SearchBrowseAboutContactDonate
Page Preview
Page 792
Loading...
Download File
Download File
Page Text
________________ उद्देशक : - ७, मूल - १८०, [भा. ३२९१] वृ- मुञ्चामुं साधुमहं ते मूल्यं दास्यामि । तत्रोपेक्षां साधुः कुरुते न तं मूल्यं प्रयच्छन्तं वारयति । अथान्यः कोऽपि नैवं भणति तदा अदशानि वस्त्राणि ददाति तेषामनिच्छायां सदशान्यपि अथ वस्त्राणि सदशान्यदशानि वा सन्ति तदा तेषामभावे साधारणं वदेत् । तथाहि यदि लप्स्यामहे तत् आनेष्यामो अलाभे त्वमेतस्य कलेवरस्य विज्ञायकएवं साधारणउक्ते सोऽपि द्वारस्थो लोकस्वभीतो नियमात्मुञ्चति अमोचने तत्तत्रैव मुक्त्वा वस्त्रोत्पादनाय गच्छन्ति । गत्वा अन्तं प्रान्तं वा वस्त्रमानयन्ति । अलाभे सोऽपि द्वारपालो मृतकेन हील्यते ततो मुहूर्तानन्तरं स स्वयमेव मुञ्चति अज्ञातविषयेऽपवादमाहअन्नाए वावि परलिंगं जयणाए काउ वच्चती । उवयोगठ नाऊणं एसविही असहायए ।। [भा. ३२९२] वृ- अथवा अज्ञाते अपरिचये ग्रामरूपयतना कालगतस्य परलिङ्ग कृत्वा व्रजति । कया यतनयेत्याहउपयोगार्थं ज्ञात्वा एतावता कालेन तस्य कालगतस्य उपयोगलक्षणोऽर्थोऽभूत् । नातः परं परलिङ्गकरणेऽपि कश्चिद्दोष इति ज्ञात्वा एषविधिरसहायेष्वसहायस्य एकाकिनो द्रष्टव्यो न तु द्विप्रभृतीनामपि । [भा. ३२९३] एएण सुत्न गयं सुत्तनिवा तो उ पंथगामे वा । एगो व अनेगो वा हवेज्ज वीसंभिया भिक्खू ।। वृ यदेतद्व्याख्यानमेतेन न सूत्रं गतं किन्तु सामाचारी प्रकाशनिमित्तं सर्वमेतद्व्याख्यातं । सम्प्रति यदधः प्रतिपादितः सूत्रनिपातः पथि ग्रामे वेति तदिदानीं व्याख्यायते । एको वा अनेके वा भवेयुर्विष्वग्भूता भिक्षवः । इयमत्र भावना - अत्र चत्वारो भङ्गाः एकेन साधुना एकः कालगतो दृष्टः १ एकेनानेके २ अनेकैरेकः ३ अनेकैरनेके ० ४ । तत्र प्रथमभङ्गमधिकृत्य विधिमाहगाणियं तुग्गामे हुं सोउं विगिंचण तहेव । जादाभणं तू एसो गा विही वृत्तो ॥ [भा. ३२९४] ३०७ वृ- ग्रामे एकाकी एकाकिनं कालगतं संविग्नमसंविग्नं वा दृष्ट्रा श्रुत्वा वा विवेचनं परिष्ठापनं तथैव कुर्यात् यथोक्तमनन्तरं तावत् यावत् द्वारे निरोधनम् । एवं शेषेष्वपि भङ्गेषु संविग्नशरीरं वा ऽसंविग्नशरीरं वा प्रागुक्तेन विधिना परिष्ठापयितव्य एष ग्रामे विधिरुक्तः सम्प्रति पथि विधिमभिधित्सुरांहएमेव य पंथंमि वि एवमनेगे विचिणा विहिना । [भा.३२९५] एत्थं जो उ विसेसो तमहं वुच्छं समासेणा ।। बृ एवमेव अनेनैव प्रागुक्तेन प्रकारेण पथ्यपि एकस्यानेकस्य च विधिना विवेचना परिष्ठापना द्रष्टव्या । नवरमत्र यो विशेषस्तमहं समासेन वक्ष्ये । [भा. ३२९६] एगोएगं पासति एगो नेगे नेगे एगं । गाने तेन संविग्गतरेव जे दिट्टा || बृ- तत्र एकोऽनेक प्रतिपादनार्थमाह-दिठा एक एकं पश्यतीति प्रथमो भङ्ग १, एकोऽनेकान् २, अनेके एकं ३, अनेके अनेकान् ४ । तत्र ये दृष्टास्ते संविग्ना भवेयुरसंविग्ना वा सर्वथा परिष्ठापना कर्तव्या । अन्यथा प्रवचनोपघातसंभवात् । सम्प्रति विशेष प्रतिपादनार्थमाह [भा. ३२९७] Jain Education International वीइक्कते भिन्ने नियट्टे सोऊण पंचविपयाई । मिच्छत्त अन्नपंथेण कडुणा ज्झामणाजं च ।। For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy