________________
AAAAA
उद्देशकः-१०, मूलं-२५१, [ भा. ४३१०] ।
४८५ इक्षुयंत्रशालायाम् इक्षुपीडनशाला समीपे वा तिलादिदर्शनतः कर्मकरगानशब्दशर्वणतो वा ध्यान भङ्गोपपत्ते: अग्निकर्म लोहकारकर्म तच्छाला अग्निकर्मलोहकारकर्मशालायां अग्निकर्मशालासमीपे वा पुरुपः कुंभकार: कुंभकारशालायां कुंभकारशालासमीपे वा अग्निपरितापतो लोहकुट्टनादिशब्दश्रवणतो वाध्यते व्याघातसंभवात् तथा नन्तिक्ताः छिपास्तच्छालासमीपे वा रजकशालायां रजकशालासमीपे वा देवडशालायं समीपे वा जुगुप्सादोपात् डोम्बलंखकास्तेऽपि गायन्ति। अथवा चण्डालविशेषगायना डोम्बास्तेषां शालायां तच्छालासमीपे वा जुगुप्सादोषात् । गानशब्दश्रवणतो ध्यानव्याघातभावाच्च तथा पाडहिकशालायां पाडहिकसमीपे वा वादिवशब्दश्रवणतो ध्यानव्याधात: राजपथे समीपे वा राज्ञ आगच्छता गच्छता वा समृद्धिदर्शनतो निदानकरणप्रसक्तेः, तथा चारको गुप्तिगृहं तर तस्य समीप धारयता शब्दश्रवणतो ध्यानव्याघातभावात् कोष्टाका नाम वट्टानां शाला, कोष्टके कोष्ट्रकसमीपे वा वट्टा अपि गायन्ति, विरूपरूपाणि च भाष्यते, ततो ध्यानव्याधातः, तथा कल्पपालाः सुरादिविक्रयकारिणो मद्यपा वा तेषां शालायां तच्छाला समीपे वा यसस्तव मत्तप्रमत्ता गायन्ति पृत्कुर्वन्ति ततो ध्याने व्याघातसंभवः तथा क्रकचके यत्र काष्टानि क्रकच्यन्ते क्रकचसमीप वा। काष्टककचशब्दश्रवणत: कारपत्रिकगानशब्दश्रवणतो ध्यानभ्रंशोपपत्तेः पृष्फफलदगसमीवम्मित्ति पुण्यसमीपे फलसमीपे उदकसमीपे वा पुष्पादिदर्शनतः तद्विपयाभिलापोपपत्तेः । तथा आरामे तबाप्पनन्तरोदितदोपप्रसङ्गात् यथा विकटं नाम असंगुप्तद्वारम्(च) । तत्र पानके पाने कायिक्यादि परिस्थापने च सागारिकसंभवात् तथा नागगृहे उपलक्षणमेतत् । यक्षगृहादिषु तत्रापि भूयसां लोकानां नानाविधविकुवितवेषाणामागत्यागत्यगाननर्तनकरणात्तथा च सति ध्याने व्याघातसंभवः । यदि वा नागदयोऽनुकम्पया प्रत्यनीकतया विमर्शेन वा अनुलोमान् प्रतिलोमान्वा उपसर्गान् कुर्युः । पूर्वभणिते च प्राक्कल्पाध्ययनाभिहिते च भक्तप्रत्याख्यातुकामे तदेव भावयति। भा.[४३११] पढमविइएसु कप्पे उद्देसेसु उवस्सया जे उ।
विहिसुत्ते य निसिद्धा तब्विवरीए गवेसेज्जा ।। वृ. कल्पे कल्पाध्ययने द्वितीयतृतीययोरुद्देशयोविधिसूत्रे च आचाराङ्गे शय्याध्ययने अवग्रहप्रतिमास्थाननिषीदनके च ये उपाश्रया निषिद्धास्तेषुनस्थातव्यं । किन्तु तद्विपरीतान् प्रदेशान् गवेषयेत् । तथा - भा. [४३१२] उज्जाणरुक्खमूले सुन्नघरअनिसट्ट हरिय मग्गे य।
___ एवं विहे न हायइ हुज्जा समाहीए वाघातो ।। वृ.उद्याने वृक्षमूले शून्यगृहे अनिसृष्टे अननुज्ञाते हरिते हरिताकुले मार्गे च अन्यस्मिन्नपि च एवंविधे स्थाने न तिष्ठति भक्तप्रत्याख्याता, यतस्तत्र समाधेः व्याघातो भवति। गतमप्रशस्तस्थानद्वारमधुना प्रशस्तवसतिद्वारमाहभा. [४३१३] इंदियपडिसंचारो मनसंखोभकरणं जहिं नत्थि।
चाउस्सालादि दुवे, अनुन्नवेउण टायन्ति ।। वृ. यत्र इन्द्रियप्रतिसंचारो न भवति, किमुक्तं भवति ? यत्र अनिष्टा इष्टा वा शब्दा न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org