SearchBrowseAboutContactDonate
Page Preview
Page 987
Loading...
Download File
Download File
Page Text
________________ ५०२ व्यवहार - छेदसूत्रम् - २ - १० / २५१ विकुवित्वा (य) शृगालरूपेण खादितो भक्षितः तथापि स सम्यगधिसोढवान् । एवं सर्वैरपि सोढव्यम् । भा. [४४२९] जह सो सिपएसी बोसट्ट चत्तदेहो उ । वंसीपत्तेहिं विनिग्गएहिं आगासमुक्खित्तो || वृ. साधुरेकः पादपोपगतः स प्रत्यनीकैरुत्क्षिप्य वंशीकुडगस्योपरि मुक्तोऽधस्ताच्च वंशा उत्थितास्तैर्वंशैः प्रवर्धमानैः स साधुर्विद्धो दूरमुत्क्षिप्य आकाशं प्रापितः सम्यक् सोढवान् अक्षरगमनिका त्ववेम्-यथा स वंशी वंशीप्रदेशैः क्षिप्तो निसृष्टमतिशयेन व्युत्सृष्टस्त्यक्तदेशो वंशी पत्रैरंकुररूपैर्विनिर्गतैर्दूरमाकाशमुत्क्षिप्तो वेदनां सोढवान् । एवं सर्वैरपि सोढव्यम् । जहवंतीसुकुमालो वोसट्टुनिसट्ठ चत्तदेहो ऊ । भा. [४४२२] धीरो सपेल्लयाए सिवाए खतितो तिरत्तेण ।। वृ. यथा अवन्तिसुकुमालो व्युत्सृष्टस्त्यक्तदेहो धीरः सपेल्लयाए पेल्लकसहितया बालसपुत्रभाण्डसहितया शिवया शृगाल्या त्रिरात्रेण रात्रित्रिकेण भक्षितः सम्यक् सोढवान् । # एवमन्यैरपि सोढव्यम् । भा. [४४२३] जह ते गोहट्टाणे वोसट्टनिसट्ट चत्तदेहागा, उदएण चोज्झमाणा वियरम्मि उ संकरे लग्गा || वृ. ग्रामासन्नप्रदेशे केचित्साधवः पादपोपगतास्तता यथा ते गोष्टस्थाने प्रदेशविशेषे निसृष्टं निस्सहतया व्युत्सृष्टस्त्यक्तदेहा आन्तरिक्षेण पतितेनोदकेन उह्यमाना वितरके नद्याः श्रोतसि शंकरे लग्नाः सम्यग् वेदनां सहमानाः कालगताः । एवं शेषैरपि सोढव्यमेतदेवाह - बावीसमानुपुव्वी तेरिक्खमनुया व भंसणत्थाए । भा. [४४२४] विसयानुकंपरक्ख करेज्ज देवा व मनुओ वा ॥ वृ. द्वाविंशति परीषहान् आनुपूर्व्या पश्चादानुपूर्व्या अनानुपूर्व्या वा तिर्यञ्चो मनुष्या वा चारित्रभ्रंशनार्थमुदीरयंस्तथा देवा मनुष्या वा विषयाणामिन्द्रियविषयाणा प्रत्यनीकतया अनिष्टानामनुकम्पया इष्टानामुदीरणमनुकम्पया रक्षणं कुर्युः । तत्रारिक्तद्विष्टः सन् सम्यक् सहेत । भा. [४४२५] हसा बत्तीसघडा वो सट्टुनिसट्ट चत्तदेहा उ । वीराधातेन उ दारिएण दियलंभि उलइया ॥ वृ. यथा सा द्वात्रिंशत् गोष्ठीपुरुषा इत्यर्थः व्युत्सृष्टस्तत्प्रतिबन्धपरित्यागेनानिसृष्टातिशय त्यक्तो मनागपि परिचेष्टा अकरणात् देहो यया सा तथा पादपोपगताघ्रातेन तृप्तेन द्वीपान्तरवासिना म्लेच्छेन दृष्टा ततः कल्ये ममैते भक्ष्यं भविष्यंतीति चिन्तयित्वा वृक्षं विलग्नापयित्वा दियंलंभि बलीव ते उलइया । अवलंबिता ते सम्यग् वेदनां सहमानाः कालगता: उपसंहारमाहएवं पातोवगमं निप्पडिकम्मं तु वण्णितं; समत्थियरगणहरेहिं य साहु वि य सेविय ॥ भा. [४४२६ ] वृ. एतत्पादपोपगमं सूत्रे आगमे निःप्रतिकर्मवर्णितं तीर्थकरैर्गणधरैः शेषसाधुभिश्चोत्तमधृतिसंहननोपेतैः उदारं स्फीतं यथा भवत्येवमासेवितं । अत्र चायं क्रमो यः पादपोपगमनस्येङ्गिनीमरणस्य च करणे असमर्थः स भक्तप्रत्याख्यानं करोति । ततोऽपि यः समर्थतर For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy