SearchBrowseAboutContactDonate
Page Preview
Page 968
Loading...
Download File
Download File
Page Text
________________ ४८३ कृतानि भवन्ति । तथा आलोचिते सति निःशल्यीभूतोऽहमिति तुष्टिरुपजायते । तथानालेचि-तऽतीचारे सशल्योऽहमिति या मनस्यऽधृतिः (तस्याः) परिदाहापगमात् प्रल्हादजननं प्रल्हादोत्पादः, शीतीभवनं भवति । कः पुनः सोऽपि अतिचारः कुतो वा प्रभृत्यालोचयितव्यमताहभा. [४२९९] पव्वज्जादी आलोयणा उतिरहं चउक्कगवि सोही । उद्देशक :- १०, मूलं - २५१ [ भा. ४२९८ ] 7 जह अप्पणी तह परे कायव्वा उत्तमट्ठमि ॥ वृ. त्रयाणां ज्ञानदर्शनचारित्राणां अर्ताचारेषु प्रव्रज्यादेरारभ्य यावदुत्तमार्थाम्युपगमस्तावदालोचना दातव्या कथमित्याह-चतुष्कः विशोध्या एकैकस्मिन् द्रव्यत: क्षेत्रतः कालतो भावतचातीचारविशुद्धया पुनः कथमित्याह-यथात्मनः सम्यक् ज्ञेयतया तिष्ठति तथा परस्मिन् आलोचना कर्तव्या देशतः सर्वतो न किंचिदपि गृहीतव्यमिति भाव उत्तमार्थे उत्तमार्थप्रतिपतौ कर्तव्यतायां तत्र ज्ञाननिमित्तं द्रव्यतोऽतीचारालोचनामाह भा. [४३०० ] नाणानिमित्तं आसेवियं तु वितहं परूवियं वावि । चेयणमचेयणं वा दव्वं सेसेसु इमगं तु ॥ वृ. ज्ञाननिमित्तं सचित्तं अचित्तं द्रव्यमुद्गमाद्यशुद्धं तथा सचेतनमचेतनं वा वितथं प्ररूपितं भवेत्तद्यथा - सचित्तमचित्तं वा सचित्तमिति एतत् द्रव्यतोऽतीचारालोचनं शेषेषु तु क्षेत्रादिष्विदमतीचारालोचनं तदेवाह भा. [४३०१] नाणनिमित्तभद्धाणमेति उमे य अच्छति तदट्ठा नाण व आगमेस्संति कुणंति परिकम्मणं देहे ॥ पडिसेवति विगतीतो मज्झदव्वो व एसति वि वत्ती । वायंतस्सवि किरिया कया पणगाइहाणीए । भा. [४३०२] वृ. ज्ञाननिमित्तमध्वानं पन्थानमिति प्रतिपद्यते अध्वानं प्रतिपत्रे च यस्तचित्तमकल्पि-कमयतनया यतनया वा च तत् आलोचयति । इदं क्षेत्रतोऽतीचारालोचनं । तथाऽवमेऽपि दुर्भिक्षेऽपि तदर्थं ज्ञानार्थं तिष्ठति, तत्र च तिष्ठिता यदकल्पिकमासेवितमयतनया यतनया वा तदालोचयति, इदं कालतोऽतीचारालोचनम्। भावत आह-नाणं चेत्यादि ज्ञानमहमागमिष्यामि ग्रहीष्यामीति हेतोर्देहे शरीरस्य परिकर्म करोति, यथा व्याख्याप्रज्ञेसेर्महाकल्प श्रुतस्य वा योगं वोढुकामो घृतं पिबति, प्रणीतं चाहारमुपभुङ्क्ते । तत्र या अयनता कृता, अथवा कश्चिद्रोग आसीत् । मा स तत्काले उद्रेकं यायादिति परिकर्म करोति, तच्च कुर्वता या अयतना कृता निर्विकृता विकृतीर्नानाप्रकारा निरन्तरं प्रतिसेवते तत्रापि या अयतना कृता मेध्यानि द्रव्याणिनामयैर्मेधा उपक्रियते । तानि द्रव्याणि एषयता परिमार्गयता पिबता वा या अयतना व्यधायि तथा वाचयतो वाचनाचार्यस्य पञ्चकादिहान्या क्रिया कृता अपि शब्दात्पञ्चकादिहान्यातिक्रमेण वा या कृता क्रिया तामप्यालोचयन्ति । तदेवं ज्ञाननिमित्तं द्रव्याद्यतीचारालोचनमुपदर्शितमधुना दर्शननिमित्तं चारित्रनिमित्तं चाह भा. [४३०३] एमेवदंसणम्मि वि सद्दहणा नवरि तत्थ नाणत्तं । सण इत्थी दोसो वयातिचरणे सिया सेवा || वृ. एवमेव अनेनैव प्रकारेण ज्ञानगतेन प्रकारेण दर्शनेऽपि दर्शननिमित्तमपि द्रव्याद्यतीचार For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy