SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ १४७ उपोद्घातः - नि.४१८] नमिनेमिसु जयनामो अरिह्रमासंदरे बंभो ।। वृ-इह च असंमोहार्थं सर्वेषामेव जिनचक्रवर्त्तिवासुदेवानां यो यस्मिन् जिनकालेऽन्तरे वा चक्रवर्ती वा वासुदेवो वा भविष्यति बभूव वा तस्य अनन्तरव्यावर्णितप्रमाणायुः समन्वितस्य सुखपरिज्ञानार्थमयं प्रतिपादनायापायः बत्तीसं घरयाइं काऊं तिरियायताहिं रेहाहिं । उड्डाययाहिं काउं पंच घराई तओ पढमे ॥ पन्नरस जिन निरंतर सुण्णदुगं ति जिन सुण्णतियगं च । दो जिन सुण्ण जिणिंदो सुण्ण जिणो सुण्ण दोन्नि जिना ।। बितियपंतिठवणा - दो चक्कि सुण्ण तेरस पण चक्किसुण्ण चक्कि दो सुण्णा । चक्कि सुण्ण दु चक्की सुण्णं चक्की दु सुण्णं च ।। ततियपंतिठवणा दस सुण्ण पंच केसव पण सुण्ण केसि सुण्ण केसी य । दो सुण्ण केसवोऽवि य सुण्णदुर्ग केसव ति सुण्ण ॥ प्रमाणान्यायूंषि चामीषां प्रतिपादितान्येव । तानि पुनर्यथाक्रमं ऊर्ध्वायतरेखाभिरधोधोगृहद्वये स्थापनीयानीति। उक्तसम्बन्धगाथात्रयगमनिका-ऋषभे तीर्थकरे भरतश्चक्रवर्ती, तथा अजिते तीर्थकरे सगरश्चक्रवर्ती भविष्यति एवं तीर्थकरोक्तानुवादः, सर्वत्र भविष्यत्कालानुरूपः क्रियाध्याहारः कार्यः, त्रिकालसूत्रप्रदर्शनार्थो वा भूतेनापि न दुष्यति, तथा चावोचत्-'मघवा सणंकुमारो सणंकुमारं गया कप्पं' इत्यादि । एवं सर्वत्र योज्यमिति । मघवान् सनत्कुमारश्च एतचक्रवर्तिद्वयं धर्मस्य शान्तेश्च अनयोरन्तरं तस्मिन् जिनान्तरे चक्रवर्तिद्वयं भविष्यत्यभवद्वेति गाथार्थः ।। द्वितीय-गाथागमनिका-शान्तिः कुन्थुश्चारः, एते त्रयोऽप्यशोकाद्यष्टमहाप्रातिहादिरूपां पूजामर्हन्तीत्यर्हन्तश्चैव चक्रवर्तिनश्च, तथा अरमल्लयन्तरे तु भवति सुभूमश्च कौरव्यः, तुशब्दोऽन्तरविशेषणे, नान्तरमात्रे, किन्तु पुरुषपुण्डरीकदत्तवासुदेवद्वयमध्यइति गाथार्थः ।। तृतीयगाथागमनिका-मुनिसुव्रते तीर्थकरे नमौ च भवतः द्वौ, कौ द्वो?, पद्मनाभहरिषेणौ ‘नमिनेमिसुजयनामो अरिट्टपासंतरे बंभो' ति नमिश्च नेमी च नमिनेमिनी, अन्तरग्रहण-मभिसंबध्यते, ततश्च नमिनेम्यन्तरे जयनामाऽभवत्, अरिष्टग्रहणाद् अरिष्टनेमिः, पार्वेति पार्श्वस्वामी, अनयोरन्तरे ब्रह्मदत्तो भविष्यत्यभवद्वेति गाथार्थः ॥ इदानीं वासुदेवो यो यत्तीर्थकरकालेऽन्तरे वा खल्वासीत् असौ प्रतिपाद्यतेनि. (४१९) पंचऽरहंते वंदंति केसवा पंच आनुपुवीए । सिजंस तिविट्ठाई धम्म पुरिससीहपेरंता ॥ वृ-गमनिका-पञ्ज अर्हतः वन्दन्ते केशवाः, एतदुक्तं भवति-पञ्च केशवा अर्हतो वन्दन्ते, वन्दन्त इत्येतेषां सम्यक्त्वख्यापनार्थमिति । कियन्तोऽर्हन्तः ? किमेकः द्वौ त्रयो वा ?, नेत्याह'पंच' पञ्चेति पञ्चैव, किं यथाकथञ्चित् ? नेत्याह-'आनुपूर्व्या' परिपाच्या 'सिजंस तिविठ्ठाई __www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy