________________
२१३
-
उपोद्घातः - [नि.६००] यामयमर्थः-विज्ञानधन एवेति ज्ञानदर्शनोपयोगरूपं विज्ञानं ततोऽनन्यत्वात् आत्मा विज्ञानघनः, प्रतिप्रदेशमनन्तविज्ञानपर्यायसङ्घातात्मकत्वाद्वा विज्ञानधनः, एवशब्दोऽवधारणे, विज्ञानघनानन्यत्वात् विज्ञानघन एव, ‘एतेभ्यो भूतेभ्यः' क्षित्युदकादिभ्यः समुत्याथ' कथञ्चिद्भूत्वा इति हृदयं, यतो न घटाद्यर्थरहितं विज्ञानमुत्पद्यते, न च भूतधर्म एव विज्ञानं, तदभावे मुकयवस्थायां भावात्, तद्भावेऽपि मृतशरीरादावभावात्, न च वाच्यं घटसत्तायामपि नवतानिवृत्तौ शरीरभावेऽपि चैतन्य-निवृत्तेः नवतावद्भूतधर्मता चैतन्यस्य, घटस्य द्रव्यपर्यायी-भयरूपत्वे सति सर्वथा नवताऽनिवृत्तैः, न च इत्थं देहाच्चैतन्यस्यानिवृत्तिः,
तथा श्रुतावयुक्तम्- "अस्तमिते आदित्ये याज्ञवल्क्यः चन्द्रमस्यस्तमिते शानतेऽग्नौ शान्तायां वाचि किंज्योतिरेवायं पुरुषः, आत्मा ज्योतिः सम्राट् इतिहोवाच," तान्येव हि भूतानि विनाशव्यवधानाभ्यां ज्ञेयभावेन विनश्यन्ति, अनु-पश्चात् विनश्यति अनुविनश्यति, स च विवक्षितविज्ञानाऽऽत्मना उपरमते भाविविज्ञानात्मना उत्पद्यते सामान्यविज्ञानसन्तत्या द्रव्यतया अवतिष्ठत इति, न च पूर्वोत्तरयोरत्यन्तभेदः, सति तस्मिन् एकस्य विज्ञानस्य विज्ञानत्वासत्त्वप्रसङ्गात्, 'न प्रेत्यसञ्ज्ञाऽस्ति' इति न प्राक्तनी घटादिविज्ञानसज्झाऽवतिष्ठते, साम्प्रतविज्ञानोपयोगवि-नितत्वात् इत्ययं वेदपतार्थ इति, तथा सौम्य ! प्रत्यक्षतोऽपि आत्मा गम्यत एव, तस्य ज्ञानात् अनन्यत्वात्, तद्धर्मत्वात् चैतन्यस्य, ज्ञानस्य च स्वसंविदितरूपत्वात्, तथा च नीलविज्ञानमेव उत्पन्नमासीत् इतिदर्शनीत्, न च अननुभूतेऽर्थे स्मृतिप्रभवो युज्यते, न च भिन्नं ज्ञानमात्मन्ः, प्रमात्रन्तरवत् विवक्षितप्रमातुः संवेदनानुपपत्तेः, न च स्वात्मनि क्रियाविरोधः, प्रदीपवत् तस्य स्वपरप्रकाशकत्वात्, इत्थं तावत् भवतोऽपि अयमनन्तपर्यायात्मकत्वात् ज्ञानदेशावभासितत्वात् प्रदीपदेशोद्योतितघटवत् देशतः प्रत्यक्ष एव, ज्ञानावरणीयाद्यशेषप्रतिबन्धकापगमसमनन्तराविर्भूतकेवलज्ञानसम्पदा सर्वप्रत्यक्ष इति । अनुमानगम्योऽप्ययं-विद्यमानकर्तृकमिदं शरीरं, भोग्यत्वात्, ओदनादिवत्, व्योमकुसुमं विपक्ष इत्यनुमानं, न च लिङ्गयविनाभूतलिङ्गोपलम्भव्यतिरेकेणानुमानस्य एकान्ततोऽप्रवृत्तिः, हसितादिलिङ्गविशेषस्य ग्रहाख्यलिङ्गय-विनाभावग्रहणमन्तरेणापि ग्रहगमकत्वदर्शनात्, न च देह एव ग्रहो, येन अन्यदेहदर्शनमविनाभावग्रहणनियामकं भवतीति । आगमगम्यता त्वस्याभिहितैव । इत्यलं विस्तरेण, गमनिकामात्रमेतत् इति । नि. (६०१) छिण्णमि संसयंमी जिनेन जरमरणविप्पमुक्केणं ।
सो समणो पव्वइओ पंचहि सह खंडियसएहिं ।। वृ-एवं 'छिन्ने निराकृते संशये जिनेन जरामरणाभ्याम्-उक्तलक्षणाभ्यां विप्रमुक्तः तेन 'स' इन्द्रभूतिः 'श्रमणः प्रव्रजितः' साधुः संवृत्त इत्यर्थः, पञ्चभिः सह खण्डिकशतैः, खण्डिकाःछात्रा इति गाथार्थः ॥ इह च वेदपदोपन्यासस्तदा वेदानां सातत्वात् तेन च प्रमाणत्वेन अङ्गीकृतत्वात् । इति प्रथमो गणधरः समाप्तः ॥ नि. (६०२) तं पव्वइयं सोउं बितिओ आगच्छई अमरिसेणं ।
वच्चामि न आनेमी पराजिणित्ता न तं समणं ॥ वृ- 'तम्' इन्द्रभूतिं प्रव्रजितं श्रुत्या 'द्वितीयः' खल्वग्निभूतिरत्रान्तरे आगच्छति अमर्षण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org