________________
४१२
व्यवहार - छंदसूत्रम् - २- १०/२५० बृ- तदज्ञातोछं तपो द्रव्याद्यभिग्रहो द्रव्याभिग्रहः क्षेत्राभिग्रह : कालाभिग्रहो भावाभिग्रहश्च । तत्र द्रव्ये द्रव्याभिग्रहो यत् शुद्धमुंछं गृह्णाति, शुद्धं नाम अलेपकृत् तदपि शुद्धमुंछं गृह्णाति उपनीतं नानुपनीतं तेन पञ्चानामाद्यानां पिण्डैषणानामग्रहणमुपरितन्योश्च द्वयोरेकतरस्या अभिग्रह इत्यावेदितं द्रष्टव्यम् । तथा एतावत्यो दत्तयोऽद्य मया ग्राह्या एष द्रव्याभिग्रहः । क्षेत्रे क्षेत्रविषयेऽभिग्रहे यदेलुकमात्रं विष्कंभ्य गृह्णाति । अत्रापीयं समाचारी यदि द्वावपि पादावेलुकस्यान्तस्तदा न कल्पते, तत्रेदं कारणं यद्युच्च एलुकस्तदा कस्य पादौ प्रतिष्ठितौ न दृश्यते, किं बीजादौ प्रतिष्ठितावुत नेति तस्मादेलुकं विष्कंभ्य यदि नीचे एलुके पाश्चात्यः पादः पतितः शुद्ध्यति यथा न बीजादौ प्रतिष्ठित इति तदा कल्पते, अत्युच्चे तु न कल्पते इति काले कालाभिग्रहे तृतीयस्यां पौरुष्यां यदिभक्षामटति । सम्प्रति द्रव्याभिग्रहे विशेषअन्नाउंछं एगोवनीय निज्जूहिऊण समणादी । अगुव्विणि अबालंती एलुगविक्खंभणे दोसा ।।
[भा. ३८५१]
वृ- स प्रतिमाप्रतिपन्नो भगवान् अज्ञातोंछं गृह्णाति, तदप्पेकेनोपनीतं न द्विप्रभृतिभिस्तथा श्रमणादीन् आदिशद्वात् द्विपदचतुष्पदादींश्च निर्यूह्यातिवाह्य भिक्षाभटति । तथा तां ददती भिक्षामगुर्विणीमभ्युपगच्छति । अबालां च क्षीराहारबालवर्जितां तथा एलुकविष्कंभणे दोषा भवंति ते चाग्रे वक्ष्यन्ते एष द्वारगाथासंक्षेपार्थः । साम्प्रतमेनामेव विवरीषुः प्रथमतोऽज्ञातोछमाहअनाउञ्छं च सुद्धं च पंच काऊण अग्गर्ह । दिन दिने अभिगिएहे तासिमन्नयरीय उ ।।
[भा. ३८५२]
वृ- पञ्चानामाधानां पिण्डैषणानामग्रहणं कृत्वा तयोरन्तिमयोरन्यतरस्याश्च ग्रहणं कृत्वा दिने दिनेऽज्ञातोंछं च शुद्धं चाभिगृह्णाति । साम्प्रतमेकोपनीतमित्यस्य व्याख्यानमाह
[भा. ३८५३]
एगस्स भुंजमाणस्स उवनीयं तु गेण्हइ ।
हे दुगुमादी अचियत्तं तुमाभवे ।।
वृ- एकस्य भुंजमानस्य उपनीतं भगवान् गृह्णाति न द्विकादीनां द्वयोस्त्रयाणां चतुर्णां पंचानां वा उपनीतं न गृह्णाति । कस्मादिति चेन्मा भूदप्रीतिरितिहेतोः । अधुना निज्जूहिऊण समणादी व्याख्या[भा. ३८५४ ] अडतो भिक्खकालंमी घासत्थी वसभादओ ।
वज्जेइ होज्ज मा तेसिं आउरतेन अप्पियं ।।
वृ- भिक्षाकाले वृषभादयो ग्रासार्थिनोऽटन्ति । ततस्तान् वर्जयति मा तेषामातुरत्वेनाप्रीतिकं भूयादिति हेतोः । एतदेवाह
[भा. ३८५५] दुपय चउप्पय पक्खी किविणातिहि समण साणमाईया | निज्जूहिऊण सव्वे अडइ भिक्खं तु सो ताहे ।
वृ- भिक्षाकाले द्विपदाश्चतुप्पदाः पक्षिणः कृपणातिथयः श्रमणा श्वादयश्च भिक्षार्थमटन्ति ततस्तान् सर्वान् निर्यूह्य तदनन्तरं स भगवान् भिक्षामटति । कथमतिवाह्येत्यत आह
[भा. ३८५६]
पुच्चि चरइ तेसिं नियट्टिचारेसु वा अडइ पच्छा }
भवेदोन्नि काला चरइ तत्थ अतित्थिते ।
वृ- तेषां श्रमणानां पूर्वं वा चरति यदि वा तेषु श्रमणादिषु निवृत्तचारेषु पश्चाददति, एतच्च तस्मिन् क्षेत्रे द्रष्टव्यं यत्र त्रयो भिक्षा काला यत्र तु द्वौ भिक्षाकालौ तत्र अतीत्यिते अतिक्रान्ते श्रमणादौ गच्छति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org