________________
उपोद्घातः - [नि.६०४]
कत्वानुपपत्तेः, न च शुद्धस्य देहकरणेच्छा युज्यते, तस्या रागविकल्पत्वात्, तस्मात् कर्मसद्वितीयः पुरुषः कर्ता इति। _ न च तत्कर्म प्रत्यक्षप्रमाणगोचरातीतं, मप्रत्यक्षत्वात्, त्वत्संशयवत्, भवतोऽपि अनुमानगोचरत्वात्, तच्चेदमनुमानम्-शरीरान्तरपूर्वकं बालशरीरं, इन्द्रियादिमत्त्वात्, युवशरीरवत्, न च जन्मान्तरातीतशरीरपूर्वकमेवेदं, तस्यापान्तराल-गतावभावेन तत्पूर्वकत्वानुपपत्तेः, न चाशरीरिणो नियतगर्भदेशस्थानप्राप्तिपूर्वकः शरीरग्रहो युज्यते, नियामककारणाभावात्, न स्वभाव एव नियामको, वस्तुविशेषाकारणतावस्तुधर्मविकल्पानुपपत्तेः, स्वभावो हि वस्तुविशेषो वा स्यादकारणता वा वस्तुधर्मो वा?, न तावत् वस्तुविशेषः, अप्रमाणकत्वात्, किं च-स मूर्ती वा स्यादमूर्तो वा ?, यदि मूर्तः, कर्मणोऽस्य च न कश्चिद्भेदः, कम्मैव सज्ञान्तरवाच्यं तत्, अथ अमूर्तो, न तर्हि नियामको देहकारणं वा, अमूर्तत्वात्, गगनवत्, तथाहि-नामूर्तान्मूर्तप्रसूतिरिति, न चाकारणता स्वभावः, कारणाभावस्याविशिष्टत्वात् युगपदेषदेहसंभवप्राप्तेः, अकारणताविशेषाभ्युपगमे च तद्भावप्रसङ्गः, न च वस्तुधर्मः स्वभावः, आत्माख्यवस्तुधर्मत्वेन अमूर्तत्वात्, गगनवत्, तस्य देहादिकारणत्वानुपपत्तेः, मूर्तवस्तुधर्मत्वे पुनरसौ न पुद्गलपर्यायमतिवर्तते, कर्मापि च पुद्गलपर्यायानन्यरूपमेव इत्यविप्रतिपत्तिरिति, तस्मात् यच्छरीरपूर्वकं बालशरीरं तत्कार्मणमिति, आगमगम्यं च एतत्, 'पुण्यः पुण्येन पापः पापेन कर्मणा' इत्यादिश्रुतिवचनप्रामाण्यात्, तथा अमूर्तस्यापि आत्मनो विशिष्टपरिणामवतः मूर्तकर्मपुद्गलसम्बन्धोऽविरुद्ध एव, आकाशस्येव घटादिसंयोग इति, तथा अमूर्तस्यापि मूर्तकृतावुपघातानुग्रहावविरुद्धौ, विज्ञानस्य मदिरापानौषधादिभिः उपघातानुग्रहदर्शनात, इत्यलं प्रसङ्गेनेति। नि. (६०५) छिनमि संसयंमी जिनेन जरमरणविप्पमुक्केणं ।
सो समणो पब्बइओ पंचहि सह खंडियसएहिं ।। वृ- इत्थं छिन्ने संशये जिनेन जरामरणविप्रमुक्तेन स श्रमणः प्रव्रजितः पञ्चभिः सह खण्डिकशतैः, भावार्थः सुगम इति गाथार्थः ।। द्वितीयो गणधरः समाप्तः ।। नि. (६०६) ते पव्वइए सोउं तइओ आगच्छई जिनसगासं ।
वच्चामि न वंदामी वंदित्ता पञ्जुवासामि ॥ कृ'तो' इन्द्रभूतिअग्निभूती प्रव्रजितौ श्रुत्वा तृतीयो वायुभूतिनामा आगच्छति जिनसकाशं, उभयनिष्क्रमणाकर्णनादपेताभिमानः सातसर्वज्ञप्रत्ययः खलु अत एवाहं व्रजामि, णमिति वाक्यालङ्कारे, वन्दे भगवन्तं, तथा वन्दित्वा पर्युपासयामि इति गाथार्थः ।। इति सञ्जातसङ्कल्पो भगवत्समीपं गत्वा अभिवन्ध च भगवन्तं तदनतस्तस्थी, अत्रान्तरेनि. (६०७) आभट्टो य जिणेणं जाइजरामरणविप्पमुक्केणं ।
नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीणं ।। वृ- पूर्ववत् ॥ इत्थमपि संलप्तौ हृद्गतं संशयं प्रष्टुं क्षोभादसमर्थो भगवताऽभिहितःनि. (६०८) तज्जीवतस्सरीरंति संसओ नवि य पुच्छसे किंचि ।
__ वेयफ्याण य अत्यं न जाणसी तेसिमो अस्थो । वृ-स जीवः तदेव शरीरमिति, एवं संशयस्तव, नापि च पृच्छसि किञ्चित् विदिताशेषतत्त्वम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org