SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १४० आवश्यक मूलसूत्रम् - १ आर्यान् वेदान् कृतवांश्च भरत एव तत्स्वाध्यायनिमित्तमिति, तीर्थकृत्स्तुतिरूपान् श्रावकधर्मप्रतिपादकांश्च, अनार्यास्तु पश्चात् सुलसायाज्ञवल्क्यादिभिः कृता इति । 'पुच्छ' त्ति भरतो भगवन्तमष्टापदसमवसृतमेव पृष्टवान्-याग्भूता यूयं एवंविधास्तीर्थकृतः कियन्तः खल्विह भविष्यन्तीत्यादि । 'निव्वाणं' ति भगवानष्टापदे निर्वाणं प्राप्तः, देवैरग्निकुण्डानि कृतानि, स्तूपाः कृताः, जिनगृहं भरतश्चकार, कपिलो मरीचिसकाशे निष्क्रान्तः, भरतस्य दीक्षा च संवृत्तेति समुदायार्थः ॥ अवयवार्थ उच्यते- आद्यावयवद्वयं व्याख्यातमेव, पृच्छावयवार्थं तुआह-नि. (३६७) पुनरवि अ समोसरणे पुच्छीअ जिनं तु चक्किणो भरहे । अप्पुट्ठो अ दसारे तित्थयरो कोइहं भरहे || वृ- गमनिका - पुनरपि च समवसरणे पृष्टवांश्च जिनं तु चक्रवर्त्तिनः भरतः, चक्रवर्त्तिन इत्युपलक्षणं तीर्थकृतश्चेति, भरतविशेषणं वा चक्री भरतस्तीर्थकरादीनं पृष्टवान् । पाठान्तरं वा 'पुच्छीय जिने य चक्किणो भरहे' पृष्टवान् जिनान् चक्रवर्त्तिनश्च भरतः, चशब्दस्य व्यवहितः सम्बन्धः, भगवानपि तान् कथितवान्, तथा अपृष्टश्च दशारान्, तथा तीर्थकरः क इह भरतेऽस्यां परिषदीति पृष्टवान्, भगवानपि मरीचिं कथितवान् इति गाथाक्षरार्थः । तथा चाह नि. (३६८) जिनचक्किदसाराणं वण्ण १ पमाणाई २ नाम ३ गोत्ताई ४ । आऊ ५ पुर ६ माइ ७ पियरो ८ परियाय ९ गई च १० साहीअ ॥ वृ- गमनिका - 'जिनचक्रिदशाराणां' जिनचक्रवर्त्तिवासुदेवानमित्यर्थः, वर्णप्रमाणानि तथा नामगोत्राणि तथा आयुः पुराणि मातापितारै यथासंभवं पर्यायं गतिं च, चशब्दात् जिनानामन्तराणि च शिष्टवान् इति द्वारगाथासमासार्थः ॥ अवयवार्थे तु वक्ष्यामः । तत्र प्रश्नावयवमधिकृत्य तावदाह भाष्यकारः[भा. ३८] जारिया लोअरू भरहे वासंमि केवली तुमे । एरिसया कइ अने ताया ! होहिंति तित्थरा ? ॥ वृ- याध्शा लोकगुरवो भारते वर्षे केवलिनो यूयं, ईशाः कियन्तोऽन्येऽत्रैव तात ! भवियन्ति तीर्थकराः ? इति गाथार्थः ॥ नि. (३६९) अह भणइ जिनवरिंदो भरहे वासंभि जारिसी अहयं । एरिसया तेवीसं अन्ने होहिंति तित्थयरा ॥ नि. (३७०) होही अजिओ संभव अभिनंदन सुमइ सुप्पभ सुपासो । ससि पुष्पदंत सीअल सिजंसो वासुपुजे अ ।। । नि. (३७१) विमलमनंतर धम्मो संती कुंथू अरो अ मल्ली अ । मुनिसुव्वय नमि नेमी पासो तह वद्धमाणो अ ॥ नि. ( ३७२ ) अह भणइ नरवरिंदो भरहे वासंमि जारिसो उ अहं । तारिया कइ अन्ने ताया होहिंति रायाणो ॥ वृ- गमनिका - अथ भणति नरवरेन्द्रो - भरतः, भारते वर्षे याध्शस्त्वहं ताध्शाः कत्यन्ये तात ! भविष्यन्ति राजान इति गाथार्थः ॥ नि. (३७३) अह भइ जिनवरिंदो जारिसओ तं नरिंदसद्दूलो । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy