________________
५०८
व्यवहार-छेदसूत्रम् - २- १० / २५१ २ | चारित्रे अनेषणादोषतः स्त्रीदोषतो वा चारित्ररक्षणायः ततः स्थानादन्यत्र गमने ३ | तपसि विकृष्टतपो निमित्तं धृतपानादि प्रवचने प्रवचनरक्षादिनिमित्तं विष्णुकुमारादिरिव वैक्रियकुर्वाणादि ५। समितावीर्यासमित्यादिरक्षणनिमित्तं चक्षुः सावद्यचिकित्साकरणादि ६ । गुप्तौ भावित कारणतो विकटपाने कृते मनोगुप्तादिरक्षणनिमित्तमकल्पादि ७ । साधर्मिकवात्सल्यनिमित्तं ८ । कुलतः कार्यनिमित्तं ९ । एवं गणकार्यनिमित्त: १०, सङ्घकार्यनिमित्तं ११, आचार्यनिमित्तं १२, असहनिमित्तं १३, ग्लाननिमित्तं १४, प्रतिषिद्धबालदीक्षितसमाधिनिमित्तं १५ । प्रतिषिद्धवृद्धदीक्षितसमाधिनिमित्तं १६, उदके जलप्लवे १७, अग्नौ दवाग्न्यादौ १८, चौरे शरीरोपकरणापहारिणी १९ । श्वापदे हिंसा व्याघ्रादावा पतित यद्वृक्षारोहणादि २० । तथा भये म्लेच्छादिसमुत्थे २१ कान्तारे अट्यमानभक्तपानेऽध्वनि २२ आपदि द्रव्याद्यापत्सु २३ । व्यसनं मद्यपानगीतगानादिविषये पूर्वाभ्यासतः प्रवृत्ति २४ । तत्र यद्यतनया प्रतिसेवते स कल्पः । एतदेवाहएयन्तरागाढे दंसणनाणे चरणसालंबो ।
भा. [४४६३]
परिसेवितं कयाई होइ समत्थो पसत्थेसु ॥
वृ. एतेषामनन्तरोदितानामन्यतरस्मिन् आगाढे समुत्थितदर्शनज्ञानचरणसालम्ब: प्रतिसेव्याकल्प्यप्रतिसेवना कृत्वा कदाचित्प्रशस्तेषु शुभेषु प्रयोजनेषु कर्तव्येषु समर्थो भवति । तत एषा कल्पिका प्रतिसेवना ।
भा. [४४६४ ] डावे दप्पकप्पे हेट्ठा दप्पस्स दसपए द्वावे । कप्पस्स चउव्वीसति एतेसिमह द्वारसपयाई ||
वृ. प्रथमतो दर्पकल्पौ स्थापयित्वा तदनन्तरं दर्पस्याधस्तात् दर्पादीनि पदानि स्थाप्य (स्थापयित्वा ?) कल्पस्याधो दर्शनादीनि चतुर्विंशति पदानी तेषां दश चतुर्विंशति पदानामधो व्रतपट्कादीन्याष्टादशपदानि स्थापयेत् सम्प्रत्यालोचनाक्रममाह
भा. [४४६५ ] पढमस्स य कज्जस्स य पढमेण पएण सेवियं जं तु । पढमे छक्के अब्भितंर तु पढमं भवे द्वाणं !!
वृ. इह प्रथमं कार्यं दर्पलक्षणं तस्य प्रथमतः स्थापयित्वा तस्य प्रथमस्य कार्यस्य सम्बन्धिना प्रथमेन दर्पलक्षणेन यत्सेवितं कथंभूतमित्याह-प्रथमे षट्के व्रतषट्करूपे अभ्यन्तरमन्तर्गतं तत्कतरदित्याह-प्रथमं प्राणातिपातलक्षणं भवेत्स्थानं । एवं मृषावादे अदत्तादाने मैथुने परिग्रहे रात्रिभोजन च वक्तव्यम् । पाठोऽप्येवमुच्चारणीयः ।
भा. [४४६६ ]
पढमस्स य कज्जस्स य पढमेन पएण सेवियं जंतु । पढमे छक्के अभितरं तु बीयं भवे द्वाणं ॥ वृ. एवं तइयं भवेद्वाणं जाव छुट्टं भवे द्वाणं । एतदेव कथयन्नाहभा. [ ४४६७ ] पढमस्स य कज्जस्स य पढमेन परण सेवियं जंतु । पढमे छक्के अब्भितरंमि सेसुसुवि पएसु ॥
वृ. अक्षरगमनिका प्राग्वत् । नवरं सेसेसु वि पएसु इति आद्यं पादत्रयमुञ्चता शेषेष्वपि मृषावादादिषु बिइयं भवे द्वाणं तइयं भवे द्वाणमित्यादि पदसंचारतो वक्तव्यम् । पढमस्स य कज्जस्स य पढमेन पएण सेवियं जंतु ।
भा. [४४६८]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org