SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ पीठिका - [नि. ३] मतिभेद इत्येवं ब्रुवते, एवं ईहादिष्वपि योज्यं, भावार्थस्तु पूर्ववदिति । अथवा प्राकृतशैल्या 'अर्थवशाद्विभक्तिपरिणाम' इति यथाऽऽचाराङ्गे-"अगनिं च खलु पुट्ठा एगे संघायमावजंति" इत्यत्र अग्निना च स्पृष्टाः, अथवा स्पृष्टशब्दः पतितवाची, ततश्चायमर्थः-अग्नौ च पतिता 'एके शलभादयः ‘संघातमापद्यन्ते' अन्योऽन्यगासंकोचमासादयन्तीत्यर्थः, तस्माद् अग्निसमारम्भोऽनेकसत्त्वव्यापत्तिहेतुः इत्यतो न कार्यः इत्यादिविचारे द्वितीया तृतीयार्थे सप्तम्यर्थे च व्याख्यातेति । एवमत्रापि सप्तमी प्रथमार्थे द्रष्टव्येति गाथार्थः ॥ इदानीमभिहितस्वरू-पाणामवग्रहादीनां कालप्रमाणमभिधित्सुराहनि. (४) उग्गह इक्क समयं ईहावाया मुहुत्तमद्धं तु । कालमसंखं संखं च धारणा होइ नायव्वा । वृ-तत्र अभिहितलक्षणोऽर्थावग्रहो जघन्यो नैश्चयिकः, स खलु एकं समयं भवतीति संबन्धः, तत्र कालः परमनिकृष्टः समयोऽभिधीयते, स च प्रवचनप्रतिपादितोत्पलपत्रशतव्यत्तिभेदोदाहरणाद् जरत्पट्टशाटिकापाटनदृष्टान्ताश्च अवसेयः, तथा सांव्यवहारिकार्थावग्रहव्यञ्जनावग्रहौ तु पृथक् पृथग अन्तर्मुहूर्त्तमात्रं कालं भवत इति विज्ञातव्यौ । ईहा चावायश्च ईहावायौ, प्राकृतशैल्या बहुवचन, उक्तं च "दुव्ववणे बहुवयणं छट्ठीविहत्तीए भण्णइ चउत्थी । जह हत्था तह पाया, नमोऽत्यु देवाहिदेवाणं ।।" तावीहावायौ मुहूर्ताध ज्ञातव्यों भवतः, तत्र मुहूर्त्तशब्देन घटिकाद्वयपरिमाणः कालोऽभिधीयते, तस्यार्धं तु मुहूर्ताधं, तुशब्दो विशेषणार्थः, किं विशिनष्टि ? -व्यवहारापेक्षया एतद् मुहूर्धिमुक्तं, तत्त्वतस्तु अन्तमुहूर्तमवसेयमिति । अन्ये त्वेवं पठन्ति 'मुहुत्तमन्तं तु' मुहूर्तान्तस्तु द्वे पदे, अयमर्थः-अन्तर्मध्यकरणे, तुशब्द एवकारार्थः, स चावधारणे, एतदुक्तं भवति-ईहावायौ मुहूर्तान्तः, भिन्नं मुहूर्त ज्ञातव्यौ भवतः, अन्तर्मुहूर्तमेवेत्यर्थः । कलनं कालः तं कालं, न विद्यते संख्या इयन्तः पक्षमासवयनसंवत्सरादव इत्येवंभूता यस्यासावसंख्यः, पल्योपमादिलक्षण इत्यर्थः, तं कालमसंख्यं, तथा संख्यायत इति संख्यः, इयन्तः, पक्षमासर्वयनादय इत्येवं संख्याप्रमित इत्यर्थः, तं संख्यं च, चशब्दात् अन्तर्मुहूत्तं च, धारणा अभिहितलक्षणा भवति ज्ञातव्या, अयमत्र भावार्थ:-अवयोत्तरकालं अविच्युतिरूपा-अन्तर्मुहूर्तं भवति, एवं स्मृतिरूपाऽपि, वासनारूपा तु तदावरणक्षयोपशमाख्या स्मृतिधारणाया बीजभूता संख्येयवर्षायुषां सत्त्वानां संख्येयं कालं असंख्येयवायुषांपल्योपमादिजीविनां चासंख्येयमिति गाथार्थः । इत्थमवग्रहादीनां स्वरूपमभिधाय इदानीं श्रोत्रेन्द्रिवादीनां प्राप्ताप्राप्तविषयतां प्रतिपिपादयिषुराहनि.(५) पुढे सुणेइ सई रूवं पुन पासई अपुढे तु । गंधं रसं च फासं च बद्धपुढे वियागरे । कृ-आइ-ननु व्यञ्जनावग्रहनिरूपणाद्वारेण श्रोत्रेन्द्रिययादीनां प्राप्ताप्राप्तविषयता प्रतिपादितैव, किमर्थ पुनरयं प्रयास इति, उच्यते, तत्र पक्रान्तगाथा व्याख्यानद्वारेण प्रतिपादिता, साम्प्रतं तु सूत्रतः प्रतिपद्यत इत्य दोषः । तत्र 'स्पृष्टं' इत्यालिङ्गितं, तनौ रेणुवत्, शुणोति गृह्णाति उपलभत इति पर्यायाः, कम्?-शब्द्यतेऽनेनेति शब्दः तं शब्दप्रायोग्यं द्रव्यसंघातं, इदमत्र हृदयम्-तस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003377
Book TitleAgam Sutra Satik 40 Aavashyak MoolSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages808
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 40, & agam_aavashyak
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy