्, अयं च संशयस्तव विरुद्धवेदपदश्रुतिप्रभवो दर्शनान्तरविरुद्धश्रुतिप्रभवश्च तत्र वेदपदानां चार्थ न जानासि चशब्दाद्युक्ति हृदयं च तेषामयमर्थ इत्यक्षरार्थः । तानि चामूनि वेदपदापि - 'पुरुष एवेदं नि सर्व' मित्यादीनि यथा द्वितीयगणधरे, व्याख्यापि तथैव, स्वभावोपन्यासोऽपि तथैव, तथा सौम्याचलभ्रातः ! त्वमित्थं मन्यसे दर्शनविप्रपत्तिश्चात्र, तंत्र केषाञ्चिद्दर्शनम् - पुण्यमेवैकमस्ति न पापं तदेव चावाप्तप्रकर्षावस्थं स्वर्गाय क्षीयमाणं तु मनुष्यतिर्यग्रारकादिभवफलाय, तदशेषक्षयाच्च मोक्ष इति यताऽत्यन्तपथ्याहारा सेवनादुत्कृष्टमारोग्यसुखं भवति, किञ्चित्किञ्चित्पथ्याहार-परिवर्जनाचारोग्यसुखहानि:, अशेषाहारपरिक्षयाच्च सुखाभावकल्पोऽपवर्गः, अन्येषां तु पापमेवैकं, न पुण्यमस्ति तदेव चोत्तमावस्थामनुप्राप्तं नारकभवायालं, क्षीयमाणं तु तिर्यग्ग्ररामर-भवाये ति, तदत्यन्तक्षयाच्च मोक्ष इति, यथा अत्यन्तापथ्याहारसेवनात्परमनारोग्यं, तस्यैव किञ्चित्किञ्चिदपकर्षादारोग्यसुखम्, अशेषपरित्यागान्मृतिकल्पो मोक्ष इति अन्येषां तूभय-मप्यन्योऽन्यानुविद्धस्वरूपकल्पं सम्मिश्रसुखदुःखाख्यफलहेतुभूतमिति, तथा च किल नैकान्ततः संसारिणः सुखं दुःखं चास्ति, देवानामपीर्ष्यादियुक्तत्वात्, नारकाणामपि च पञ्चेन्द्रियत्वानुभवाद्, इत्थंभूतपुण्यपापाख्यवस्तुक्षयाञ्च्चापवर्ग इति,
अन्येषां तु स्वतन्त्रमुभयं विविक्तसुखदुःखकारणं, तत्क्षयाञ्च्च निःश्रेयसावाप्तिरिति, अतो दर्शनानां परस्परविरुद्धत्वात्, अप्रमाणत्वादस्मिन्विषये प्रामाण्याभाव इति तेऽभिप्रायः, 'पुण्यः पुण्येनेत्यादिना प्रतिपादिता च तत्सत्ता, अः संशयः, तत्र वेदपदानां चार्थं न जानासि, तेषामयमर्थः यथा द्वितीयगणधरे तथा स्वभावनिराकरणयुक्तो वक्तव्यः, सामान्यकर्मसत्तासिद्धिरपि तथैव वक्तव्या, यच्च दर्शनानामप्रामाण्यं मन्यसे, परस्परविरुद्धत्वाद्, एतदसाम्प्रतम्, एकस्य प्रमाणत्वात्, तथा च पाटलिपुत्रादिस्वरूपाभिधायकाः सम्यक् तद्रूपाभिधायकयुक्ताः परस्परविरुद्धवचसोऽपि न सर्व एवाप्रमाणतां भजन्ते तत्र यत्प्रमाणं तदप्रमाणनिरासद्वारेण प्रदर्शयिष्यामः, तत्र न तवापुण्यमेवापचीयमानं दुःखकारणं, तस्य सुखहेतुत्वेनेष्टस्वात्, स्वल्पस्यापि स्वल्पसुखनिर्वर्तकत्वात्, तथा चाणीयसो हेमपिण्डादणुरपि सौवर्ण एव घटो भवति, न मार्त्तिक इति, न च तद्भावो दुःखहेतुः, तस्य निरुपाख्यत्वात् न च सुखाभाव एव स्वसत्ताविकलो दुःखं, तस्यानुभूयमानत्वात्, ततश्च स्वानुरूपकारणपूर्विका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org