________________
४८८
व्यवहार - छेदसूत्रम् - २ - १० / २५१ यस्मादेतस्य चरमाहारदाने गुणास्तस्मादवश्यं स दातव्यः । अथ तृष्णाव्यवच्छेदः केनाकारेण तस्य वैराग्यभावना प्रवर्तत इति आह
भा. [४३२५]
कि च तन्नोवभुतं मे परिणामासुई सुई । दिठसारो सुहं ज्झति चोयणे सेव सीयति ॥
वृ. चरमाहारे प्रदत्ते तृष्णाव्यवछेदे च जाते स एवं वैराग्यमापन्नश्चिन्तयति । किं वा तदस्ति भोज्यं यत्पूर्वगृहवासे प्रव्रज्यापर्याये वा मया नोपभुक्तं परं शुध्यते तत् भुङ्क्तं परिणामात् परिणामवशेन अशुचिः संजायते तथा आहारसंज्ञोपयुक्तो जीवः कर्मणा बन्धको भषति । तथा आहारगृद्धे निवृत्तः सुखभागी, एवं प्रत्यक्षत आगमतश्च दृष्टः सार उपलब्धतत्व सुखं धर्मध्यानं ध्यायते, तथा यदि च आहारे प्रदत्ते भूयः तत्रैवनुबन्धतः प्रसीदति तदेतस्य तदा सीदत एपैवाधिकृत श्लोकार्थरूपा चोदना प्रत्रापना कर्तव्या झोसिज्जइ सो से तह जयणाए चउव्विहारो तिविहं तु वोसिरोहिइ सो ताहे उक्कोसगाई दव्वाई । मग्गित्ता जयणाए चरमाहारं पदंसंति ||
भा. [४३२६ ]
वृ. त्रिविधं मनसा वाचा कायेन भक्त प्रत्याख्यातुकाम आहारं व्युत्सृक्ष्यति । तत उत्कृष्टानि द्रव्याणि यतनया उद्गमादिशुद्धलाभे पञ्चकपरिहान्या याचित्वा चरममाहारं तस्य प्रदर्शयन्ति । भा. [४३२७] पासितु तानि कोई तीरप्पत्तस्स किं मम तेहिं । गमनुपत्तो संवेगपरायणो होइ ।।
वृ. तानि उत्कृष्टानि द्रव्याणि दृष्ट्वा कश्चित्तीरप्राप्तस्याभ्युपगमरणसमुद्रपारमुपागतस्य ममैतै किं कार्यमित्येवं वैराग्यमनुप्राप्तः संवेगपरायण: सर्वथा निवृत्ताहाराभिलाषो भयति । सव्वं भोच्चा कोई मणुन्नरसपरिणतो भवेज्जाहि ।
भा. [४३२८ ]
तं चेवनुबंधतो देसं सव्वं च गेहीए ।
I
वृ. कोऽपि पुनः सर्वमुत्कृष्टं भुक्त्वा मनोज्ञरसपरिणत उत्कृष्टरसगृद्धो भवति । ततो देश सर्व्वं वा गृह्यात्तमेवोत्कृष्टमाहारमनुबध्नन् अभिलषन् तिष्ठति ।
भा. [४३२९]
विगती कयानुबंधे आहारनुबंधिणाएवोच्छेदो । परिहायमाणदव्वे गुणवुड्डि समाहि अनुकंपा ||
वृ. विकृतीषु कृतो योऽनुबन्धस्तस्मिन् सति आहारानुबन्धनायां च सत्यां तस्य विकृत्यनुबन्धस्याहारनुबन्धस्य च किंच नोवभुत्तं मे परिणामासुई इति प्रकारेण व्यवच्छेदः कर्तव्यः । सम्प्रतिहानिद्वारमाह- परिहायमाणा इत्यादि यानि चरमाहारद्रव्याण्यानीतानि तानि तद्विपयमनुबन्धं कुर्वन्तः परिणामतो द्रव्यतश्च परिहीयमानानि कर्तव्यानि । अथ कि कारणं यदाहारे अनुबन्धं कुर्वन्तो भक्तं पानं च दीयते । उच्यते-गुणवुड्डिसमाहिअनुकंपा इति स भक्तं प्रत्याख्यातुकामोऽनुकम्पनीयोऽनुकम्पमानस्यासमाधिमरणप्रसक्तेस्ततोऽनुकम्पते, आहारे प्रदत्ते सति तस्य समाधिरुपजायते । समाधितश्च प्रज्ञापयितुं शक्यः प्रज्ञापितश्चाहारव्यवच्छेदं करिष्यति । ततोऽभ्युतमरणे गाढं ध्यानोपगतस्य गुणवृद्धिः कर्मनिर्जरा भवति । अथ चरमाहारे द्रव्याणां परिणामतो द्रव्यतश्च परिहानिः कथं कर्तव्येत्यत आह
भा. [४३३०]
दविय परिणामतो वा हवंति दिनेदिने जाव तिनि ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org